विद्रधिः (vidradhiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishविद्रधिः [vidradhiḥ], An abscess
त्वग्रक्तमांसमेदांसि प्रदूष्यास्थिसमाश्रिताः । दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता मृशम् ॥ महामूलं रुजापन्नं वृत्तं वाप्यथ वायतम् । स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥ Bhāva -घ्नः, -नाशनः Hyperanthera Moringa (Mar. शेवगा).
Apte Hindi
Hindiविद्रधिः
- "विद् + रुध् + कि, पृषो*"
पीपदार फोड़ा
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit विद्रधिः
उदरस्य स्फोटः।
"विद्रधिः घातकः भवति।"
गण्डः, विद्रधिः, ध्मानम्, आटोपः, अर्बुदः
शरीरे कुत्रापि रक्ताशुद्धिवशाद् जातानि उद्वर्तनानि।
"सः प्रतिदिनं गण्डे लेपनं करोति।"
शब्दकल्पद्रुमः
Sanskritविद्रधिः, रोगविशेषः । तत्पर्य्यायः । विदरणम् २हृद्ग्रन्थिः ३ हृद्व्रणः ४ । इति राजनिर्घण्टः ॥
तत्र विद्रधेः संप्राप्तिपूर्व्वकं सामान्यं लक्षण-माह ।“त्वग्रक्तमांसमेदांसि प्रदुष्यास्थिसमाश्रिताः ।दोषाः शोथं शनैर्षोरं जनयन्त्युश्रिता भृशम् ॥
महामूलं रुजावन्तं वृत्तं वाप्यथवायतम् ।स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥
”अस्थिसमाश्रिता दोषा इति वक्ष्यमाणाद्व्रण-शोथाद्विद्रधेर्भेदार्थम् । यतो व्रणशोथे दोषा-णामस्थिसमाश्रयनियमो नास्ति । घोरं व्रण-शोथाद्दारुणम् । आयतं दीर्घम् ॥
* ॥
षड्-विधत्वं विवृणोति ।“पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा ।षण्णामपि हि तेषान्तु लक्षणं संप्रचक्ष्यते ॥
” * ॥
तत्र वातिकस्य लक्षणमाह ।“कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः ।चित्रोत्थानप्रपाकश्च विद्रधिर्व्वातसम्भवः ॥
”विषमो भृशं क्षणमल्पः क्षणं महान् । चित्रो-त्थानप्रपाकः । चित्रौ नानाविधौ उद्गमप्रपाकौयस्य सः ॥
* ॥
पैत्तिकमाह ।“पक्कोडुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् ।क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ॥
”श्लैष्मिकमाह ।“शरावसदृशः पाण्डुः शीतस्निग्धोऽल्पवेदनः ।चिरोत्थानप्रपाकश्च विद्रधिः श्लेष्मसम्भवः ।तनुपीतसिताश्चैषामास्रावाः क्रमशो मताः ॥
”सान्निपातिकमाह ।“नानावर्णरुजः स्रावो घाटालो विषमो महान् ।विषमं पच्यते वापि विद्रधिः सान्निपातिकः ॥
”नाना अनेकविधाः । वर्णाः कृष्णरक्तपाण्डुरूपाः ।रुजः तोददाहकण्ड्वादिरूपाः । स्रावाः तनु-पीतसिता यस्य । घाटालः घाटा कृकाटिका-स्यास्ति इति घाटालः । अत्युच्छ्रिताग्र इत्यर्थः ।विषमः निम्नोन्नतः । विषमं पच्यते चापिचिराचिरगभीरोत्तानोर्द्ध्वार्द्धभेदेन विषमं यथास्यात्तथा पच्यते ॥
