विनायक (vinAyaka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English विनायक vinAyaka removing
विनायक { नी } vinAyaka { nI } taking away [ removing, impediment, obstruction ]
विनायक vinAyaka Guru or spiritual preceptor
विनायक vinAyaka buddha
विनायक vinAyaka Remover
विनायक vinAyaka obstacle
विनायक vinAyaka leader
विनायक vinAyaka impediment
विनायक vinAyaka guide
विनायक vinAyaka particular class of demons [ pl. ]
Wilson
EnglishApte
Englishविनायकः [vināyakḥ], 1 A remover (of obstacles).
of Gaṇeśa
विनायकं प्रकुर्वाणो रचयामास वानरम् Subhāṣ.
A Buddhist deified teacher.
of Garuḍa.
An obstacle, impediment.
A spiritual preceptor.
A leader, guide.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishवि-नायक, अस्, इका, अम्, taking away, removing
(अस्), m. a remover (of obstacles)
a Buddha or
Buddhist deified teacher
N. of the god Gaṇeśa
of
Garuḍa (the bird and vehicle of Viṣṇu)
of a poet
a Guru or spiritual preceptor
an obstacle, impedi-
ment, difficulty
(इका), f. the wife of Garuḍa.
—वि-
नायक-चरित, अम्, n., N. of the seventy-third
chapter of the Krīḍā-khaṇḍa or second part of the
Gaṇeśa-Purāṇa.
—विनायक-पण्डित, अस्, m., N.
of a poet
= नन्द-पण्डित.
—विनायक-भट्ट,
अस्, m., N. of a modern author.
—विनायक-भो-
जन-वर्णना, f., N. of a chapter of the Gaṇeśa-
Purāṇa.
—विनायकावतार-वर्णन (°क-अव्°),
अम्, n., N. of part of the Skanda-Purāṇa.
—विना-
यकाविर्भाव (°क-आव्°), अस्, m. ‘manifestation of
Gaṇeśa, ’ N. of the sixth chapter of the Krīḍā-khaṇḍa
or second part of the Gaṇeśa-Purāṇa.
—विनायकोत्-
पत्ति (°क-उत्°), इस्, f. ‘birth of Gaṇeśa, ’ N. of the
102nd chapter of the first part of the Liṅga-Purāṇa.
Benfey
EnglishApte Hindi
Hindiविनायकः
- विशिष्टो नायकः प्रा* स*
(बाधाओं के) हटाने वाला
विनायकः
- -
गणेश
विनायकः
- -
बुद्ध धर्म का देवरूप अध्यापक
विनायकः
- -
गरुड़
विनायकः
- -
"रुकावट, अड़चन"
विनायकः
- वि+नी+ण्वुल्
"नेता, अग्रणी"
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishEdgerton Buddhist Hybrid
EnglishIndian Epigraphical Glossary
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
Germanअभिधानचिन्तामणिः
Sanskritहेरम्बो गणविघ्नेशः पर्शुपाणिर्विनायकः ।
द्वैमातुरो गजास्यैकदन्तौ लम्बोदराखुगौ ॥ २०७ ॥
