विदॢ (vidlR)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुप्रदीपः
Sanskritविदॢँ विदॢ लाभे
- विन्दति विन्दते वेत्ता वेत्स्यति मतान्तरे वेदिता वेदिष्यति अविदत् अवित्त विन्नम् कलापतन्त्रेऽप्यस्यानिट्त्वमिष्यते वेत्ता विन्नः वित्तम् (29) 158
क्षीरतरङ्गिणी
Sanskritविदॢँ विदॢ लाभे
- विन्दति, विन्दते अविदत्, अवित्त उषविदजागुरन्यतरस्याम् (तु0 3138) आम्-विवेद विदांचकार आमि ज्ञानार्थस्य ग्रहणं विद इत्यदन्तनिर्देशात् अस्य तु विवेद विभाषा गमहनविद (7268) इति वेट्-विविद्वान्, विविदिवान् अनुपसर्गाल् लिम्पविन्द (31137) इति शः-विन्दः, गोविन्दः, अरविन्दः वित्तो भोगप्रत्यययोः (8258)-वित्तं धनम्, केशैर्वित्तः अन्यत्र विन्नं लब्धम् यावति विन्दजीवोः (3430) णमुल्-यावद् वेदमधीते 150
धातुवृत्तिः
Sanskritविदॢँ विदॢ (अर्थः) लाभे
अयं सेडपि मुचादिकार्यानुरोधार्थमिह पठितः (विन्दति विदन्तः) "विदो लटो वा'' इत्यत्र लादेशैः सम्भवदानन्तर्यस्यादादिकस्यैव ग्रह इति विकरणेन व्यवहितानन्तर्यादस्मात्परेषां तिबादीनां णलादयो न भवन्ति अत एव हेतोः "विदेः शतुर्वसुः'' इत्यत्रापि पूर्ववत्सम्भवदानन्तर्य आदादिक एव गृह्यते इति विदन्नित्यत्र वस्वादेशो न भवति विवेद विविदतुः विवेदिथ विन्दतु अविन्दत् ) "सिजभ्यस्तविदिभ्य'' इत्यत्रापि पूर्ववत्सम्भवदानन्तर्यस्यादादिकस्यैव ग्रह इत्यविन्दन्नित्यत्र जुस् न भवति ( विन्देत् ) आशिषि ( विद्यात् ) "समो गम्यृच्छि''इत्यत्र गम्यादिभिः साहचर्यात्परस्मैपदिन एव विदेर्ग्रह इत्यस्य तङ्नियमाभावात्कर्माविवक्षायामपि सम्विन्दति सविन्दत इत्युभयं भवति ( अविदत् अविदताम् ) लृदित्वादङ् ( विन्दते विविदे वेदिता वेदिष्यते विन्दताम् अविन्दत विन्देत वेदिषीष्ट अवेदिष्ट ) "उषविद'' इत्यत्र उषजागृभ्याम्परस्मैपदिभ्यामादादिकेन जागर्तिना सहचर्यात्परस्मैपदिन आदादिकस्य ज्ञानार्थकस्यैव ग्रह इत्यात्मनेपदिनस्तौदादिकस्य सत्ताविचारणार्थयोरुभयपदिनश्चास्मान्नभवति ( विविदिषति विवेदिषति विदित्वा वेदित्वा ) "रलो व्युपधात्'' इति वा कित्त्वं, "रुदविद'' इत्यत्राकारस्य विवक्षितत्वादस्य न ग्रहः अत एव तत्र न्यासे विद ज्ञाने इत्युपात्तः, तथा च "सत्सुद्विष'' इत्यत्र वृत्तिः विद ज्ञाने, विद सत्तायां, विचारणे इति त्रयाणां ग्रहणलाभर्थस्याकारस्य विवक्षितत्वादिति ( वेविद्यते वेवेत्ति वेदयति, अवीविदत्) विन्दतीति ( विन्दः ) "अनुपसर्गाल्लिम्पविन्द'' इति शः, विकरणस्यास्य चैकादेशः ( गोविन्दः कुविन्दः ) इत्यादौ "गवादिषु विन्देः संज्ञायाम्''इति शः, ( ब्राह्मणवेदं भोजयति ) "कर्मणि दृशिविदोः साकल्ये'' इति साकल्यविशिष्टे