| YouTube Channel

विधात्रायुः (vidhAtrAyuH)

 
Wordnet
Sanskrit
Synonyms:
सूर्यकमलम्, भ्रामकः, विधात्रायुः, वेषदानः, तपनच्छदः
noun
क्षुपविशेषः- यस्य पुष्पात् तैलं निर्मीयते।
"सूर्यकमलस्य तैलं व्यञ्जनार्थे उपयुज्यते।"
शब्दकल्पद्रुमः
Sanskrit
विधात्रायुः, [स्]
पुं,
(विधातुरायुर्ज्जीवित-कालपरिमाणं यस्मात् सूर्य्यक्रियां विना वत्स-रादिज्ञानासम्भवादेवास्य तथात्वम् ।) सूर्य्यः ।यथा, --“वेशदानो विधात्रायुर्द्दिव्यवस्त्रो दिवाकरः
”इति शब्दचन्द्रिका
क्ली,
ब्रह्मणो वयः तद्यथा चतुर्द्दश-मन्वन्तरैर्ब्रह्मणः एकं दिनं भपति तन्मनुष्य-मानेनैकः कल्पस्त्रिंशत्कल्पे ब्रह्मण एकोमासो भवति एतादृशैर्द्वादशमासैर्ब्रह्मणःसंवत्सरो भवति एवं वर्षशतं ब्रह्मण आयुः ।तत्र पञ्चाशत् वर्षा व्यतीताः एकपञ्चाशदा-रम्भेऽधुना श्वेतवाराहकल्पः अत्र मन्वन्त-राणि व्यतीतानि षट् अधुना वैवस्वतमन्वन्तरंवर्त्तते इति श्रीभागवतमतम्