हेरम्ब (पुं), गणेश (पुं), विघ्नेश (पुं), पर्शुपाणि (पुं), विनायक (पुं), द्वैमातुर (पुं), गजास्य (पुं), एकदन्त (पुं), लम्बोदर (पुं), आखुग (पुं)
बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविज्जिनः ।
बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः ॥ २३२ ॥
पञ्चज्ञानो षडभिज्ञो दशार्हो दशभूमिगः ।
चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥ २३३ ॥
द्वादशाक्षौ दशबलस्त्रिकायः श्रीघनाद्वयौ ।
समन्तभद्रः संगुप्तो दयाकूर्चो विनायकः ॥ २३४ ॥
मारलोकखजिद्धर्मराजो विज्ञानमातृकः ।
महामैत्रो मुनीन्द्रश्च बुद्धाः स्युः सप्त ते त्वमी ॥ २३५ ॥
विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः ।
काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥ २३६ ॥
तथा राहुलसूः सर्वार्थसिद्धो गौतमान्वयः ।
मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥ २३७ ॥
बुद्ध (पुं), सुगत (पुं), धर्मधातु (पुं), त्रिकालविद् (पुं), जिन (पुं), बोधिसत्त्व (पुं), महाबोधि (पुं), आर्य (पुं), शास्तृ (पुं), तथागत (पुं), पञ्चज्ञान (पुं), षडभिज्ञ (पुं), दशार्ह (पुं), दशभूमिग (पुं), चतुस्त्रिंशज्जातकज्ञ (पुं), दशपारमिताधर (पुं), द्वादशाक्ष (पुं), दशबल (पुं), त्रिकाय (पुं), श्रीघन (पुं), अद्वय (पुं), समन्तभद्र (पुं), सङ्गुप्त (पुं), दयाकूर्च (पुं), विनायक (पुं), मारजित् (पुं), लोकजित् (पुं), खजित् (पुं), धर्मराज (पुं), विज्ञानमातृक (पुं), महामैत्र (पुं), मुनीन्द्र (पुं), बुद्ध (पुं), विपश्यिन् (पुं), शिखिन् (पुं), विश्वभू (पुं), क्रकुच्छन्द (पुं), काञ्चन (पुं), काश्यप (पुं), शाक्यसिंह (पुं), अर्कबान्धव (पुं), राहुलसू (पुं), सर्वार्थसिद्ध (पुं), गोतमान्वय (पुं), मायासुत (पुं), शुद्धोदनसुत (पुं), देवदत्ताप्रज (पुं)
अभिधानरत्नमाला
Sanskritहेरम्ब
हेरम्ब, लम्बोदर, आखुरथ, गणपति, गजवदन, परशुधर, एकदन्त, विनायक, विघ्नराज
हेरम्बो लम्बोदर आखुरथो गणपतिश्च गजवदनः ।
परशुधर एकदन्तो विनायको विघ्नराजश्च ॥ १८ ॥
verse 1.1.1.18
page 0003
Mahabharata
EnglishVināyaka, pl. (ºāḥ), a class of demons. § 696b (Dakshaprokta-Śivasahasranāmastotra): XII, 285, 10477 (cf. XIII, 7103).
पुराणम्
Englishविनायक १ / VINĀYAKA I. A devatā of the Gaṇas (guards of śiva). (mahābhārata, anuśāsana parva, Chapter 150, Stanza 25).
विनायक २ / VINĀYAKA II. gaṇapati.
शब्दकल्पद्रुमः
Sanskritविनायकः, (विशिष्टो नायकः ।) बुद्धः । गणेशः ।इत्यमरः ॥
(यथा, कथासरित्सागरे । ३० । ५५ ।“अस्तीह प्रमदोद्याने तरुमण्डलमध्यगः ।दृष्टप्रभावो वरदो देवदेवो विनायकः ॥
