| YouTube Channel

विपर्य्यासः (viparyyAsaH)

 
शब्दकल्पद्रुमः
Sanskrit
विपर्य्यासः,
पुं,
(वि + परि + अस + घञ् ।) विप-र्य्ययः इत्यमरः
(यथा, उत्तरचरिते ।“पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितांविपर्य्यासं यातो घनविरलभावः क्षितिरुहाम् ।बहोर्द्दृष्टं कालादपरमिव मन्ये वनमिदंनिवेशः शैलानां तदिदमिति बुद्धिं द्रढयति
”अप्रमात्मकबुद्धिभेदः यथा, भाषापरिच्छेदे ।“तच्छून्ये तन्मतिर्यास्यादप्रमा सा निरूपिता ।तत्प्रपञ्चो विपर्य्यासः संशयोऽपि प्रकीर्त्तितः ।आद्यो देहे ह्यात्मबुद्धिः शङ्खादौ पीतता-मतिः
”“आद्यो विपर्य्यासः ।” इति मुक्तावली
)