| YouTube Channel

विधुः (vidhuH)

 
Apte
English
विधुः [vidhuḥ], [व्यध्-कुः
Uṇ.*
1.23]
The moon
सविता विधवति विधुरपि सवितरति दिनन्ति यामिन्यः K.P.* 1.
Comphor.
A demon, fiend.
An expiatory oblation.
N.
of Viṣṇu.
N.
of Brahman.
N.
of Śiva.
Wind.
War, battle.
Comp.
-क्षयः waning of the moon, the period of the dark fortnight of a month
प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये
Ms.*
3.127. -दिनम् a lunar day. -पञ्जरः (also -पिञ्जरः) a scimitar, sabre. -परिध्वंसः eclipse of the moon. -प्रिया a Nakṣatra or lunar mansion. -मण्डलम् the moon's disc. -मासः a lunar month.
Apte 1890
English
विधुः [व्यध्-कु
Uṇ. 1. 23] 1 The moon
सविता विधवति विधुरपि सवितरति दिनंति यामिन्यः K. P. 10.
2 Camphor.
3 A demon, fiend.
4 An expiatory oblation.
5 N. of Viṣṇu.
6 N. of Brahman.
7 N. of Śiva.
8 Wind.
9 War, battle.
Comp.
क्षयः waning of the moon, the period of the dark fortnight of a month.
पंजरः (also पिंजरः) a scimitar, sabre.
प्रिया a Nakṣatra or lunar mansion.
Apte Hindi
Hindi
विधुः
पुं*
- व्यध् + कु
चन्द्रमा
विधुः
पुं*
- -
कपूर
विधुः
पुं*
- -
"पिशाच, दानव"
विधुः
पुं*
- -
प्रायश्चित्तपरक आहुति
विधुः
पुं*
- -
विष्णु का नाम
विधुः
पुं*
- -
ब्रह्मा
विधुः
पुं*
- व्यध्+कु
चन्द्रमा
विधुः
पुं*
- व्यध्+कु
कपूर
विधुः
पुं*
- व्यध्+कु
राक्षस
विधुः
पुं*
- व्यध्+कु
प्रायश्चिताहुति
Wordnet
Sanskrit
Synonyms:
सोमः, चन्द्रः, शशाङ्कः, इन्दुः, मयङ्कः, कलानिधिः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, सोमः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः
noun
देवताविशेषः
"पतितं सोममालोक्य ब्रह्मा लोकपितामहः[श.क]"
Synonyms:
चन्द्रः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः, हरिः
noun
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
"अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।"
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
Synonyms:
विधुः
noun
एकः राजकुमारः
"विष्णुपुराणे विधोः वर्णनम् अस्ति"
Tamil
Tamil
விது4: : சந்திரன், விஷ்ணு, கற்பூரம்.
शब्दकल्पद्रुमः
Sanskrit
विधुः,
पुं,
(विध्यति विरहिणं विध्यते राहुणेतिवा व्यध ताडे + “पॄभिदिव्यधीति ।” उणा०१ २४ इति कुः ।) चन्द्रः (यथा, --“पिक ! विधुस्तव हन्ति समं तम-स्त्वमपि चन्द्रविरोधिकुहूरवः ।तदुभयोरनिशं हि विरोधिताकथमहो समता मम तापने
*
विध्यति असुरानिति ।) विष्णुः कर्पूरः ।इति मेदिनी धे, १६
ब्रह्मा इति शब्द-रत्नावली
राक्षसः इति विश्वः
आयुधः ।वायुः इति संक्षिप्तसारोणादिवृत्तिः
*
चन्द्रस्य द्वादशावस्थास्तत्फलादिश्च यथा, --“चन्द्रस्य द्वादशावस्था भवन्ति शृणु ता अपि ।त्रिषु त्रिषु ऋक्षेषु अश्विन्यादि वदाम्यहम्
प्रवासस्थं पुनर्नष्टं मृतावस्थं जयावहम् ।हास्यावस्थं क्रीडावस्थं प्रमोदावस्थमेव ।विषादावस्थभोगस्थे ज्वरावस्थं व्यवस्थितम्
कम्पावस्थं सुस्थावस्थं द्वादशावस्थगं भवेत्