”)गरुडः । विघ्नः । (यथा, हरिवंशे । १८१ । ६५ ।“राक्षसाश्च पिसाचाश्च भूतानि च विना-यकाः ॥
”)गुरुः । इति मेदिनी । के, ११२ ॥
* ॥
विना-यकगणो यथा, --“गाङ्गेयो विष्णवश्चैव द्बौ विज्ञेयौ विनायकौ ॥
”इति वह्निपुराणे गणभेदनामाध्यायः ॥
* ॥
विनायकस्योत्पत्तिर्यथा, --प्रजापाल उवाच ।“कथं गणपतेर्जन्म मूर्त्तिमत्त्वञ्च सत्तम ! ।एतन्मे संशयं छिन्धि धृतिकष्टं व्यवस्थितम् ॥
महातपा उवाच ।पूर्व्वं देवगणाः सर्व्वे ऋषयश्च तपोधनाः ।कार्य्यारम्भे यथा प्राप्ताः सिद्धिं ते च न संशयः ॥
सन्मागांवस्थिषु यथा सिध्यन्ते विघ्नतः क्रियाः ।असत्कारिषु सर्व्वेषु तद्बदेवमविघ्नतः ॥
ततो देवाः सपितरश्चिन्तयामासुराजसा ।असत्कार्य्येषु विघ्नार्थे सर्व्व एवाभ्यमन्त्रयन् ॥
ततस्तेषा तदा मन्त्रं कुर्व्वतां त्रिदिवौकसाम् ।बभूव बुद्धिर्गमने रुद्रं प्रति महामते ॥
ते तत्र रुद्रमामन्त्र्य कैलासनिलयं गुरुम् ।ऊचुः सविनयं सर्व्वे प्रणिपातपुरःसरम् ॥
देवा ऊचुः ।देवदेव महादेव शूलपाणे त्रिलोचन ।विघ्नार्थमविशिष्टानां उत्पादयितुमर्हसि ॥
एवमुक्तस्तदा देवैर्भवः परमया मुदा ।उमां निरीक्षयामास चक्षुषानिमिषेण ह ॥
देवानां सन्निधौ तस्य पश्यतो मां महात्मनः ।चिन्ताभूद्व्योम्नि मूर्त्तेभ्यो दृश्यते केन हेतुना ॥
पृथिव्या विद्यते मूर्त्तिरपां मूर्त्तिस्तथैव च ।तेजसः श्वसनस्यापि मूर्त्तिरेषा तु दृश्यते ॥
आकाशस्य कथं नेति मत्वा देवो जहास च ।ज्ञानशक्तिः परान् दृष्ट्वा यद्दृष्टं व्योम्नि शम्भुना ॥
यच्चोक्तं ब्रह्मणा पूर्व्वं शरीरन्तु शरीरिणाम् ।यच्चापि हसितं तेन देवेन परमेष्ठिना ॥
एतत्कार्य्यचतुष्केण पृथिव्यादिचतुर्ष्वपि ।मूर्त्तिमानतितेजस्वी हसतः परमेष्ठिनः ॥
प्रदीप्तास्यो महादीप्तः कुमारो भासयन् दिशम् ।परमेष्ठिगुणैर्युक्तः साक्षाद्रुद्र इवापरः ॥
उत्पन्नमात्रो देवानां योषितः संप्रमोहयन् ।कान्त्या दीप्त्या तथा मूर्त्त्या रूपेण चमहात्मवान् ॥
तं दृष्ट्वा परमं रूपं कुमारस्य महात्मनः ।उमा निमिषनेत्राभ्यां तमपश्यत भामिनी ॥
तं दृष्ट्वा कुपितो देवस्तीव्रकोपसमन्वितः ।मत्वा कुमाररूपन्तु शोभनं मोहनं दृशाम् ।ततः शशाप तं देवो गणेशं परमेश्वरः ॥
कुमार गजवक्त्रस्त्वं प्रलम्बजठरस्तथा ।भविष्यति तथा सर्पैरुपवीतगतिर्ध्रुवम् ॥
एवं शशाप तं देवस्तीव्रकोपसमन्वितः ।धुन्वन् शरीरमुत्थाय ततो देवो रुषान्वितः ॥
यथा यथासौ स शरीरमाद्यंधुनोति देवस्त्रिशिखास्त्रपाणिः ।तथा तथा चाङ्गरुहाच्चकासजलं क्षितौ संन्यपतंस्तथान्ये ॥
विनायकानेकमुखा गजास्या-स्तमालनीलाञ्जनसन्निकाशाः ।उत्तस्थुरुच्चैर्विविधास्त्रहस्ता-स्ततस्तु देवा मनसाकुलेन ॥
