| YouTube Channel

विन्ध्यः (vindhyaH)

 
Apte
English
विन्ध्यः [vindhyḥ], [विदधाति करोति भयम्
Uṇ.*
4.121]
N.
of a range of mountain which separates Hindustan proper from the Deccan or south
it is one of the seven Kulaparvatas (q. v. ) and forms the southern limit of Madhyadeśa
see
Ms.*
2.21. [According to a legend, the Vindhya mountain, being jealous of the mount Meru (or Himālaya) demanded that the sun should revolve round himself as about Meru, which the sun declined to do
whereupon the Vindhya began to rise higher and higher so as to obstruct the path of the sun and moon. The gods being alarmed sought the aid of the sage Agastya, who approached the mountain and requested that by bending down he would give him an easy passage to the south, and that he would retain the same position till his return. This Vindhya consented to do (because according to one account, he regarded Agastya as his teacher)
but Agastya never returned from the south, and Vindhya never attained the height of Meru.]
A hunter.
न्ध्या
N.
of a plant (लवली).
Small cardamoms.
A measure of time (त्रुटि)
L.
D. B.
Comp.
-अटवी the great Vindhya forest. -कूटः, -कूटनम् epithets of the sage Agastya. -गिरिः the Vindhya range of hills
also विन्ध्याचल, विन्ध्याद्रि. -वासिन्
m.
an epithet of the grammarian व्याडि. (-नी) an epithet of Durgā.
Apte Hindi
Hindi
विन्ध्यः
पुं*
- विदधाति करोति भयम्
"एक पर्वत श्रेणी जो उत्तर भारत को दक्षिण से पृथक् करती है, यह सात कुल पर्वतों में से एक है, यह मध्यदेश की दक्षिणी सीमा है"
विन्ध्यः
पुं*
- -
शिकारी
Wordnet
Sanskrit
Synonyms:
विन्ध्याचलः, विन्ध्यगिरिः, विन्ध्यः
noun
भारतस्था एका पर्वतमाला।
"विन्ध्याचलः विन्ध्यवासिन्याः देव्याः निवासस्थलम् अस्ति।"
Synonyms:
विन्ध्यः
noun
एकः राजपुत्रः
"हेमचन्द्रस्य परिशिष्टपर्वन् इत्यस्मिन् ग्रन्थे विन्ध्यस्य वर्णनम् अस्ति"
वैजयन्तीकोषः
Sanskrit
Word: विन्ध्यः
Root: विन्ध्य
Gender: पुं
Number: all
अर्थः विन्ध्यापर्वतः
Meaning(s):
Name of a mountain
Shloka(s):
3|2|3|2 मलये त्रिकलाषाढौ विन्ध्यस्तु जलवालकः॥ (भूमिकाण्डः/शैलाध्यायः)
Synonym(s):
3|2|3|2 विन्ध्यः (विन्ध्य) (पुं) Name of a mountain विन्ध्यापर्वतः
3|2|3|2 जलवालकः (जलवालक) (पुं) Epithet of the mountain Vindhya विन्ध्यापर्वतः
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
विन्ध्यः,
पुं,