प्रवासो हानिर्मृत्युश्च जयो हासो रतिः सुखम् ।शोको भोगो ज्वरः कम्पः सुस्थावस्थाक्रमात्-फलम्
जन्मस्थः कुरुते तृप्तिं द्वितीये नास्ति निर्वृतिः ।तृतीये राजसम्मानं चतुर्थे कलहागमः
पञ्चमेन मृगाङ्केण स्त्रीलाभो वै तथा भवेत्
धनधान्यागमः षष्ठे रतिः पूजा सप्तमे ।अष्टमे प्राणसन्देहो नवमे कोषसञ्चयः
दशमे कार्य्यनिष्पत्तिर्ध्रुवमेकादशे जयः ।द्वादशेन शशाङ्केन मृत्युरेव संशया
”इति गारुडे ६१ --
*
चन्द्रस्य क्षयवृद्धिकारणम् यथा, --ब्रह्मोवाच ।“राका चानुमती चैव द्विविधा पूर्णिमा मता ।सिनीवाली कुहुश्चैव अमावास्या द्बिधैव तु
अमा नाम रवे रश्मिश्चन्द्रलोके प्रतिष्ठिता ।यस्मात् सोमो वसत्यस्याममावासी ततः स्मृता
पूर्व्वोदितकलाभिन्नपौर्णमास्या निशाकरे ।पूर्णिमानुमती ज्ञेया पश्चास्तमितभास्करे
यस्मात्तामनुमन्यन्ते देवताः पितृभिः सह ।तस्मादनुमती नाम पूर्णिमा प्रथमा स्मृता
यदा चास्तमिते सूर्य्ये पूर्णचन्द्रस्य चोद्गमः ।युगपत् सोत्तरा रागस्तदानुमतिपूर्णिमा
राकान्तामनुमन्यन्ते देवताः पितृभिः सह ।रञ्जनाच्चैव चन्द्रस्य राकेति कवयोऽब्रुवन्
सिनीवालीप्रमाणन्तु क्षीणशेषो निशाकरः ।अमावास्यां विशत्यर्कं सिनीवाली ततः स्मृता
कुहेति कोकिलेनोक्तो यः कालस्तु समाप्यते ।तत्कालसंज्ञा त्वेषा वै अमावास्या कुहूः स्मृता ।अनुमत्याशवाः कार्य्या सिनीव्याल्याः कुहूंविना ।एतासां विरलः कालः कुमात्रति कुहूः स्मृता
कलाः षोडश सोमस्य शुक्ले वर्द्धयते रविः ।अमृतेनामृतं कृष्णे पीयते दैवतैः क्रमात्
प्रथमां पिबते वह्निर्द्वितीयां पवनः कलाम् ।विश्वेदेवास्तृतीयान्तु चतुर्थीन्तु प्रजापतिः
पञ्चमीं वरुणश्चापि षष्ठीं पिबति वासवः ।सप्तमीमृषयो दिव्या वसवोऽष्टौ तथाष्टमीम्
नवमीं कृष्णपक्षस्य पिबतीन्द्रः कलामपि ।दशमीं मरुतश्चापि रुद्रा एकादशीं कलाम् ।द्वादशीन्तु कलां विष्णुर्धनदश्च त्रयोदशीम् ।चतुर्द्दशीं पशुपतिः कलां पिबति नित्यशः ।ततः पञ्चदशीञ्चैव पिबन्ति पितरः कलाम्
कलावशिष्टो निष्पीतः प्रविष्टः सूर्य्यमण्डलम् ।अमायां विशते रश्मौ अमावासी ततः स्मृता
पूर्व्वाह्णे विशते चार्कं मध्याह्रे तु वनस्पतिम् ।अपराह्णे विशत्यप्सु स्वयोनिवारिसम्भवः
आपः प्रविष्टः सोमस्य शेषया कलयैकया ।तृणगुल्मलतावृक्षान्निष्पादयति चौषधीः
तमोषधिं स्थितं गावश्चरन्त्यापः पिबन्ति ।तदङ्गानुगतं गोभ्यः क्षारत्वमुपगच्छति
तत्क्षीरममृतं भूत्वा मन्त्रभूतं द्बिजातयः ।स्वाहाकारवषट्कारैर्जुह्वन्त्याहुतयः क्रमात्
हुतमग्निषु देवाय पुनः सोमं विवर्द्धयेत् ।एवं संक्षीयते सोमः क्षीणश्चाप्यायते पुनः ।तस्मात् सूर्य्यः शशाङ्क्षस्य क्षयवृद्धिविधेर्व्विभुः
”इति देवीपुराणे चन्द्रक्षयवृद्धिः
*
ब्रह्मोवाच ।“यदयं वदते लोको वालिशत्वान्महामते ।तदहं संप्रवक्ष्यामि चन्द्रसूर्य्योपरागिकम्
यदि सत्यमयं ग्रस्तस्तेजोराशिर्दिवाकरः ।तत्कथं नोदरस्थेन राहुर्न भस्मसात् कृतः
अथवा राहुणाक्रम्य शत्रुवक्त्रं प्रवेशितः ।तत् कथं दशनैस्तीक्ष्णैः शतधा विखण्डितः
विमुक्तश्च पुनर्दष्टस्तथैवाखण्डमण्डलः ।न चास्यापहृतं तेजो स्थानादपसारितः
यदि वा ह्येष निष्पीतः कथं दीप्रतरोऽभवत् ।तस्मान्न तेजसां राशी राहोर्वक्त्रं गमिष्यति
