| YouTube Channel

विभक्तः (vibhaktaH)

 
Apte Hindi
Hindi
विभक्तः
पुं*
- -
कार्तिकेय
शब्दकल्पद्रुमः
Sanskrit
विभक्तः, त्रि, (वि + भज् + क्तः ।) प्राप्तविभागः ।विभिन्नः पृथक् यथा बृहस्पतिः ।“पित्रा सहविभक्ता ये सापत्न्या वा सहोदराः
जघन्यजाश्च ये तेषां पितृभागहरास्तु ते ।अनीशः पूर्व्वजः पित्र्ये भ्रातृभागे विभक्तजः
”विभक्तजो विभागानन्तरं गर्भाधानेन जातः
अपि व्यासः ।“भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते ।तदभावे विभक्तानां धर्म्मस्तेषां विवर्द्धते
”विभक्तानां स्वमात्रधने वैदिककर्म्मकरणात्तन्मा-म्रधर्म्मत्वेन तद्वृद्धिरित्यर्थः ।“विभक्ता अविभक्ता वा सपिण्डाः स्थावरेसमाः ।एको ह्यनीशः सर्व्वत्र दानाधमनविक्रये
”अपि ।“दानग्रहणपश्वन्नगृहक्षेत्रपरिग्रहाः ।विभक्तानां पृथक् ज्ञेयाः पाकधर्म्मागमव्ययाः
साक्षित्वं प्रातिभाव्यञ्च दानं ग्रहणमेव ।विभक्ता भ्रातरः कुर्य्युर्नाविभक्ताः परस्परम्
येषामेताः क्रिया लोके प्रवर्त्तन्ते स्वऋक्थतः ।विभक्तानवगच्छेयुर्लेख्यमप्यन्तरेण तान्
”इति नारदवचनानि
तथा ।“भ्रातॄणामथ दम्पत्योः पितुः पुत्त्रस्य चैव हि ।प्रातिभाव्यमृणं साक्ष्यमविभक्तेन तत् स्मृतम्
”इति याज्ञवल्क्यवचनम्
*
तथा ।“विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्रसंस्थितः ।पितृव्येणाथवा प्रीत्या तु संसृष्ट उच्यते
”इति बृहस्पतिवचने येषामेव हि पितृभ्रातृ-पितृव्यादीनां पितृपितामहोपार्ज्जितद्रव्येणा-विभक्तत्वमुत्पत्तितः सम्भवति एव विभक्ताःसन्तः परस्परप्रीत्या पूर्व्वकृतविभागध्वंसेन यत्तवधनं तन्मम धनं यन्मम धनं तत्तवापि इत्येक-स्मिन् कार्य्ये एकगृहिरूपतया स्थिताः संसृष्टाः ।न त्वेवं रूपाणां धनसंसर्गमात्रेण नापि विभ-क्तानां प्रीतिपूर्व्वकाभिसन्धानं विना
*
तथा ।“बन्धूनामविभक्तानां भोगं नैव प्रदापयेत्
”इति कात्यायनवचनम्
तथा ।“भ्रातॄणामविभक्तानामेको धर्म्मः प्रवर्त्तते ।विभागे सति धर्म्मोऽपि भवेत्तेषां पृथक्पृथक्
”तथा ।“भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह ।न तत्र भागं विषमं पिता दद्यात् कथञ्चन
”इति मनुवचनम्
तथा कात्यायनः ।“अविभक्ते मृते पुत्त्रे तत्सुतं ऋक्थभागिनम् ।कुर्व्वीत जीवनं येन लब्धं नैव पितामहात् ।लभेतांशं पित्र्यं पितृव्यात् तस्य वासुतात्
”तथा विष्णुः पितृविभक्ता विभागानन्तरो-त्पन्नस्य विभागं दद्युः
*
अपि ।“अविभक्तविभक्तानां कुल्यानां वसतां सह ।भूयो दायविभागः स्यादाचतुर्थादिति स्थितिः
”इति कात्यायनवचनम्
अविभक्तानां सह वसतां संसृष्टानां वा पुन-र्विभागो भ्रातृतत्सुततत्सुतपर्य्यन्तमेव तत्सुता-च्चतुर्थान्निवर्त्तते इति
तथा ।“अविभक्तं स्थावरं यत् सर्व्वेषामेव तद्भवेत् ।विभक्तं स्थावरं प्राप्तं नान्योदर्य्यैः कदाचन
”इति यमवचनम् एतानि वचनादीनि दाय-तत्त्वधृतानि
*
अपि ।“अविभक्ता विभक्ता वा कुर्य्युः श्राद्धमदैविकम् ।मघासु तथान्यत्र नाधिकारः पृथक् विना
”इति श्राद्धतत्त्वम्
अन्यच्च ।“बहवः स्युर्यदा पुत्त्राः पितुरेकत्र वासिनः ।सर्व्वेषान्तु मतं कृत्वा ज्येष्ठेनैव तु यत् कृतम् ।द्रव्येण चाविभक्तेन सर्व्वैरेव कृतं भवेत्
”इति शुद्धितत्त्वम्
(पुं, कार्त्तिकेयः यथा, महाभारते १३१ ।“षष्ठीप्रियश्च धर्म्मात्मा पवित्रो मातृवत्सलः ।कन्याभर्त्ता विभक्तश्च स्वाहेयो रेवतीसुतः
”)