| YouTube Channel

विद्यादान (vidyAdAna)

 
शब्दसागरः
English
विद्यादान
n.
(-नं) Giving knowledge or science.
E.
विद्या, दान giving.
Yates
English
विद्या-दान (नं) 1.
n.
Impartation of
knowledge.
Spoken Sanskrit
English
विद्यादान vidyAdAna
n.
instruction in science
विद्यादान vidyAdAna
n.
imparting of knowledge
Wilson
English
विद्यादान
n.
(-नं) Giving knowledge or science.
E.
विद्या, and दान giving.
Monier Williams Cologne
English
विद्या—दान
n.
the imparting of kn°, instruction in sc° (esp. sacred sc°),
Hcat.
शब्दकल्पद्रुमः
Sanskrit
विद्यादानं,
क्ली,
(विव्याया दानम् ।) अध्यापनम् ।पुस्तकदानम् यथा, --वशिष्ठ उवाच ।“विद्यादानं प्रवक्ष्यामि याथातथ्यात्तवाधुना ।तथा देयं फलं यच्च तच्छृणुष्व नृपोत्तम !
पुण्येऽह्रि शुभनक्षत्रे मण्डपं शुभवेदिकम् ।चतुरस्रं वितानं वा कृत्वा तत्रोपलेपयेत्
गोमयेनोपलिप्ते तु पुष्पप्राकरशोभिते ।तत्र न्यस्यासनं दिव्यं दिव्यगन्धादिवासितम्
संस्थाप्य पुस्तकं तत्र धर्म्मशास्त्रस्य धीमता ।ब्राह्मणान् वेदसंपूर्णान् छन्दोलक्षणपारगान्
लेखयित्वा तु यत्नेन तत्समक्षं शुभाक्षरैः ।चन्द्रसूर्य्योपरागे वा संक्रान्त्ययनवासरे
पुण्येऽह्नि तत् सुसंपूज्य वस्त्रालङ्कारभूषणैः ।घृतधेन्वा युतं रत्नैर्दद्यात् गुणवते ततः
शास्त्रसद्भावविदुषे वाचकेऽतिप्रियंवदे ।तच्छास्त्रं शृणुतां नित्यं जनानां नाशयन्त्यथ ।दातुस्तस्माद्भवत्येवं फलं तच्छृणु भूपते
यत् पुण्यं सर्व्वतीर्थानां विधिवद्यजतां तथा ।तत् पुण्यं समवाप्नोति विधिवच्छास्त्रदः पुमान्
कपिलानां सहस्रेण सम्यग्दत्तेन यत् फलम् ।तद्राजन् सकलं लेभे धर्म्मशास्त्रप्रदायकः
पुराणं भारतं वापि रामायणमथापि वा ।दत्त्वा यत् फलमाप्नोति तत् सर्व्वैर्महामखैः
देवानामालये नित्यं धर्म्मशास्त्राणि यः पुमान् ।अध्यापयति धर्म्मात्मा तस्य दानफलं शृणु
धनभूमिहिराण्यानां दानेन यदवाप्यते ।फलं तत् सकलं राजन् नित्यं कारापकस्य
योऽधीते धर्म्मशास्त्राणि देवानां पुरतोऽनिशम् ।द्विजो वीप्सुरथार्थानामेवमेवार्हति ध्रुवम्
प्रातरुत्थाय यो वेदं वेदाङ्गं शास्त्रमेव वा ।पृथिवीदानतुल्यं स्यात् फलं तस्य नृपोत्तम
दानैर्योऽपि विभर्त्त्येताननीप्सुर्धर्म्मतत्परः ।द्बिगुणं पृथिवीदानात् फलं तस्य भवेन्नृप !
यो भृतं पठमानानां करोत्यनुदिनं नृप ! ।स यज्ञफलमादत्ते दानाच्छादनभोजनैः
विवेको जीवितं दीर्घं घर्म्मकामार्थसम्पदः ।सर्व्वं तेन भवेद्दत्तं शास्त्राणां पोषणे कृते
वाजपेयसहस्रस्य सम्यगिष्टस्य यत् फलम् ।तत् फलं समवाप्नोति विद्यादानान्न संशयः
तस्माद्देवालये नित्यं धर्म्मशास्त्रस्य वा श्रुतेः ।पठनं कारयेद्राजन् यदीच्छेद्धर्म्ममात्मनः
गोभूहिरण्यवासांसि शयनान्यासनानि ।प्रत्यहं तेन दत्तानि भवन्ति नृपसत्तम !