भक्ष्यार्थं सर्व्वदेवानां सोमः सृष्टः स्वयम्भुवा ।तत्रस्थममृतञ्चापि सम्भूतं सूर्य्यतेजसा
पिबन्त्यम्बुमयं देवाः पितरश्च स्वधामृतम् ।त्रयञ्च त्रिशतञ्चैव त्रयस्त्रिंशत्तथैव
त्रयश्च त्रिसहस्राश्च देवाः भोमं पिबन्ति ये ।राहोरप्यमृतं भाग्यं पुरा सृष्टं स्वयम्भु वा
तस्मात्तद्राहुरागत्य पातुमिच्छति पर्व्वसु ।उद्धृत्य पार्थिवीं छायां मद्राकारान्तमोमयः
पातुमिच्छन् ततश्चेन्दुमाच्छादयति छायया ।शुक्ले चन्द्रमभ्येति कृष्णे पर्व्वणि भास्करम्
सूर्य्यमण्डलसंस्थन्तु चन्द्रमेव जिघांसति ।तस्मात् पिबति तं राहुस्तनुमस्याविनाशयन्
अविहिंसन् यथा पद्मं पिबति भ्रमरो मधु ।चन्द्रस्थममृतं तद्वदभेदाद्राहुरश्नुते
चन्द्रकान्तो मणिर्यद्वत्तुहिनं क्षरते क्षणात् ।क्षरन्नपि हीयेत तेजसा नैव मुच्यते
यथा सूर्य्यमणिः सूर्य्यादुत्पाट्य पावकं शुभम् ।न भवत्यङ्गहीनोऽपि तेजसा नैव मुच्यते
एवं चन्द्रश्च सूर्य्यश्च छादितावपि राहुणा ।स्वतेजसा नं मुच्येत नाङ्गहीनौ बभूवतुः
पर्व्वखथ चन्द्रस्य माणिक्यकलसाकृतिः ।सोमो दैवतसंयोगात् छायायोगाच्च पार्थिवात् ।राहोश्च वरलब्धाद्वै प्रक्षरेदमृतं शशी
स्वदोहकाले संप्राप्ते वत्सं दृष्ट्वा गौर्यथा ।स्वाङ्गादेव क्षरेत् क्षीरं तथेन्दुः क्षरतेऽमृतम् ।पितेव सूर्य्यो देवानां सोमो मातेव लक्ष्यते
यथा मातुः स्तनं पीत्वा जीवन्ते सर्व्वजन्तवः ।पीत्वामृतं तथा सोमात् तृप्यन्ते सर्व्वदेवताः
सम्भृ तं सर्व्वयोगेषु तथायं क्षरते शशी ।तं क्षरन्तं यथाभागमुपजीवन्ति देवताः
तस्मिन् काले समभ्येति राहुरप्यवकर्षति ।सर्व्वमर्हन्ति भागञ्च पादं पादार्द्धमेव
आक्रम्य पार्थिवी छाया यावती चन्द्रमण्डलम् ।स्मृतः भागो राहोस्तु देवभागास्तु शेषकाः
तृप्तिं विधाय देवानां राहोः पर्व्वगतस्य ।चन्द्रो क्षयमायाति तेजसा नैव मुच्यते
तिथिभागाश्च यावन्तः पुनन्त्यर्कं प्रमाणतः ।सर्व्वच्छायास्थितः कालस्तावानेव प्रकीर्त्तितः
अतो राहुभुजः सोमः सोमाद्वृद्धिं दिवाकरः ।पर्व्वकाले स्थितिस्त्वेवं विपरीताः पुनः पुनः
अतश्छादयते राहुरभ्रवच्छशिभास्करौ ।राहुरभ्रकसंस्थानः सोममाच्छाद्य तिष्ठति
उद्धृत्य पार्थिवीं छायां धूममेघ इवोत्थितः ।चन्द्रस्य यदवस्तब्धं राहुणा भास्करस्य
नाम्नावखण्डितं तस्य कैवल्यं व्यामलीकृतम् ।कर्द्दमेन यथा वस्त्रं शुक्लमप्युपहन्यते
एकोद्देशेऽथ सर्व्वद्या राहुणा चन्द्रमास्तथा ।प्रक्षालितं तदेवेह पुनः शुक्लतरं भवेत्
राहुयुक्तं भवेत्तद्वन्निर्म्मलं चन्द्रमण्डलम् ।राहुणा छादितौ वापि दृष्ट्वा चन्द्रदिवाकरौ
विप्राः शान्तिपरा भूत्वा पुनराप्याययन्ति तम् ।एवं गृह्यते सूर्य्यश्चन्द्रमास्तत्र गृह्यते
अबुधास्तं पश्यन्ति मानुषा मांसचक्षुषः ।जगत्सम्मोहनं चैतत् ग्रहणं चन्द्रसूर्य्ययोः
”इत्याद्ये देवीपुराणे ग्रहणविकल्पः
*
विधोर्देवपित्राद्यन्नकारणत्वं राजयक्ष्मादिकार-णत्वञ्च कालिकापुराणे २० २१ अध्याययोर्द्रष्ट-व्यम्
*
(कर्त्तरि, त्रि यथा, ऋग्वेदे ।१० ५५ ।“विधुं दद्राणं समने बहूनांयुवानं सन्तं पलितो जगार
”“विधुं विधातारं सर्व्वस्य युद्धादेः कर्त्तारंविपूर्व्वो दधातिः करोत्यर्थे ।” इति तद्भाष्येसायणः
)