| YouTube Channel

विप्रुट् (vipruT)

 
Wordnet
Sanskrit
Synonyms:
कणः, बिन्दुः, क्षोदः, विप्लुट्, विप्रुट्, पृषत्, पृषतः, पृषन्ति, लवः, लेशः, स्तोकः, गडः, कणिका, शीकरः, स्फाटकः, पुष्वा
noun
निष्यन्दमान-जलादि-द्रवपदार्थानां गोलिकासमः लघुः अंशः।
"जलस्य कणैः घटः पूरितः।"
शब्दकल्पद्रुमः
Sanskrit
विप्रुट्, [ष्]
स्त्री,
(विशेषेण प्रोषति दहतिपापानि वि + प्रुष् + क्विप् ।) बिन्दुः इत्य-मरः
(यथा, महाभारते १३ १०७ ।१३५ ।“विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात्
”)वेदपाठे विप्रुषो मुखनिर्गतजलबिन्दवो ब्रह्म-बिन्दव उच्यन्ते ते शुद्धाः यथा, --“मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः ।रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्द्दिशेत्
”इति शुद्धितत्त्वे मनुवचनम्
(यथा मनौ १४१ ।“नोच्छिष्टं कुर्व्वते मुख्या विप्रुषोऽङ्गे पतन्तियाः ।न श्मश्रूणि गतान्यास्यं दन्तान्तरधिष्ठितम्
”)आचमनकाले मुखनिर्गता विप्रुषो उच्छिष्ट-जनिकाः यथा, --“नोच्छिष्टं कुर्व्वते मुख्या विप्रुषोऽङ्गं नयन्ति याः ।दन्तवद्दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत्
”इति कौर्म्मे उपविभागे १३ अध्यायः