विद (vida)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wilson
Englishविद r. 2nd cl. (वेत्ति वेदि) To know.
With नि prefixed, To be sad or depressed.
With सम्, (संवित्ते) To meditate, to know, to gain holy knowledge by abstract meditation. r. 4th cl. (विद्यते) To be, to exist, to be present, to exist actually. r. 7th cl. (विन्ते) To consider, to reason. r. 10th cl. (वेदयते)
1 To be sensible.
2 To know.
3 To declare, to describe or explain
(in this sense नि is usually prefixed.)
4 To dwell, to inhabit.
5 To be fixed or steady.
6 To suffer pain.
With नि, or वि and नि prefixed, To deliver, to impart or communicate.
With प्रति, To deliver, to give. (औ ऌ) औ विटॢ r. 6th cl. (विन्दति-ते) To gain, to get, to acquire or possess.
With परि, To marry first.
Apte
Englishविदः [vidḥ], 1 A learned man, wise man or Paṇḍita.
The planet Mercury.
दा Knowledge, learning.
Understanding.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiविदः
- विद् + क
"विद्वान पुरुष, बुद्धिमान मनुष्य, पंडितजन"
विदः
- -
बुधग्रह
धातुपाठः (Krishnacharya)
Sanskrit विद्
विद
ज्ञाने
अदादिः
सकर्मकः
सेट्
परस्मैपदी
वेत्ति
विद्
विद
सत्तायाम्
दिवादिः
अकर्मकः
अनिट्
आत्मनेपदी
विद्यते
विद्
विद
विचारणे
रुधादिः
सकर्मकः
अनिट्
आत्मनेपदी
विन्ते
विद्
विद
चेतन-आख्यान-निवासेषु
चुरादिः
सकर्मकः
सेट्
आत्मनेपदी
वेदयते
आकुस्मीयः
धातुप्रदीपः
Sanskritविदँ विद ज्ञाने
- वेत्ति । वेद । विवेद । विदाञ्चकार । संविद्रते । संविदते । वेदिता । वेत्तु विदाङ्करोतु (13) । विदितम् । ब्राह्मणवेदं भोजयति ।। 55 ।।
विदँ विद सत्तायाम्
- विद्यते विविदे वेत्ता विन्नः निर्विण्णः 66
विदँ विद विचारणे
- विन्ते विन्दाते वेत्ता विन्नम् वित्तम् 13
विदँ विद वेदना, आख्यान, निवासेषु
- वेदयते निवेदयाञ्चक्रे अन्यत्र वेत्ति वेद विद्यते विन्दते विन्दति विन्ते (21) 169
शब्दकल्पद्रुमः
Sanskritविद, ऌ प श ञौ लाभे । इति कविकल्पद्रुमः ॥
(तुदा०-उभ०-सक०-अनिट् ।) ऌ, अविदत् ।प श ञ, विन्दति विन्दते । औ, वेत्ता । इतिदुर्गादासः ॥
विद, क ङ ञ चेतनाख्यानवासवादे । इति कवि-कल्पद्रुमः ॥
