| YouTube Channel

विद्यादानं (vidyAdAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
विद्यादानं,
क्ली,
(विव्याया दानम् ।) अध्यापनम् ।पुस्तकदानम् यथा, --वशिष्ठ उवाच ।“विद्यादानं प्रवक्ष्यामि याथातथ्यात्तवाधुना ।तथा देयं फलं यच्च तच्छृणुष्व नृपोत्तम !
पुण्येऽह्रि शुभनक्षत्रे मण्डपं शुभवेदिकम् ।चतुरस्रं वितानं वा कृत्वा तत्रोपलेपयेत्
गोमयेनोपलिप्ते तु पुष्पप्राकरशोभिते ।तत्र न्यस्यासनं दिव्यं दिव्यगन्धादिवासितम्
संस्थाप्य पुस्तकं तत्र धर्म्मशास्त्रस्य धीमता ।ब्राह्मणान् वेदसंपूर्णान् छन्दोलक्षणपारगान्
लेखयित्वा तु यत्नेन तत्समक्षं शुभाक्षरैः ।चन्द्रसूर्य्योपरागे वा संक्रान्त्ययनवासरे
पुण्येऽह्नि तत् सुसंपूज्य वस्त्रालङ्कारभूषणैः ।घृतधेन्वा युतं रत्नैर्दद्यात् गुणवते ततः
शास्त्रसद्भावविदुषे वाचकेऽतिप्रियंवदे ।तच्छास्त्रं शृणुतां नित्यं जनानां नाशयन्त्यथ ।दातुस्तस्माद्भवत्येवं फलं तच्छृणु भूपते
यत् पुण्यं सर्व्वतीर्थानां विधिवद्यजतां तथा ।तत् पुण्यं समवाप्नोति विधिवच्छास्त्रदः पुमान्
कपिलानां सहस्रेण सम्यग्दत्तेन यत् फलम् ।तद्राजन् सकलं लेभे धर्म्मशास्त्रप्रदायकः
पुराणं भारतं वापि रामायणमथापि वा ।दत्त्वा यत् फलमाप्नोति तत् सर्व्वैर्महामखैः
देवानामालये नित्यं धर्म्मशास्त्राणि यः पुमान् ।अध्यापयति धर्म्मात्मा तस्य दानफलं शृणु
धनभूमिहिराण्यानां दानेन यदवाप्यते ।फलं तत् सकलं राजन् नित्यं कारापकस्य
योऽधीते धर्म्मशास्त्राणि देवानां पुरतोऽनिशम् ।द्विजो वीप्सुरथार्थानामेवमेवार्हति ध्रुवम्
प्रातरुत्थाय यो वेदं वेदाङ्गं शास्त्रमेव वा ।पृथिवीदानतुल्यं स्यात् फलं तस्य नृपोत्तम
दानैर्योऽपि विभर्त्त्येताननीप्सुर्धर्म्मतत्परः ।द्बिगुणं पृथिवीदानात् फलं तस्य भवेन्नृप !
यो भृतं पठमानानां करोत्यनुदिनं नृप ! ।स यज्ञफलमादत्ते दानाच्छादनभोजनैः
विवेको जीवितं दीर्घं घर्म्मकामार्थसम्पदः ।सर्व्वं तेन भवेद्दत्तं शास्त्राणां पोषणे कृते
वाजपेयसहस्रस्य सम्यगिष्टस्य यत् फलम् ।तत् फलं समवाप्नोति विद्यादानान्न संशयः
तस्माद्देवालये नित्यं धर्म्मशास्त्रस्य वा श्रुतेः ।पठनं कारयेद्राजन् यदीच्छेद्धर्म्ममात्मनः
गोभूहिरण्यवासांसि शयनान्यासनानि ।प्रत्यहं तेन दत्तानि भवन्ति नृपसत्तम !
धर्म्माधर्म्मं जानाति लोकोऽयं विद्यया विना ।तस्मात् सदैव धर्म्मात्मन् विद्यादानरतो भव
”इति वह्रिपुराणे विद्यादाननामाध्यायः