| YouTube Channel

विनिद्रः (vinidraH)

 
शब्दकल्पद्रुमः
Sanskrit
विनिद्रः, त्रि, (विगता निद्रा मुद्रना यस्य ।)उन्मीलितः इति शब्दमाला
(यथा, नैषधे ।१ ३४ ।“विनिद्ररोमाजनि शृण्वती नलम्
”तथा सा हत्यदर्पणे १० परिच्छेदे ।“उत्पत्तिरिन्दोरपि निष्फलैवदृष्टा विनिद्रा नलिनी येन
”)निद्रारहितः (यथा, महाभारते ।२८५ २१ ।“स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः ।ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम्
”)