(चुरा०-आत्म०-उभ०-च-सक०-वासे स्थैर्य्ये च अक०-सेट् ।) चेतना ज्ञानम् ।वादः स्थैर्य्यम् । क ङ, वेदयते शास्त्रं धीरःजानातीत्यर्थः । वेदयते स्वार्थं लोकः आख्या-तीत्यर्थः । वेदयते तीर्थे साधुर्वसतीत्यर्थः ।वेदयते वृक्षः स्थिरः स्यादित्यर्थः । ञ, वेदयतिवेदयते । केचित्तु वादं न पठन्ति । चेतनास्थानेवेदनेति पठित्वा वेदयते वृद्धः व्यथते इत्यर्थः ।इत्युदाहरन्ति । अस्माच्च परस्मैपदममन्यमानाजितां सपत्नेन निवेदयिष्यत इति निवेदनं करो-तीत्यर्थे ञौ समादधते । इति दुर्गादासः ॥
विद, ङ धौ मीमांसे । इति कविकल्पद्रुमः ॥
(रुधा०-आत्म०-सक०-अनिट् ।) मीमांसोविचारणम् । ङ ध, विन्ते शास्त्रं धीरः । औ, वेत्ता । इति दुर्गादासः ॥
वाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritविदँ विद ज्ञाने
- इतश्चत्वारः सेटः परस्मैपदिनश्च वेत्ति, वित्तः विदन्ति विदो लटो वा (3483) इति णलादयो वा-वेद, विदतुः, विदुः दश्च (8275) इति दस्य वा रुः-अवेः, अवेत् समो गमि (1329) इति तङ्-संवित्ते वेत्तेर्विभाषा (717) इति रुट्-संविद्रते बुधः, संविदते रुदविदमुष (128) इति सेट् संश्च क्त्वा च कितौ वा विविदिषति विवेदिषति, विदित्वा, वेदित्वा उषविदजागुरन्यतरस्याम् (तु0 3138) इत्यां वा विदांचकार, आमि विदेरगुणत्वमाहुः (द्र0 3138 भाष्य), विवेद सिजभ्यस्तविदिभ्यच (34109) इति झेर्जुस्-अविदुः विदांकुर्वन्त्वित्यन्यतरस्याम् (3141), पक्षे-विदन्तु णौ अनुपसर्गल्लिम्पविन्द (31138) इति शः-वेदयः सत्सूद्विष् (3261) इति क्विप्-वेदवित् क्ते विदितः विदिभिदिछिदेः कुरच् (32162)-विदुरः विन्दुरिच्छुः (32169) इति विन्दुर्विद्वान् बिदि अवयवे (153) ऽस्मात् तु बिन्दुर्जलकणः, ओष्ठ्यादिः संज्ञायां समज (3399) इति क्यप्-विद्या घट्टिवन्दिविदिभ्यो (33107 वा0) युच्-वेदना कर्मणि दृशिविदोः साकल्ये (3429) णमुल्-ब्राह्मणवेदं भोजयति विदेः शतुर्वसुः (7136) वा-विद्वान्, विदन् विभाषा गमहन (7268) इतीट्-विविद्वान् विविदिवान् हृपिशिरुहि (द0उ0 147) इतीन्-वेदिः हलश्च (33121) इति करणे घञ्-वेदः नभ्राण्नपाद् (6375) इति न विद्यते-नवेदाः, असुन् सर्ववेदाः सर्वस्वदक्षिणक्रतुयाजी दिवादौ विद सत्तायाम् (463)-विद्यते तुदादौ विद्लृ लाभे (6136)-विन्दति रुधादौ विद विचारणे (717)-विन्ते, विनत्ति चुरादौ विद चेतनाख्यानविवादेषु (10154) तङानी-वेदयते 52
विदँ विद सत्तायाम्
- (अर्थविवरणम्) सत्ता भावः
विद्यते वेत्ता विन्नः अदादौ विद ज्ञाने (259)-वेत्ति, वेदिता तुदादौ विद्लृ लाभे (6136)-विन्दति रुधादौ विद विचारणे (717)-विन्ते, विनत्ति चुरादौ विद चेतनादिषु (10154)-वेदयते 60
विदँ विद विचारणे