किमेतदित्यद्भुतकर्म्मकारीह्येकः करोत्यप्रतिमं महच्च ।कार्य्यं सुराणां कृतमेतदिष्टंभवेत्तथैतं परितं कुतस्तत् ॥
दिवौकसां चिन्तयतां तथा तुविनायकैः क्ष्मा क्षुभिता बभूव ।चतुर्मखश्चाप्रतिमो विमान-मारुह्य खे वाक्यमिदं जगाद ॥
धन्यास्तु देवा सुरनायकेनत्रिलोचनेनाद्भुतरूपिणा च ।अनुगृहीताः परमेश्वरेणसुरद्विषां विघ्नकृतां नतौ च ।इत्येवमुक्त्वा प्रपितामहस्ता-नुवाच देवस्त्रिंशिखा स्त्रपाणिम् ॥
यस्ते विभो वक्त्रसमुद्भवः प्रभु-र्विनायका नाम वसन्त्विमेऽनुगाः ।भवन्त्वथास्यात्मवरेण चाम्बरेत्वया च तुष्टस्तु शरीरचारी ॥
आकाशमेतद्वहुधा व्यवस्थितंत्वया चैको वदतां ते प्रयाताः ।प्रभुर्भवत्वप्रतिमास्त्रपाणिनाइमान् हि चास्त्रैः सुवरांश्च देहि ॥
इत्येवमुक्त्राभिगते पितामहेत्रिलोचनश्चात्मभवं जगाद ।विनायको विघ्नकरो गजास्योगणेशनामा तु भवस्य पुत्त्रः ॥
एते च सर्व्वे त्वपयान्तु भृत्याविनायकाः क्रूरदृशः प्रचण्डाः ।उच्छुष्मदानादिविवृद्धदेहाःकार्य्येषु सिद्धिं प्रतिपादयन्तः ॥
भवांश्च वेदेषु तथा मखेषुकार्य्येषु चान्येषु महानुभावात् ।अग्नेषु पूजां लभतेऽन्यथा चविनाशयिष्यस्यथ कार्य्यसिद्धिम् ॥
इत्येवमुक्तः परमेश्वरेणसुरैः समं काञ्चनकुम्भसंस्थैः ।जलैस्तथासावभिषिक्तगात्रोरराज राजेन्द्रः विनायकानाम् ॥
दृष्ट्वाभिषिच्यमानं तु देवास्तं गणनायकम् ।तुष्टुवुः प्रयताः सर्व्वे त्रिशूलास्त्रस्य सन्निधौ ॥
देवा ऊचुः ।नमस्ते गजवक्त्राय नमस्ते गणनायक ।विनायक नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥
नमोऽस्तु ते विघ्नकर्त्रे नमस्ते सर्पमेखल ।नमस्ते रुद्रवक्त्रोत्थ प्रलम्बजठराश्रित ।सर्व्वदेवनमस्कारादविघ्नं कुरु सर्व्वदा ॥
एवं स्तुतस्तदा देवैर्महात्मा गणनायकः ।अभिषिक्तस्तु रुद्रेण सोमस्यापत्यतां गतः ॥
एतच्चतुर्थ्यां सम्पन्नं गणाध्यक्षस्य पार्थिव ।यतस्ततोऽयं महती तिथीनां परमा तिथिः ॥
एतस्यां यस्तिलान् भक्त्या भुक्त्वा गणपतिं नृप ।आराधयति तस्याशु तुष्यते नात्र संशयः ॥
यश्चैतत् पठते स्तोत्रं यश्चैतत् शृणुयात्तथा ।तस्य विघ्ना न जायन्ते न पापं सर्व्वथा नृप ॥
”इत्यादि वाराहे विनायकोत्पत्तिनामाध्यायः ॥
* ॥
विनायकस्य नामाष्टकस्तोत्रं यथा, --श्रीविष्णुरुवाच ।“गणेशमेकदन्तञ्च हेरम्बं विघ्ननायकम् ।लम्बोदरं सूर्पकर्णं गजवक्त्रं गुहाग्रजम् ॥
नामाष्टकार्थं पुत्त्रस्य शृणु मत्तो हरप्रिये ।स्तोत्राणां सारभूतञ्च सर्व्वविघ्नहरं परम् ॥
ज्ञानार्थवाचको गश्च णश्च निर्व्वाणवाचकः ।तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् ॥
१ ॥
एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः ।बलं प्रधानं सर्व्वस्मादेकदन्तं नमाम्यहम् ॥
२ ॥
दीनार्थवाचको हेश्च रम्बः पालनवाचकः ।परिपालकं तं दीनानां हेरम्बं प्रणमाम्यहम् ॥
३ ॥
विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।विपत्खण्डनकारन्तं नमामि विघ्ननायकम् ॥
४ ॥
विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बोदरं पुरा ।पित्रा दत्तैश्च विविधैर्वन्दे लम्बोदरञ्च तम् ॥
५ ॥
शूर्पाकारौ च तत्कर्णौ विघ्नवारणकारणौ ।सम्पदास्फालरूपौ च सूर्पकर्णं नमाम्यहम् ॥
६ ॥
विष्णुप्रसादपुष्पञ्च यन्मूर्द्ध्नि मुनिदत्तकम् ।तद्गजेन्द्रवक्त्रयुक्तं गजवक्त्रं नमाम्यहम् ॥
७ ॥
गुहस्याग्रे च जातोऽयमाविर्भूतो हरगृहे ।वन्दे गुहाग्रजं देवं सर्व्वदेवाग्रपूजितम् ॥
८ ॥
एतन्नामाष्टकं दर्गे नामार्थसंयुतं परम् ।पुत्त्रस्य पश्य वेदे च तदा कोपं वृथा कुरु ॥
एतन्नामाष्टकं स्तोत्रं नामार्थसंयुतं शुभम् ।त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्व्वतो जयी ॥
ततो विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ॥
पुत्त्राथीं लभते पुत्त्रं भार्य्याथीं विपुलां स्त्रियम् ।महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्ध्रुवम् ॥
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥
अस्य कवचं यथा, --नारद उवाच ।“संसारमोचनस्यास्य कवचस्य प्रजापतिः ।ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम् ॥
धर्म्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ।सर्व्वेषां कवचानाञ्च सारभूतमिदं मुने ॥
ओँ गौँ गैँ श्रीँ गणेशाय स्वाहा मे पातुमस्तकम् ।द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदावतु ॥
ओँ ह्रीँ क्लीँ श्री गमिति च सततं पातुलोचनम् ।तारकां पातु विघ्नेशः सततं धरणीतले ॥
ओँ ह्रीँ श्रीँ क्लीमिति सततं पातु नासिकाम् ।ओँ गौँ गं सूर्पकर्णाय स्वाहा पात्वधरं मम ॥
दन्तांश्च तालुकां जिह्वां पातु मे षोडशाक्षरः ।ओँ श्रीं लम्बोदरायेति स्वाहा गण्डं सदावतु ॥
ओँ गां गं गजाननायेति स्वाहा स्कन्धं सदा-वतु ॥
श्रीं क्लीं स्त्रीमिति कङ्कालं पातु वक्षःस्थलञ्च गं ।पाणौ पादौ सदा पातु सर्व्वाङ्गं विघ्ननिघ्नकृत् ॥
प्राच्यां लम्बोदरः पातु आग्नेय्यां विघ्ननायकः ।दक्षिणे पातु विघ्नेशो नैरृत्यान्तु गजाननः ॥
पश्चिमे पार्व्वतीपुत्त्रो वायव्यां शङ्करात्मजः ।कृष्णस्यांशश्चोत्तरे तु परिपूर्णतमस्य च ॥
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्द्ध्वतः ।गणाधिपोऽप्यधः पातु सर्व्वपूज्यश्च सर्व्वतः ।स्वप्ने जागरणे चैव पातु मे योगिनां गुरुः ॥