धर्म्माधर्म्मं जानाति लोकोऽयं विद्यया विना ।तस्मात् सदैव धर्म्मात्मन् विद्यादानरतो भव
”इति वह्रिपुराणे विद्यादाननामाध्यायः
वाचस्पत्यम्
Sanskrit
विद्यादान ग० त० अध्यापने पुस्तकादिदाने ।“विद्यादानञ्च अध्यापनेन व्याख्यया विलिख्यार्पणेन चभवतीति ज्यो० त० रघु० तत्राध्यापनविधि० श्रुतौ यथा“योऽधीत्यार्थिभ्यो विद्यां प्रयच्छेत् काको वान्थस्यिन्स्यात् श्रेयसो द्वारमपावृणुयात् अनध्यापने दोषश्चवणात्तस्यावशक्यत्वं गम्यते “अष्टवर्षं मानवकमुपनयीततमध्यापयीत” इत्यादिश्रुतौ अध्यापनाविधिलाभः ।व्याख्यानादिविधिलाभस्तु “अज्ञानतिमिरोऽपेठान् सन्दे-हपटलान्वितान् निरामयान् यः कुरुते शास्त्राञ्जन-शलाकया इह कीर्त्तिं राजपूजां लभते सद्गतिं सः”ज्यो० त० तद्धेतुपुस्तकादिदानञ्चाग्रे वक्ष्यमाणप्रमाणात् तत्रज्ञानरूपविद्यादानप्रकारः हेमा० दा० वह्निपु० उक्तो यथा“वाजपेयसहस्वस्य सम्यगिष्टस्य यत् फलम् तत्फलंसमवाप्नोति विद्यादानान्न संशयः तस्वाद्देवालये नित्यधर्मशास्त्रस्य वा श्रुतेः पठनं कारयेत् राजन्! यदी-च्छेत् धर्ममात्मनः गोमूहिरण्यवासांसि शयनान्यास-नानि प्रत्यहं तेन दत्तानि भवन्ति नृपसत्तम! ।धर्माधमौ जानाति लोकोऽयं विद्यया विना त-स्मात् सदैव धर्मात्मन्! विद्यादानरतो भवेत् वेद-शास्त्ररहस्यज्ञो यदि नैव नृपोत्तम! ततोऽज्ञान-तमोऽन्धस्य कावस्था जगतो भवेत् ब्रह्मादवः सुराःसर्वे ऋषयो दग्धकिल्विषाः मनुष्याः पितरश्चैवविद्यादाने प्रतिष्ठिताः चतुर्युगानां राजेन्द्र! एक-सप्ततिसंख्यया वेदशास्त्रप्रदः स्वर्गे पूज्यते सुरसत्तमैः ।इत्युपक्रमे “दानं विशेसफलदं जगतीह नान्यद् विद्यांविहाय वदनाब्जकृताधिवासाम् गोभूहिरण्यगज-वाजिरथादि सर्वं तां यच्छतां किमिति भूप! भवेन्नदत्तम्” तत्रैव नन्दिपु० “अध्यापयेच्छुभान् शिष्यानभि-जातान् सुमेधसः एवं विद्याप्रदानं हि सर्वदानोत्तमो-त्तमम् सर्वदा सर्ववर्णानामयं प्लव उत्तमः अनेनविधिना दत्त्वा विद्यां पुण्यपरो नरः” ।स्वयंविद्यादानासामर्थ्ये आ० त० भविष्यपु० उक्तं यथा“अध्यापकस्य यो वृत्तिं दत्त्वाऽध्यापयति द्विजान् ।किं दत्तं भवेत्तेन धर्मकर्मार्थमिच्छता” तद्धेतुभूत-पुस्तकादिदानमपि विद्यादानं हेमा० दा० उक्तं यथानन्दिपु० “विद्या मुख्या दानानां गुरुतोऽस्य विधिंबुधः श्रुत्वा विद्याञ्च विधिवत् शुद्धया भाविता ताना ।सत्पात्रेभ्यश्च तां दद्यात् विशेषात् गुनाशालिषु। उपयोग्यञ्च यद् यस्य तत्तस्य प्रतिपांदयेत्” ततः पुस्तकलेखन-प्रकारस्तद्दानविधिश्च विस्तरेणोक्तस्तत्र दृश्यः विद्योपयो-गिद्रव्यादिदानेऽपि विद्यादानं भवति यथोक्तं हेमा० दा०देवीपु० “आत्मवित्तानुसारेण विद्यादानं करोतियः असाध्यं फलमाप्नोति आद्यतुल्यं संशयः ।स्त्री तथानेन विधिना विद्यादानफलं लभेत् भर्त्रा चैवाननुज्ञाता विधवा तमुद्दिशेत्” विधानमाह “विद्या-र्थिने सदा दद्याद् वस्त्राभ्यङ्गञ्च भोजनम् छत्रिकामुदकं दीपं यस्मात्तैलं विना सः लेखनीथटितंतीक्ष्णं मसीपात्रन्तु लेखनीम् दत्त्वा तु लभते वत्स!