- अनुदात्तावनुदात्तेतौ विन्त्ते नुदविदोन्दत्रा (8256) इति वा निष्ठानत्वम्-वित्तः विन्नः 12, 13
विदँ विद चेतन, आख्यान, विवादेषु
- वेदयते सुखम्, आवेदयते कथाम्, प्रवेदयते वादिनम् अदादौ (259) वेत्ति दिवादौ (462) विद्यते तुदादौ (6136) विन्दति, विन्दते रुधादौ (717) विन्ते 175
धातुवृत्तिः
Sanskritविदँ विद (अर्थः) ज्ञाने
एतदादयो रुदिपर्यन्ता उदात्ता उदात्तेतः ( वेत्ति, वित्तः, विदन्ति, वेत्सि, वित्थः, वित्थ, वेद्मि, विद्वः विद्मः, वेद, विदतुः, विदुः, वेत्थ, विदथुः, विद, वेद, विद्व, विद्म) "विदो लटो वा'' इति लटः परस्मैपदानां पक्षे णलादयः ( विवेद, विविदतुः, विवेदिथ, विवेद, विविदिव विदांचकार, ) "उषविद'' इत्याम्प्रत्ययो वा विदेत्यकारस्य विवक्षितत्वान्न लघूपधगुणः ( वेदिता वेदिष्यति वेत्तु, वित्तात्, वित्तां, विद्धि, वेदानि विदाङ्करोतु, विदाङ्कुरुतात्, विदाङ्कुर्वन्तु, विदाङ्कुरु, विदाङ्करवाणि, ) "विदाङ्कुर्वन्त्वित्यन्यतरस्याम्'' इति लोट्याम्यगुणत्वम्, लोटो लुक्, लोट्परकरोतेरनुप्रयोगश्च पक्षे निपात्यते कुर्वन्त्वितिबहुवचनमितिकरणान्न विवक्ष्यते ( अवेत्, अवित्ताम्, अविदुः, अवेत्, अवेः, अवित्तम्, अवेदम्, अविद्व, ) हल्ङ्यादिना तिस्योर्लोपः सिपि "दश्च'' इति दकारस्य वा रुत्वम् "सिजभ्यस्तविदिभ्यश्च'' इति झेर्जुस् ( विद्यात्, विद्यातां, विद्युः, विद्याः, विद्याम् ) आशिषि ( विद्यात्, विद्यास्ताम् ) इत्यादि ( अवेदीत्, अवेदिष्टाम्, अवेदीः अवेदिषम् ) "नेटि'' इति हलन्तलक्षणाया वृद्धेर्निषेधः ( संवित्ते, संविदाते, संविदते, संविदते, संवित्से, संविदे, ) "समो गमृच्छि'' इत्यकर्मकात्तङ् "वेत्तेर्विभाषा'' इति झादेशस्यातो वा रुडागमः ( संविविदे, संविविदिषे, संविविदे, संविविदिवहे संविदाञ्चक्रे संवेदिता संवेदितासे संवेदिष्यते/ संवित्तां, संविदातां, संविदतां, संवित्सतु, संवेदै समवित्त, समविदातां, समविदत समविद्रत, समवित्थाः, समविदि संविदीत, संविदीयाताम् ) आशिषि ( संवेदिषीष्ट, संवेदिषीयास्ताम् ) लघूपधगुणः "लिङ्सिचौ'' इति कित्त्वमझलादित्वान्न भवति ( समवेदिष्ट, समवेदिषातां, ) पूर्ववदकित्त्वम् ( विविदिषति, विदित्वा ) "रुदविद'' इति क्त्वासनोः कित्त्वम् ( वेविद्यते वेवेत्ति, वेविदीति संवेवित्ते, संवेविदाते, संवेविदते ) "समो गमृच्छि'' इति तङ् प्रकतिग्रहणेन रुट् तु न भवति वेत्तेरिति तिपा निर्देशात् ( वेदयति अवीविदत् विदन्, विद्वान् ) "विदेश्शतुर्वसुः'' इति शतुर्वा