इति ते कथितं वत्स ! सर्व्वमन्त्रौघविग्रहम् ।संसारमोहनं नाम कवचं परमाद्भुतम् ॥
श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले ।वृन्दावने विनीताय मह्यं दिनकरात्मज ॥
मया दत्तञ्च तुभ्यञ्च यस्मै कस्मै न दास्यसि ।परं वरं सर्व्वपूज्यं सर्व्वसङ्कटतारणम् ॥
गुरुमभ्यर्च्च्य विधिवत् कवचं धारयेत्तु यः ।कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥
अश्वमेधसहस्राणि राजसूयशतानि च ।ग्रहेन्द्रकवचस्यास्य कलां नार्हन्ति षोडशीम् ॥
इदं कवत्तमज्ञात्वा यो भजेच्छङ्करात्मजम् ।शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे गणेशकवचं नाम१३ अध्यायः ॥
* ॥
अथ विनायकशान्तिः ।याज्ञवल्क्य उवाच ।“विनायकोपसृष्टस्य लक्षणानि निबोधत ।स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ।विमना विफलारम्भः स सीदत्यनिमित्ततः ॥
राजा राज्यं कुमारी च पतिं पुत्त्रञ्च गुर्व्विणी ।नाप्नुयात् स्वपनन्तस्य पुण्येऽह्नि विधिपूर्व्वकम् ॥
गौरसर्षपकल्केन सत्येनोत्सारितस्य च ।सर्व्वौषधैः सर्व्वगन्वैर्व्विलिप्तशिरसस्तथा ॥
भद्रासनोपविष्टस्य स्वस्तिवाच्य द्विजान् शुभान् ।मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सुनिक्षिपेत् ॥
या आहृता ह्येकवर्णैश्चतुर्भिः कलसैर्ह्रदात् ।चर्म्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं तथा ॥
सहस्राक्षं शतधारं ऋषिभिः पारणं कृतम् ।तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥
भगन्तु वरुणो राजा भगं सूर्य्यो बृहस्पतिः ।भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥
यत्ते कोषसुसौभाग्यं सीमन्ते यच्च मूर्द्धनि ।ललाटे कर्णयोरक्ष्णोरापस्तत् घ्नन्तु ते सदा ॥
स्नातस्य सार्षपं तैलं श्रुवेणौडम्बरेण तु ।जुहुयान्मूर्द्धनि कुशान् सव्येन परिगृह्य च ॥
मितश्च संमितश्चैव तथा शालकटंकटाः ।कुष्माण्डा राजपुत्त्राश्चेत्यन्ते स्वाहासमन्वितैः ॥
दद्याच्चतुष्पथे सूर्पे कुशानास्तीर्य्य सर्व्वशः ।कृताकृतांस्तण्डुलांश्च पललौदनमेव च ॥
पुष्पं चित्रं सुगन्धिञ्च सुराञ्च त्रिविधामपि ।मूलकं पूरिका पूपास्तथैवैरण्डिकाः स्रजः ॥
दधि पायसमन्नञ्च गुडपिष्टं समोदकम् ।एतान् सर्व्वानुपाहृत्य भूमौ कृत्वा ततः शिरः ॥
अम्बिकामुपतिष्ठेच्च दद्यादर्घ्यं कृताञ्जलिः ।दूर्व्वासर्षपपुष्पैश्च पुत्त्रजन्मभिरन्ततः ॥
कृतस्वस्त्ययनं चैव प्रार्थयेदम्बिकां सतीम् ।रूपं देहि यशो देहि भगं भगवति देहि मे ॥
पुत्त्रान् देहि श्रियं देहि सर्व्वकामांञ्च देहि मे ।ब्राह्मणान् भोजयेत् पश्चात् शुक्लवस्त्रानु-लेपनैः ॥
