| YouTube Channel

विदूरथः (vidUrathaH)

 
शब्दकल्पद्रुमः
Sanskrit
विदूरथः,
पुं,
राजविशेषः यथा, --“मनोस्तु दक्षपुत्त्रस्य द्वादशस्यात्मजान् शृणु ।देववानुपदेवश्च देवश्रेष्ठो विदूरथः
मित्रवान् मित्रदेवश्च मित्रविन्दश्च वीर्य्यवान् ।मित्रवाहः सवर्च्चाश्च दक्षपुत्त्रमनोः सुताः
”इति गारुडे ८७ अध्यायः
(कुरुपुत्त्रः यथा, महाभारते ९५ ।३९ -- ४० ।“कुरुः खलु दाशार्हीमुपयेमे सुभाङ्गीं नामतस्यामस्य जज्ञे विदूरथः विदूरथस्तु माधवी-मुपयेमे संप्रियां नाम तस्यामस्य जज्ञे अनश्वानाम
*
वृष्णिवंशीयानामन्यतमः यथा, भागवते २४ १८ ।“पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः
”अस्य पूत्त्रः शूरः यथा, तत्रैव २४ २६ ।“शूरो विदूरथादासीत् भजमानस्तु तत्सुतः ।शिनिस्तस्मात् स्वयं भोजो हृदिकस्तत्सुतोमतः
”)