| YouTube Channel

विदिक् (vidik)

 
शब्दकल्पद्रुमः
Sanskrit
विदिक्, [श्]
स्त्री,
(दिग्भ्यां विगता ।) दिशो-र्मध्यम् अग्निनिरृतिवाय्वीशानकोणचतुष्टयम् ।तत्पर्य्यायः अपदिशम् इत्यमरः
प्रदिक् इति जटाधरः
विदिशम् ।इति शब्दरत्नावली
कोणः इति राज-निर्घण्टः
(यथा, भागवते १७ १६ ।“सा दिशो विदिशो देवी रोदसी चान्तरं तयोः ।धावन्ती तत्र तत्रैनं ददर्शानुद्यतायुधम्
”)