| YouTube Channel

विद्यारम्भ (vidyArambha)

 
Monier Williams Cologne
English
विद्या°रम्भ (°यार्°),
m.
beginning of study,
Mall.
N.
of a ch. of the
PSarv.
वाचस्पत्यम्
Sanskrit
विद्यारम्भ
पु०
त० पञ्चमवर्षे शिशोः कर्त्तव्ये विद्यायाआरम्भे तत्कालादि० ज्यो० त० उक्तं यथा“संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्दने षष्ठीं प्रति-पदञ्चैव वर्ज्जयित्वा तथाष्टमीम् रिक्तां पञ्चदशीं चैवशौरिभौमदिनं तथा एवं सुनिश्चिते काले विद्यारम्भंतु कारयेत् पूजयित्वा हरिं लक्ष्मीं देवीञ्चापि सर-स्वतीम् स्वविद्यासूत्रकारांश्च स्वाञ्च विद्या विशेषतः”विष्णुध० “लघुचरशिवमूलाधोमुखत्वष्टृपौष्णशशिषुच हरिबोधे शुक्रजीवार्कवारे उदितवति जीवेकेन्द्रकोणेषु सौम्यैरपठनदिनवर्जं पाठयेत् पञ्चमेऽव्दे”दोपिका “विद्यारम्भे गुरुः श्रेष्ठो मध्यमौ भृगुभा-स्करौ मरणं शनिभौमाभ्यामविद्या बुधसोमयोः”मदनपा० “विद्यारम्भः सुरगुरुसितज्ञेष्वमीष्टार्थदायीकर्तुश्चायुश्चिरमपि करोत्यंशुमान् मध्यमोऽत्र नीहा-रांशौ भवति जडता पञ्चता भूमिपुत्रे छायासूनावपिच मुनयः कीर्त्तयन्त्येवमाद्याः” रवेर्गुरोर्भृगोर्लग्नेतत्स्थेऽर्केऽपीन्दुवृद्धितः गुर्वर्केन्दूडुशुद्धौ विद्या-रम्भः प्रशस्यते” “प्राङमुखो गुरुरासीनो वरुणाभिमुखंशिशुम् अध्यापयेच्च प्रथमं द्विजाशीर्भिः समन्वितम् ।वृहस्पतिः तद्विधिः कृत्यतत्त्वे दृश्यः अविद्या बुधसो-मयोरिति धनुर्विद्याविषयम् यथोक्तं दोपिकायाम्“अदितिसुतयमार्कस्वातिचित्राग्निपैत्रध्रुवहरिवसुमूलाश्वी-ब्दुमाम्यान्त्यभेषु विशनिशशिबुधाहे विष्णुबोधे विपौषेसुसमयतिथियोगे चापविद्याप्रदानम्” तत्राक्षरग्रहणेविद्यारम्भे लग्नशुद्धिरावश्यकीत्याह” पी० धा०नृसिंहः “शुाः पापाश्च रन्ध्रस्थाः सर्वे नेष्टाः सदाग्रहाः भ्रातृषष्ठावकर्मस्थाः पापाः सर्वे शुभावहाः ।शुभाः केन्द्रत्रिकोणस्थाः धनभ्रातृगताः शुभाः सर्वेलाभे प्रशस्ताः स्वुरक्षरग्रहणे शिशोः” अक्षरग्रहणंविद्यापलक्षणम्” उभयत्रापि उत्तरायणस्यैव ग्राह्यता ।“उदग्गते भास्यति पञ्चमेऽवदे” वसिष्ठोक्तेः