कर्मण्युपपदे णमुल्, यं यं ब्राह्मणं जानाति तं तं भोजयतीत्यर्थः अत्र सत्तार्थस्यैकस्य न ग्रहोऽकर्मकत्वात् यावद्वेदं भोजयति, यावल्लभते तावद्भोजयतीत्यर्थः "यावतिविन्दजीवोः'' इति णमुल् "विदिभिदिच्छिदेः कुरच्'' इत्यत्र ज्ञानार्थ एव न्यासे गृहीतः, स्वभावादिति वृत्तिः, "विन्दुरिच्छुः'' इत्यत्रापि स्वभावात् ज्ञानार्थस्य ग्रहणमिति न्यासे "संज्ञायां समज'' इत्यत्रापि ज्ञानार्थ एव न्यासे गृहीतः (वित्तं) धनम् ( वित्तं ) प्रसिद्धः) "वित्तो भोगपग्रत्यययोः'' इति निष्ठानत्वनिषेधः भुज्यतइति ( भोगो धनं ) प्रतीयत इति प्रत्ययः प्रसिद्धः, अन्यत्र विन्नः "विभाषा गमहनविदविशाम् '' इति क्वसाविड्विकल्पनात् "यस्य विभाषा'' इत्यनिट्त्वम् कातन्त्रे त्वयमनिडुक्तः तन्मते ( वेत्ता, वेत्स्यति ) इत्यादि इदं च व्याघ्रभूतेर्नाभिहितम् तथाहि विद्यतिविन्त इत्यपीति श्यना श्नमा च निर्द्देशाद्दैवादिकस्य रौधादिकस्य चानिट्त्वं तेनोक्तं नान्यस्य तथा वृत्तिकारोऽपि विद्यति विन्तइति निर्देशात् ज्ञानार्थलाभार्थयोरिटमाह वेदिता विद्यानां वेदिता धनस्येति परिवेतृशब्दस्तु विद्यतिविन्त्योरन्यतरस्य परिपूर्वस्यार्थान्तरे वृत्तस्य द्रष्टव्यः, तृजन्तोऽप्ययं स्वभावादनूढेग्रजे पूर्व मूढेवरजे वर्तते "अप्तृन्'' इत्यादौ नप्त्रादीनां ग्रहणमौणादिकतृन्नन्तानां संज्ञाशब्दमात्रस्यैवेत्युद्गातारावित्यादिवत्परिवेत्तारावित्यादौ दीर्घो भवति 148
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
कृदन्तरूपमाला
Sanskrit1 {@“विदॢ लाभे”@} 2 मुचादिः।
‘विन्दते विन्दतीत्येवं लाभे वेदयते णिचि।।’ 3 इति देवः।
व्याघ्रभूत्यादिमते सेट्कोऽयम्।
वेदिता इति।
4 वेदकः-दिका, वेदकः-दिका, विवेदिषकः-विविदिषकः-5-षिका, वेविदकः-दिका
वेदिता, 6-त्री, वेदयिता-त्री, विवेदिषिता-विविदिषिता-त्री, विवित्सिता-त्री, वेविदिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि किलतिवत् 7 ज्ञेयानि।
शतरि 8 विन्दः 9, 10 गोविन्दः-कुविन्दः, 11 अरविन्दम् 12, 13 वित्तम्- 14, विन्नं 15, 16 परिवेत्ता, विविद्वान् 17 -विविदिवान्, 18 वेदना 19 20 21 परिवित्तिः, 22 ब्राह्मणवेदं 23, 24 यावद्वेदं 25, 26 चोरवेदं निहन्त्यसौ]।
01 (१६०६)
02 (६-तुदादिः-१४३२। सक। अनि। उभ।)
03 (श्लो। १११)
04 [पृष्ठम्१२३७+ ३०]
05 [विवित्सकः]
06 [वेत्ता]
07 (१९३)
08 [[१। ‘अनुपसर्गाल्लिम्पविन्द--’ (३-१-१३८) इति शप्रत्यये मुचादित्वात् ‘शे मुचा- दीनाम्’ (७-१-५९) इति नुमि शपि पररूपे च रूपमेवम्।]]
09 [[आ। ‘आर्चीद् द्विजातीन् परमार्थविन्दानुदेजयान् भूतगणान् न्यषेधीत्।’ भ। का। १-१५।]]
10 [[२। ‘गवादिषु विन्देः संज्ञायाम्’ (वा। ३-१-१३८) इति शः। गां विन्दतीति गोविन्दः। एवं कुविन्दह् इति प्रक्रियासर्वस्वे।]]
11 [[B। ‘प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः।’ शि। व। ३-६५]]
12 [[३। अरविन्दम्-चक्रस्य नाभिनेम्योरन्तरालकाष्ठानि अराः, तत्सदृशानि दलानि विन्दति -- लभत इत्यर्थः। भाष्ये तु अरविन्दः पुंल्लिङ्गत्वेन पठ्यते। ‘कर्मण्यण्’ (३-२-१) बाधनाय इदम् इति बृ। शेखरे।]]
13 [[४। ‘वित्तो भोगप्रत्यययोः’ (८-२-५८) इति क्तप्रत्यये भोगे चाभिधेये तत्वाभावो निपात्यते। वित्तोऽयं मनुष्यः। प्रतीत इत्यर्थः। वित्तम् धनम्, वित्तं प्रसिद्धम्, भुज्यत इति भोगो धनम्। प्रतीयत इति प्रत्ययः प्रसिद्धम्। अन्यत्र विन्नम्।]]
14 [धनम्]
15 [लब्धम्]
16 [[५। तृजन्तोऽप्ययं ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (द। उ। २-१) इति संज्ञायां गम्यमानायामनिटौ भवतः। ‘परिवेत्ताऽनुजोऽनूढे ज्येष्ठे दारपरिप्रहात्’ इत्यमरः। ज्येष्ठे विवाहरहिते कृतदारपरिग्रहः कनिष्ठः परिवेत्ता इत्युच्यते। क्वसुप्रत्यये ‘विभाषा गमहनविद--’ (७-२-६८) इतीड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। तेन निष्ठानत्वपक्षे, नत्वाभा- वपक्षेऽपीण्निषेधो नित्य इत्यवधेयम्। कातन्त्रे तु अनिट्त्वेनास्य धातोः पाठात् तेषां मते निष्ठायामिण्निषेधः सिद्ध एव। भाष्यादिषु तु धातुरयं सेडित्येव सम्मतः। विस्तरस्तु माधवीये द्रष्टव्यः।]]
17 [[६। ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति क्वसौ विकल्पेन इडागमो भवति। तेन रूपद्वयम्। विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम्।]]
18 [[७। ण्यन्तात् ‘घट्टिवन्दिविदिभ्यश्च’ (३-३-१०७) इति युचि रूपमेवम्।]]
19 [[C। ‘युक्त्वा योगं स्थितः शैले विवृण्वन् चित्तवेदनाम्।।’ भ। का। ७-७३]]
20 [पृष्ठम्१२३८+ २८]
21 [[१। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति क्तिच्। ‘परिवित्तिस्तु तज्ज्यायान्’ इत्यमरः।]]
22 [[२। ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति साकल्यविशिष्टे कर्मण्युपपदे णमुल् भवति। यं यं ब्राह्मणं = ब्राह्मणत्वेन जानाति, लभते वा, तं तं भोजयति इत्यर्थः। अत्र सत्तार्थस्यैकस्य न ग्रहः
\n\n अकर्मकत्वात्।]]
23 [भोजयति]
24 [[३। ‘यावति विन्दजीवोः’ (३-४-३०) इति णमुल्प्रत्ययः। यावत् लभते तावद् भुङ्क्त इत्यर्थः।]]
25 [भोजयति]
26 [[४। चोरवेदमित्यत्र, यान् चोरभूतान् लभते विचारयति वेत्ति वा तान् सर्वानपि हन्तीत्यर्थे ‘कर्मणि दृशिविदोः--’ (३-४-२०) इति णमुल्। ‘चोरवेदं निह- न्त्यसौ--’ इति प्र। सर्वस्वे।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
