| YouTube Channel

विभक्तजः (vibhaktajaH)

 
शब्दकल्पद्रुमः
Sanskrit
विभक्तजः,
पुं,
(विभक्ते सति जायते इति जन+ डः ।) विभागानन्तरं गर्भाधानेन जातः ।यथा बृहस्पतिः ।“पित्रा सह विभक्ता ये सापत्न्या वा सहोदराः ।जघन्यजाश्च ये तेषां पितृभागहरास्तु ते
अनीशः पूर्व्वजः पित्र्ये भ्रातृभागे विभक्तजः ।यथा धने तथर्णेऽपि मुक्त्रा शौचोदकक्रियाः
”इति दायतत्त्वम्