* ॥
अभिघातजस्यागन्तोःसंप्राप्तिपूर्व्वकं लक्षणमाह ।“तैस्तैर्भावैरभिहिते क्षते वापथ्यकारिणः ।क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् ॥
ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ।आगन्तुविद्रधिर्ह्येष पित्तविद्रधिलक्षणः ॥
”तैस्तैर्भावैः काष्ठलोष्टपाषाणादिभिर्हते यथारक्तस्रावो न भवति तथाभिहते क्षते कृते वा ।अथवा खड्गशूलादिभिः क्षते यथा रक्तस्रावोभवति तथा क्षते कृते क्षतोष्मा अत्र क्षतशब्देनहतमात्रमुच्यते । तेनाभिहतक्षतयोरप्युष्मवायु-विसृतः । अभिहतः अभिघातात् क्षते रक्त-क्षयात् कुपितेन वायुना प्रसृतः ईरयेत् कोप-येत् ॥
* ॥
रक्तजमाह ।“कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः ।पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते ॥
” * ॥
अधिष्ठानविशेषेण लिङ्गविशेषं बोधयितुमाभ्य-न्तरान् विद्रधीनाह ।“आभ्यन्तरानतस्तूर्द्ध्वं विद्रधीन् परिचक्ष्यते ।गुर्व्वसात्मविरुद्धान्नशुष्कशाकान्नभोजनात् ॥
अतिसञ्चीयव्यायामवेगाधातविदाहिभिः ।पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपि-णम् ॥
वल्मीकवत् समुन्नद्धमन्तः कुर्व्वन्ति विद्रधिम् ।गुदे वस्तिमुखे नाभ्यां कुक्षौ वंक्षणयोस्तथा ॥
वुक्कयोः प्लीह्रि यकृति हृदि वा क्लोम्नि वाप्यथ ।येषां चिह्रानि जानीयात् बाह्यविद्रधिलक्षणैः ।सम्भूय वा मिलित्वा वा समुन्नर्द्धं तदुन्नतम् ॥
” * ॥
स्थानविशेषेण रूपविशेषमाह ।“गुदे वातनिरोधस्तु वस्तौ कृच्छ्राल्पमूत्रता ।नाभ्यां हिक्का तथाटोपः कुक्षौ मारुतकोपनम् ॥
कटीपृष्ठग्रहस्तीव्रो वक्षणोत्थे च विद्रधौ ।वुक्कयोः पार्श्वसंकोचः प्लीह्रः श्वासनिरोधनम् ॥
सर्व्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते ।श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः ॥
”स्रावमार्गमाह ।“नाभेरुपरिजाः पक्वा यान्त्यूर्द्ध्वमितरे त्वधः ।अधः स्रुतेषु जीवेच्च स्रुतेषूर्द्ध्वं न जीवति ॥
”नाभेरुपरिजा वुक्कादिजाताः । यान्ति स्रवन्तिऊर्द्ध्वमुखात् । इतरे वस्त्यादिजाः । अधःगुदात् । नाभिजस्तूभाभ्यां मार्गाभ्याम् । तथाच हारीतः ।“ऊर्द्ध्वप्रभिन्नेषु मुखान्नराणांप्रवर्त्ततेऽसृक्सहितो हि पूयः ।अधःप्रभिन्नेषु तु पायुमार्गाद्-द्बाभ्यां प्रवृत्तिस्त्विह नाभिजेषु ॥
” * ॥
साध्यत्वादिकमाह ।“अधःस्रुतेषु जीवेत्तु स्रुतेषूर्द्ध्वं न जीवति ।हृन्नाभिवस्तिपर्य्याये तेषु भिन्नेषु बाह्यतः ।जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन ॥
