| YouTube Channel

विद्वेषणं (vidveSaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
विद्वेषणं,
क्ली,
विद्वेषः विपूर्व्वद्बिंषधातोरनट्(ल्युट्)प्रत्ययेन निष्पन्नम्
(यथा, महाभारते ।३ १९५ ।“विद्वेषणं परमं जीवलोकेकुर्य्यान्नः पार्थिव याच्यमानः ।तत्त्वां पृच्छामि कथयन्तु राजन्दद्याद्भवान् दयितञ्च मेऽद्य
”)अभिचारकर्म्मविशेषः तस्य विहितदिनादियथा, --“सूर्य्योदयं समारभ्य घटिकादशकं क्रमात् ।ऋतवः स्युर्व्वसन्ताद्या अहोरात्रं दिने दिने
वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशैशिराः ।हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्म्मणि
शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः ।पौर्णमासी मन्दभानुयुक्ता विद्वेषकर्म्मणि
वश्यं पूर्व्वेऽह्नि मध्याह्ने विद्वेषोच्चाटनं तथा ।शान्तिपुष्ठी दिनस्यान्ते सन्ध्याकाले मारणम्
कुर्य्याच्च स्तम्भनं कार्य्यं हर्य्यक्षवृश्चिकोदये ।द्बेषोच्चाटादिकं कर्म्म कुलीरे वा तुलोदये
”भूतोदयनियममाह ।“जलं शान्तिविधौ शस्तं वश्ये वह्निरुदीरितः ।स्तम्भने पृथिवी शस्ता विद्बेषे व्योम कीर्त्ति-तम्
”दिङ्नियममाह ।“याम्ये रक्षसि विद्वेषं शान्तिं वारुणवायवे
”नक्षत्रनियममाह ।“विद्वेषोच्चाटनं वह्रिवायुयोगे कारयेत्
*
अथ विद्वेषणं वक्ष्ये मिथो विद्वेषणं रिपोः ।करणीयं महेशानि ! यदुक्तं मालिनीमते
अन्योन्ययुद्धसंरम्भरुषितौ समरे युतौ ।तदीयनखरोड्डीनधूलिमादाय साधकः
धूलिना तेन विद्वेषस्ताडनादभिजायते
*
परस्परं रिपोर्व्वैरं मित्रेण सह निश्चितम् ।महिषाश्वपुरीषाभ्यां गोमूत्रेण समालिखेत्
यस्य नाम तयोः शीघ्र विद्वेषश्च परस्परम् ।रक्तेन महिषाश्वेन श्मशानवस्त्रके लिखेत्
यस्य नाम भवेत्तस्य काकपक्षेण लेखितम् ।वेष्टयेत् द्बिजचाण्डालकेशैरेकतरैस्ततः
गर्त्ते आमशरावन्तु पितृकाननमध्यतः ।षट्कोणचक्रमध्ये तु रिपोर्नामसमन्वितम्
मन्त्रराजं प्रवक्ष्यामि महाभैरवसंज्ञकम् ।ओँ नमो महाभैरवाय रुद्ररूपाय श्मशान-वासिने अमुकामुकयोर्व्विद्वेषं कुरु कुरु सुरुसुरु हुँ हुँ फट् ।एतन्मन्त्रं लिखेत्तत्र विद्वेषो जायते ध्रुवम्
”इति षट्कर्म्मदीपिका
(विशेषेण द्वेष्टीति वि + द्विष + ल्युः विद्वे-षके, त्रि यथा, हरिवंशे २८ ३० ।“नास्ति-वादार्थशास्त्रं हि धर्म्मविद्वेषणं परम्
”तथा महाभारते १३ १२६ ।“ब्राह्मणानां परीवादो मम विद्वेषणं महत् ।ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं संशयः
”)