| YouTube Channel

विबोधनं (vibodhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
विबोधनं,
क्ली,
(वि + बुध + ल्युट् ।) प्रबोधनम् ।यथा, --“तुष्टाव योगनिद्रान्तामेकाग्रहृदयस्थितः ।विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम्
”इति देवीमाहात्म्यम्
(जागरणम् यथा, महाभारते १०० ।“वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः
”प्राप्तिबोधके, त्रि यथा, ऋग्वेदे ३८ २२ ।“अदाद्रायो विबोधनम् ।”“रायो धनस्य विबोधनं विशेषेण बोधकं बहु-धनप्राप्तिहेतुमित्यर्थः ।” इति तद्भाष्ये सायणः