”हृन्नाभिवस्तिपर्य्याये प्लीहक्लोमादिजातेषु ।बाह्यतः शस्त्रवैद्यव्यापारेण भिन्नेषु पुरुषःकदाचित् जीवेत् । इतरेषु हृन्नाभिवस्तिजेषुतथा भिन्नेषु न जीवेत् । हृदादीनां मर्म्मत्वात् ।अतएव भोजः ।“असाध्यो मर्म्मजो ज्ञेयः पक्वोऽपक्वश्च विद्रधिः ।सन्निपातोत्थितोऽप्येवं पक्व एव हि वस्तिजः ॥
हृज्जा नाभेरधोजश्च साध्या मर्म्मसमीपतः ।अपक्वश्चैव पक्वश्च साध्यो नोपरि नाभितः ॥
आध्मानं बद्धनिष्पन्दं छर्दिहिक्कातृषान्वितम् ।रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्नरम् ॥
” * ॥
बाह्यविद्रधीनां साध्यासाध्यत्वमाह ।“साध्या विद्रधयः पञ्च विवर्ज्ज्यः सान्निपातिकः ।आमं पक्वं विदग्धत्वं तेषां शोथवदादिशेत् ॥
”शोथवत् वक्ष्यमाणव्रणशोथवत् ॥
* ॥
अथ विद्रधेश्चिकित्सा ।“जलौकापातनं शस्तं सर्व्वस्मिन्नपि विद्रधा ।मृदुर्व्विरेको लघ्वन्नं स्वेदः पित्तोत्तरं विना ॥
अपक्वविद्रधौ युञ्ज्याद्व्रणशोथवदौषधम् ।वातघ्नमूलकल्कैर्व्वा वसातैलघृतान्वितैः ॥
सुखोष्णो वहृलो लेपः प्रयोज्यो वातविद्रधौ ।यवगोधूममुद्गैश्च पिष्टैराज्येन लेपयेत् ॥
विलीयते क्षणेनैव ह्यविपक्वस्तु विद्रधिः ।पैत्तिकं विद्रधिं वैद्यः प्रदिह्यात् सर्पिषा युतैः ।पयस्योशीरमधुकचन्दनैर्दुग्धपेषितैः ॥
पयस्यानेकार्थत्वात् अत्र क्षीरकाकोली गुणा-धिक्यात् । तस्या अलाभे अश्वगन्धा ग्राह्या ।“पञ्चवल्कलकल्केन घृतमिश्रेण लेपयेत् ।पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम् ॥
इष्टिकासिकतालोहकीट्टै र्गोशकृता सह ।मूत्रैः सुखोष्णैर्लेपन स्वेदयेत् श्लेष्मविद्रधिम् ॥
दशमूलीकषायेण सस्नेहेन घृतेन च ।शोथं व्रणं वा कोष्णेन सशूलं परिषेचयेत् ॥
पित्तविद्रधिवत् सर्व्वाः क्रिया निरवशेषतः ।विद्रधौ कुशलः कुर्य्यात् रक्ताङ्गस्तु निमित्तयोः ॥
रक्तचन्दनमञ्जिष्ठाविशामधुकगैरिकैः ।क्षीरेण विद्रधौ लेपो रक्ताङ्गन्तु निमित्तके ॥
कृष्णाजाजी विशाला च धामार्गवफलं तथा ।पीतं ह्येते निहन्त्याशु विद्रधीन् कोष्ठसम्भवान् ॥
”धामार्गवफलं कोषातकीफलम् ।“श्वेतवर्षाभुवो मूलं मूलं वरुणकस्य च ।जलेन क्वथितं पीतमन्तर्विद्रधिहृत् परम् ॥
गायत्त्रीत्रिफलानिम्बकटुका मधुकं समम् ।त्रिवृत्पटोलमूलाभ्यां चत्वारोऽंशाः पृथक्पृथक् ॥
मसूरान्निस्तुषान् दद्यात् एष क्वाथो घृताज्जयेत् ।विद्रधिगुल्मवीसर्पदाहमोहज्वरापहः ।तृण्मूर्च्छाच्छर्दिहृद्रोगपित्तासृक्कुष्ठकामलाः ॥
”वाग्भटात् ।“शिग्रुमूलं जले धौतं पिष्टं वस्त्रेण गालयेत् ।तद्रसं मधुना पीत्वा हन्त्यन्तर्विद्रधिं नरः ॥
शोभाञ्जनकनिर्पू हो हिङ्गुसैन्धवसंयुतः ।हन्त्यन्तर्विद्रधिं जन्तोः प्रातः प्रातर्निषेवितः ॥
”निर्यूहः क्वाथः । इति विद्रध्याधिकारः । इतिभावप्रकाशः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