वस्त्रयुम्मं गुरोर्द्दद्यादासंपूज्य ग्रहांस्तथा ।श्रेयःकर्म्मफलं विद्यात् सूर्य्यार्च्चनरतस्तथा ॥
”इति गारुडे १०० अध्यायः ॥
* ॥
अथ गणेशमन्त्राः ।“पञ्चान्तकं शशिधरं बीजं गणपतेर्विदुः ।”पञ्चान्तको गकारः । ध्यानन्तु गणेशशब्देद्रष्टव्यम् । अस्य पुरश्चरणं चतुर्लक्षजपः ॥
* ॥
अथ महागणपतिमन्त्रः । निबन्धे ।“श्रीशक्तिस्मरभूविघ्नबीजानि प्रथमं वदेत् ।ङेऽन्तं गणपतिं पश्चात् वरान्ते वरदं पदम् ॥
उक्त्वा सर्व्वजनं मेऽन्ते वशमानय ठद्वयम् ।अष्टाविंशत्यक्षरोऽयं ताराद्यो मनुरीरितः ॥
”भूबीजमाह ।“स्मृतिस्थं मांसमौबिन्दुयुक्तं भूबीजभीरितम् ।”स्मृतिर्गकारः । मांसं लकारः ॥
* ॥
अस्यध्यानम् ।“नवरत्नमयं द्वीपं स्मरेदिक्षुरसाम्बुधौ ।तद्वीचिधौतपर्य्यन्तं मन्दमारुतसेवितम् ॥
मन्दारपारिजातादिकल्पवृक्षलताकुलम् ।उद्भूतरत्नच्छायाभिररुणीकृतभूतलम् ।उद्यद्दिनकरेन्दुभ्यामुद्भाषितदिगन्तरम् ॥
तस्य मध्ये पारिजातं नवं रत्नमयं स्मरेत्ऋतुभिः सेवितं षड्भिरनिशं प्रीतिवर्द्धनम् ॥
तस्याधस्तात् महापीठे रचिते मातृकाम्बुजे ।षट्कोणान्तस्त्रिकोणस्थं महागणपतिं स्मरेत् ॥
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा-दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्गस्ययासन्ततम् ।वीजापूरगदाधनुस्त्रिशिखयुक्चक्राब्जपाशोत्-पलंव्रीह्यग्रस्वविषाणगण्डकलसान् हस्तैर्व्वहन्तंभजे ॥
गण्डपाणिगलद्दानपूरलालसमानसान् ।द्विरेफान् कर्णतालाभ्यां वारयन्तं मुहुर्मुहुः ॥
कराग्रधृतमाणिक्यकुम्भवक्त्रविनिःसृतैः ।रत्नवर्षैः प्रीणयन्तं साधकं मदविह्वलम् ॥
माणिक्यमुकुटोपेतं रत्नाभरणभूषितम् ॥
”अस्य पुरश्चरणं चतुर्लक्षजपः ॥
* ॥
अपि च ।“शक्तिरुद्धनिजं बीजं महागणपतिं वदेत् ।ङेऽन्तमग्निबधूप्रोक्तो मन्त्रोऽयं द्वादशाक्षरः ॥
”अस्य ध्यानम् ।“मुक्तागौरं मदगजमुखं चन्द्रचूडं त्रिनेत्रंहस्तैः स्वीयैर्दधतमरविन्द्बङ्कुशौ रत्नकुम्भम् ।अङ्कस्थायाः सरसिजरुचेस्तद्ध्वजालम्बिपाणे-र्देव्या योनौ विनिहितकरं रत्नमौलिंभजामि ॥
”अस्य पुरश्चरणं लक्षजपः ॥
* ॥
मन्त्रान्तरम् ।“शक्तिरुद्धं निजं बीजं वशमानय ठद्वयम् ।ताराद्यो मनुराख्यातो रुद्रसंख्याक्षरान्वितः ॥
”अस्य ध्यानम् ।“हस्तैर्विभ्रतमिक्षुदण्डवरदौ पाशाङ्कुशौ पुष्कर-स्पृष्टस्वप्रमदावराङ्गमनयाश्लिष्टं ध्वजाग्रस्पृशा ।श्यामाङ्ग्या विधृताब्जया त्रिनयनं चन्द्रार्द्धचूडंजवा-रक्तं हस्तिमुखं स्मरामि सततं भोगातिलोलंविभुम् ॥
”अस्य पुरश्चरणं लक्षत्रयजपः ॥
* ॥
अथ हेरम्ब-मन्त्रः । स च ऊकारयुक्तो गकारः सबिन्दुःप्रणवादिनमोऽन्तश्चतुरक्षरः । निबन्धे ।“पञ्चान्तको बिन्दुयुक्तो वामकर्णविभूषितः ।तारादिहृदयान्तोऽयं हेरम्बमनुरीरितः ।चतुर्वर्णात्मको नॄणां चतुर्व्वर्गफलप्रदः ॥