विद्यादानमनुत्तमम् पुस्तकस्तरणं दत्त्वा सुप्रमाणंसुशोभनम् विद्यादानमवाप्नोति सूत्रवन्धञ्च बुद्धि-मान् यन्त्रकं त्वासनञ्चैव दण्डासनमथापि वा ।विद्यावाचनशीलाय दत्तं भवति राज्यदम् अञ्जनंनेत्रपादानां दत्तं विद्यापरायणे भूमिर्गृहञ्चक्षेत्रञ्च स्वर्गराज्यफलप्रदम् यस्य भूम्यां स्थितो नित्यंविद्यादानं प्रवर्त्तयेत् तस्यापि भवति स्वर्गस्तत्प्रभावान्नसंशयः” “येऽपि पत्रं मसीपात्रं लेखनीं सम्पुटादि-कम् दद्युः शास्त्राभियुक्ताय तेऽपि विद्याप्रदायिनाम् ।यान्ति लोकान् शुभान् मर्त्याः पुण्यभाजो नराधिप!” ।नन्दिपु० “विद्यादानमवाप्नोति प्रदानात् पुस्तकस्य ।शिल्पानि शिक्षयेद् यस्तु पौण्डरीकफलं लभेत् शिल्प-भाण्डप्रदानेऽपि तद्विद्यादानजं फलम् अहितेषुप्रवृत्तस्य तथा कृत्वा निवारणम् विद्यादानफलंप्रोक्तं नात्र कार्य्या विचारणा पापवृत्तस्य तथा दत्त्वाचैव परां मतिम् विद्यादानफलं प्राप्य स्वर्गलोकेमहीयते येन जीवति भाण्डेन तस्मै तद्भाण्डदायकः ।सर्वकामसमृद्धश्च यज्ञस्य फलमश्नुते” विष्णुधर्मो० ।तत्रैव स्कन्दपु० विद्यादानोपक्रमे “पुस्तकस्तरणंदत्त्वा सहस्रं तत्प्रमाणतः तदासनं वितानं वाशिवलोके महीयते यः श्रीपर्णसमुद्भूतं निम्नखातंसुलक्षणम् दद्यात् सम्पुटकं कृत्वा चर्मणा वापि नि-र्मितम् शिवज्ञानाभियुक्ताय तदध्ययनहेतुना सु-श्लक्ष्णं फलकं वापि विद्यादानफलं लभेत् यः सौवर्णंसुसम्पूर्णं सर्वरत्नोपशोभितम् सपिधानं समञ्जूषंविद्याकोशसमाश्रयम् कारयेद्वापि रौप्येण ताम्रेण चतु-रखकम् कांव्यारकूटं लोहं वा दारुवंशादिनिर्मितम् ।सकवायातिरक्तेन चर्मणाभिनवेन अन्तर्बहिश्चमठयेत् विद्यादाने नवं गृहम् सुदृढं कटकोपेतंदृढस्तम्भनिवेशनम् कुर्य्यात्तालकसंयुक्तं विद्यावर्त्ति-करण्डकम् एवं वित्तानुसारेण कारयित्वा गृहंनृपः विद्यासिंहासनं तत्र संपूज्य विधिवद्बुधः ।तस्मिन् पुण्याहशब्देन विद्याकोशगृहं न्यसेत् एवंयः शिवविद्यायाः कुर्य्यादायतनं शुभम् मुक्तः पा-तकैः सर्वैविद्यादानफलं लभेत् विद्यामण्डलकं कृत्वाविद्याव्याख्यानमण्डपे तत्राभ्यर्च्य शिवां विद्यां तद्-व्याख्यां शृणुयात्ततः सोऽपि याति शिवस्थ्यानं कार्य-कालसमन्वितम् अनेन विधिना ज्ञानं यः शृणोतिप्रवक्तृतः साम्राज्यश्रियं सौख्यं देहान्ते मुक्ति-माप्नुयात्” तत्रैव देवीपु० “तस्मात् सर्वप्रयत्नेनविद्या देया सदा नरैः इहैव कीर्त्तिमाप्नोति मृतोयाति परां गतिम् यस्तु देव्या गृहे नित्यं विद्या-दानं प्रवर्त्तयेत् भवेत् सर्वलोकानां पूज्यः पूज्यपदंव्रजेत्” वराहपु० “लेखापयित्वा तच्छास्त्रं देयं गुण-वते सदा तपस्विने, धर्मरते प्रतिपालनतत्परे वस्त्र-युग्मेन संवीतं पुस्तकं प्रतिपादयेत् वाचकं पूजयेच्चापिवस्त्रालङ्कारभूषणैः अनेनैव विधानेन विद्यादानफलंलभेत्”