| YouTube Channel

विद्धकर्णी (viddhakarNI)

 
शब्दकल्पद्रुमः
Sanskrit
विद्धकर्णी,
स्त्री,
(विद्धः कर्ण इव पत्रमस्याः ।)वृक्षविशेषः अकनादि इति भाषा
तत्-पर्य्यायः पाठा अम्बष्ठा स्थापनी ४श्रेयसी रसा एकाष्ठीला पापचेली ८प्राचीना वनतिक्तिका १० इत्यमरः
अविद्धकर्णी ११ अविद्धकर्णा १२ इतितट्टीका
आविद्धकर्णिका १३ विद्ध-कर्णिका १४ इति शब्दरत्नावली
अन्यत्पाठाशब्देद्रष्टव्यम्