”अस्य ध्यानम् ।“मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिनेत्रा-न्वितै-र्नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्कप्रभम् ।दृप्तं दानमभीतिमोदकरदान् टङ्के शिरोऽक्षा-त्मिकांमालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्द्दधानंभजे ॥
”अस्य पुरश्चरणं त्रिलक्षसंख्यकजपः ॥
* ॥
मन्त्रा-न्तरम् । गं क्षिप्रप्रसादनाय हृत् । तथा चनिबन्धे ।“संवर्त्तको नेत्रयुतः पार्श्वो वह्न्यासने स्थितः ।प्रसादनाय हृन्मन्त्रः स्वबीजाद्यो दशाक्षरः ॥
”अस्य ध्यानम् ।“पाशाङ्कुशौ कल्पलतां विषाणंदधत् स्वशुण्डाहितबीजपूरः ।रक्तस्त्रिनेत्रस्तरुणेन्दुमौलि-र्हारोज्ज्वलो हस्तिमुखोऽवतान्नः ॥
”अस्य पुरश्चरणं लक्षजपः ॥
* ॥
अथ हरिद्रा-गणेशमन्त्रः ।“पञ्चान्तको धरासंस्थो बिन्दुभूषितमस्तकः ।एकाक्षरो महामन्त्रः सर्व्वकामफलप्रदः ॥
”ध्यानन्तु ।“हरिद्राभं चतुर्ब्बाहुं हारिद्रवसनं विभुम् ।पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ॥
”अस्य पुरश्चरणं चतुर्लक्षजपः । इति तन्त्र-सारः ॥
* ॥
(पीठस्थानविशेषः । यथा, देवीभागवते । ७ । ३० । ७१ ।“करवीरे महालक्ष्मीरुमादेवी विनायके ।आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥
”विगतो नायको यस्येति विग्रहे अनाथे, त्रि ॥
)
वाचस्पत्यम्
Sanskritविनायक वि + नी--ण्वुल् । १ गणेशे २ बुद्धे अमरः३ विघ्ने ४ गुरौ च । ६ त० । ५ गरुडे मेदि० । ६ गरुडपत्न्यांस्त्री शब्दमा० टाप् कापि अत इत्त्वम् ।विनायकश्च कर्मविघ्नसिद्ध्यर्थमीश्वरेण नियुक्तः वेवभेदःयथोक्तं याज्ञवलक्येन “विनायकः कर्मविघ्नसिद्ध्यर्थं वि-नियोजितः । गणानामाधिपत्य च रुद्रेण ब्रह्मणा तथा”“कर्मणां पुरुषार्घसाधनानां विघ्नसिद्ध्यर्थं स्वरूपफलसाधनत्वविघातसिद्ध्यर्घं नियोजितो नियुक्तः” मिता० ।तेनोपसृष्टस्य लक्षणान्याह म एव “तेनोपसृष्टो य-स्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलंमुण्डाःश्च पश्यति । कपायवासमश्चैव क्रव्यादांश्चाधिरो-हति । अन्त्यजैर्गर्दमैरुष्ट्रैः सहैकत्रावतिष्ठति । व्रजत्यपितथात्मानं मन्यतेऽनुगतं परैः” तस्य प्रत्यक्षलक्षणान्याहस एव “विसना विकलारम्भः संसीदत्यनिमित्ततः ।तेनोपसृष्टो लभते न राज्यं राजनन्दनः । कुमारी नच भर्त्तारमपत्यं नर्भमकना । आचार्य्यत्वं श्रोत्रियश्च नशिष्योऽध्ययनं तथा । वणिगलाभं न चाप्नोति कृषि-ञ्चापि कृषीवलः” तन्निवारणविघिश्च तत्रोक्तो दृश्यः ।“विनायका विघ्नकारा महोग्राः” रक्षामन्त्रः ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
