| YouTube Channel

विद्यादाता (vidyAdAtA)

 
शब्दकल्पद्रुमः
Sanskrit
विद्यादाता, [ऋ] त्रि, (विद्यां ददातीति दा +तृच् ।) विद्यादानकर्त्ता यथा, --“अन्नदाता भयत्राता पत्नीतातस्तथैव ।विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम्
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः
अपि ।“न विद्यासमो बन्धुर्नास्ति कश्चित् गुरोःपरः ।विद्यादातुः पुत्त्रदारौ तत्समौ नात्र संशयः
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः