| YouTube Channel

विनीतः (vinItaH)

 
Apte Hindi
Hindi
विनीतः
पुं*
- -
सधाया हुआ घोड़ा
विनीतः
पुं*
- -
व्यापारी
Wordnet
Sanskrit
Synonyms:
दमनकः, दमनः, दान्तः, गन्धोत्कटा, मुनिः, जटिला, दण्डी, पाण्डुरागः, ब्रह्मजटा, पुण्डरीकः, तापसपत्री, पत्री, पवित्रकः, देवशेखरः, कुलपत्रः, विनीतः, तपस्वीपत्रः, मुनिपुत्रः, तपोधनः, गन्धोत्कटः, ब्रब्मजटी, कुलपुत्रकः
noun
वृक्षविशेषः, सुगन्धीपत्रयुक्तवृक्षः आयुर्वेदे अस्य गुणाः कुष्ठदोषद्वन्द्वत्रिदोषविषविस्फोटविकारहरत्वादि प्रोक्ताः
"द्विगुणनगणमिह वितनु हि दमनकमिति गदति शुचि हि [चिन्तामणि]"
शब्दकल्पद्रुमः
Sanskrit
विनीतः, त्रि, (वि + नी + क्तः ।) विनयान्वितः ।विनयः शास्त्रतः संस्कारः इन्द्रिययमो वा ।तत्पर्य्यायः निभृतः प्रश्रितः इत्यमर-भरतौ
(यथा, रघुवंशे १४ ७५ ।“तपस्विसंसर्गविनीतसत्त्वेतपोवने वीतभया वसास्मिन्
”)जितेन्द्रियः (यथा, तन्त्रसारे ।“शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेश-वान्
”)अपनीतः (यथा, महाभारते ११० ५५ ।“विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः
”)हृतः इति मेदिनीकारहेमचन्द्रौ
क्षिप्तः ।इत्यजयपालः
कृतदण्डः इति स्मृतिः
(अनुद्धतः यथा, मनौ ४१ ।“तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना
”)
विनीतः,
पुं,
(वि + नी + क्तः ।) सुवहाश्वः ।तत्पर्य्यायः साधुवाही इत्यमरः सुष्ठु-वाहनशीलकः इति शब्दरत्नावली
(यथा, महाभारते ११० ५६ ।“तांस्तदा रूप्यवर्णाभान् विनीतान् शीध्र-गामिनः
”)बणिक् इति मेदिनी ते, १५४
दमनकवृक्षः ।(अस्य पर्य्यायो यथा, --“उक्तो दमनको दान्तो मुनिपुत्त्रस्तपोधनः ।गन्धोत्कटे ब्रह्मजटो विनीतः फलपत्रकः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)शिक्षितवृषभादिः इति राजनिर्घण्टः