पर्व्वतविशेषः इत्यमरः
(यथा, मनौ २१ ।“हिमवविन्ध्ययोर्मध्यं यः प्राग्विनशना-दपि ।प्रत्यगेव प्रयगाञ्च मध्यदेशः प्रकीर्त्तितः
”)व्याधः इति मेदिनी
विन्ध्यपर्व्वतस्य निम्न-शृङ्गत्वकारणम् यथा, --नारद उवाच ।“किमर्थमद्रिं भगवानगस्त्य-स्तं निम्नशृङ्गं कृतवान् मह्र्षिः ।कस्मै कृते केन कारणेननस्तद्वदस्वाखिलसत्त्ववृत्ते
पुलस्त्य उवाच ।पुरा हि विन्ध्येन दिवाकरस्यगतिर्न्निरुद्धा गगनेचरस्य ।रविस्ततः कुम्भभवं समेत्यहोमावसाने वचनं बभाषे
समागतोऽहञ्च द्विजर्षभ त्वांकुरुष्व मय्युद्धरणं मुनीन्द्र ।ददस्व दानं मम यन्मनीषितंचरामि येन त्रिदिवे सुनिर्वृतः
इत्थं दिवाकरवचो गुणसङ्गयोगिश्रुत्वा तदा कलसजो वचनं बभाषे ।दानं ददामि तव यन्मनसा त्वभीष्टंनार्थी प्रयाति विमुखो मम कश्चिदेव
श्रुत्वा वचोऽमृतमयं कलसोद्भवस्यप्राह प्रभुः करपुटं प्रणिधाय मूर्द्ध्नि ।एषोऽद्य मे गिरिवरः प्ररुणद्धि मार्गंविन्ध्यस्य निम्रकरणे भगवान् यतस्व
इति रविवचनादुवाच कुम्भजन्माकृतमिति तद्धि मया हि नीचशृङ्गम् ।तव किरणजितो भविष्यतीति महीध्रोमम हि शरणसमागतस्य का व्यथा ते
इत्येवमुक्त्वा कलसोद्भवस्तुसूर्य्यञ्च संस्तूय विनम्य भक्त्या ।जगाम संत्यज्य हि दण्डकं हिविन्ध्याचलं वृद्धवपुर्महर्षिः
गत्वा वचः प्राह मुनिर्महीध्रंयास्ये महातीर्थवरं सुपुण्यम् ।वृद्धोऽप्यशक्तश्च तवाधिरोढुंतस्माद्भवान् नीचतरोऽस्तु सद्यः
इत्येवमुक्तो मुनिसत्तमेनस नीचशृङ्गस्त्वभवन् महीध्रः ।समाक्रमच्चापि महर्षिमुख्यःप्रोल्लङ्म विन्ध्यं द्विज आह शैलम्
यावन्न भूयो निजमाव्रजामिमहाश्रमं धौतवपुः सुतीर्थात् ।त्वया तावत्त्विह वर्द्धितव्यंन चेत् शपिष्येऽहमवज्ञया ते
इत्येवमुक्त्वा भगवान् जगामदिशं यामीं सहसान्तरीक्षम् ।आक्रम्य तस्थौ हि तां तदाशांकाले व्रजाम्यत्र यदा मुनीन्द्र
तत्राश्रमं रम्यतरं हि कृत्वासंशुद्धजाम्बूनदतोरणान्तम् ।तत्राथ निःक्षिप्य विदर्भपुत्त्रींस्वमाश्रमं सौन्यमुपाजगाम
ऋतावृतौ कार्य्यपरो ह्यगस्त्योनित्यं तदा स्वाश्रममावसत् सः ।शेषञ्च कालं हि दण्डकस्थ-स्तपश्चचारामितकान्तिमान्मुनिः
विन्ध्योऽपि दृष्ट्वा गगने महाश्रमंवृद्धिं यात्येव भयान्महर्षेः ।नासौ निवृत्तेऽभिमतिं निधायस संस्थितो नीचतराग्रशृङ्गः
एवं त्वगस्त्येन महाचलेन्द्रःस नीचशृङ्गो हि कृतो महर्षे ।तस्योर्द्ध्वशृङ्गे मुनिसंस्तुता सादुर्गा स्थिता दानवशासनार्थे
देवाश्च सिद्धाश्च महोरगाश्चविद्याधरा भूतगणाश्च सर्व्वे ।सर्व्वाप्सरोभिः सहिता दिवानिशंकात्यायनीं तस्थुरपेतशोकाः
”इति वामनपुराणे देवीमाहात्म्ये १८ अध्यायः
“आर्य्यावर्त्तः पुण्यभूमिर्मध्यं विन्ध्यहिमागयोः ।”इत्यमरः
“विन्ध्यस्य पश्चिमे भागे मत्स्यभुक् पतितोभवेत्
”इति प्राचीनाः