वसुरादेशः संयोगान्तलोपे "वसुखंसु'' इति दत्वं नकारस्य न भवति, तत्र स इत्यनुवर्तनादित्युक्तम् विदन्नेव ( वैदनः ) "प्रज्ञादिभ्याश्च'' इति स्वार्थेऽण् विद्वांसोऽस्यां सन्तीति ( विदुष्मती ) परिषत् "तसौ मत्वर्थे'' इति मतुपोऽपि मत्वर्थत्वात्तस्मिन् परे सान्तत्वेन भत्वात् वसोस्सम्प्रसारणपरपूर्वत्वयोः षत्वम् विद्वांसमाचष्टे इति णौ णाविष्ठवदिति टिलोपे ( विद्वयति ) इति दौर्गाः तदयुक्तम्, "इष्ठवद्भावादेव थत्वे नित्यत्वात्पूर्वं प्रसारणे पश्चाट्टिलोपे ( विदयति ) इति भाव्यमिति टिलोपस्तु शब्दान्तरप्राप्त्या ऽनित्यः ( विदितः ) वेदयतीति ( वेदयः ) "अनुपसर्गाल्लिंप'' इत्यादिना ण्यन्ताच्छप्रत्यये शपि गुणायौ ( शास्त्रवित्, प्रवित् ) "सत्सूद्विष'' इत्यादिना क्विप् ( विदुरः ) "विदिभिदिच्छदेः कुरच्'' इति कर्तरि कुरच् वेदनशीलो ( विन्दुः ) "विन्दुरिच्छुः'' इत्युप्रत्यये नुमि निपात्यते ( वेदः ) "हलश्च'' इति घञ् ( वैदिकः ) अध्यात्मादित्वात् शैषिकष्ठञ् वेदमाचष्टे (वेदापयति) [ अर्थवेदसत्यानामापुग्वक्तव्यः ] इत्यापुक् आयुर्वेदमधीते वेद वा ( आयुर्वैदिकः ) उक्थादित्वात् ठक् सर्वे वेदाः ( सर्ववेदाः, "पूर्वकालैक'' इति समासः, तान् अधीते वेद वा स ( सर्ववेदः, ) प्राग्दीव्यतीयस्याणः "सर्वसादेर्द्विगोश्च ल'' इत्युक्थादिपाठाल्लुक् अत्र द्विगुग्रहणं तद्धितार्थमित्यस्यैव स्मरणार्थमिति हरदत्तादयः सर्ववेद एव ( सार्ववेद्यः ) [ सर्ववेदादिभ्यस्स्वार्थउपसङ्ख्यानम् ] इति सार्थे ष्यङ् चतुरो वेदानधीते वेद वा ( चतुर्वेदः ) तद्धितार्थे द्विगौ प्राग्दीव्यतीयस्याणो "द्विगोर्लुक्'' इति लुक् चतुर्वेद एव ( चातुर्वैद्यः ) [ चतुर्वेदस्योभयपदवृद्धिश्च ] इति ष्यञुभयपदवृद्धिः ( वित्तिः ) "मन्त्रे वृष'' इत्यादिना स्त्रियां क्तिन् (विद्या) "संज्ञायां समज'' इति क्यप् चतस्रो विद्याः ( चातुर्वैद्यम् ) [ चतुर्वर्णादिभ्य उपसङ्ख्यानम् ] इति स्वार्थे ष्यञ् अनुशतिकादित्वादुभयपदवृद्धिः स्वार्थस्यापितद्धितार्थत्वात् "तद्धितार्थ''इति द्विगुः विद्यामधीते वेद वा ( वैद्यः ) ''प्राग्दीव्यतीयोऽण्'' वायसविद्यामधीते वेद वा ( वायसविद्यिकः ) विद्यालक्षणकल्पसूत्रान्तात्'' इति उक्थादिपाठाठ्ठक् यदायं विद्यान्तस्सर्वसादिद्विगुर्वा तदा "सर्वसादेर्द्विगोश्च ल'' इति प्रत्ययस्य लुकि ( सर्वविद्यः ) इत्यादि भवति अत्र हरदत्तः "चतुर्विद्यशब्दस्य ब्राह्मणादिपाठात्स्वार्थे ष्यञ्, मतान्तरेणापि ( चातुर्वैद्यः ) इति उक्थादौ "विद्या चानङ्गक्षत्रधर्मसंसर्गात्रिपूर्वा' इतिपाठादङ्गादिपूर्वपदात् प्राग्दीव्यतीयोऽणेव, ( अङ्गविद्यः ) इत्यादि ( त्रैविद्यः ) इत्यत्र त्र्यवयवा विद्या (त्रिविद्या) इति शाकपार्थिवादीनामुपसङ्ख्यानमुत्तरपदलोपश्च] इति तत्पुरुषत्वेन अद्विगुत्वादणो लुङ्न भवति यदा तु द्विगुस्तदा त्रिविद्य इत्येव (विदा) भिदादित्वादङ् ( वेदना ) "घट्टिवन्दिविदिभ्यश्च'' इति युच् ( ब्राह्मणवेदं भोजयति ) यं यं ब्राह्मणं वेद तं तं भोजयतीत्यर्थः "कर्मणि दृशिविदोः'' इति णमुल् न वेत्तीति (नवेदाः) विदेरसुन् "न भ्राण्णपात्'' इत्यादिना नञः प्रकृतिभावः तत्र नवेदा इत्येकवचनान्तपाठाद्द्विवचनान्तपरे न प्रकृतिभाव इत्यात्रेयादयः अयं सत्तायां दिवादौ, विचारणे रुदा( 1 ) ( 1 ) रुधादाविति बहुष पुस्तकेषु पाठो दृश्यते दौ चेतनाख्याननिवासेषु चुरादौ विद्लृ लाभे तुदादौ 54
विदँ विद (अर्थः) सत्तायाम्
( विद्यते ) इत्यादि खिदिवत् वेत्तीति ज्ञाने गतम् 63
विदँ विद् (अर्थः) विचारणे
(विन्ते) इत्यादि खिनत्तिवत् (वित्तः, विन्नः) "नुदविदोन्दत्रा" इति निष्ठानत्वविकल्पः उन्दीना साहचर्यादिस्यैव तत्र ग्रहः खिदिविदी अनुदात्तावनुदात्तेतौ 13
विदँ विद (अर्थः) चेतन, आख्यान, निवासेषु
विदु चेतनइत्येके विद चेतनाख्यानपरिवादेष्वित्यपरे ( वेदयते ) सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे विन्दते विन्दति प्राप्तौ श्यन्लुक्श्नम्शेषु च क्रमात् 174
कृदन्तरूपमाला
Sanskrit1 {@“विद ज्ञाने”@} 2 ‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे।’ 3 इति देवः।
‘-- मतौ’ इति वोपदेवः।
आवेदकः-दिका, वेदकः-दिका, 4 विविदिषकः-षिका, वेविदकः-दिका
वेदिता-त्री, वेदयिता-त्री, विविदिषिता-त्री, वेविदिता-त्री
5 विदन्-ती, 6 विद्वान्-विदुषी, निवेदयन् 7 -न्ती, वेदयः 8, विविदिषन्-न्ती
-- वेदिष्यन्-न्ती-ती, वेदयिष्यन्-न्ती-ती, विविदिषिष्यन्-न्ती-ती
-- 9 संविदानः, वेदयमानः, संविविदिषमाणः, वेविद्यमानः
10 मन्त्रवित्, ब्रह्मवित्, शास्त्रवित्, वेदवित्, 11 अनिर्विदा, लोकवित्-प्रवित्-विदौ-विदः
12 विदितम्-तः-तवान्, वेदितः, विविदिषितः, वेविदितः-तवान्
13 विदः, 14 विन्दुः, 15 विदुरः 16, सार्ववेद्यः, चतुर्वेदः, 17 विविदिवान्-विविद्वान्, चतुर्वेदी, 18 पराशयवेदी, धनुर्वेदी, वैदिकः, वेदः, 19 वैदनः 20 विविदिषुः, वेविदः
आवेदितव्यम्, वेदयितव्यम्, विविदिषितव्यम्, वेविदितव्यम्
आवेदनीयम्, वेदनीयम्, विविदिषणीयम्, वेविदनीयम्
वेद्यम्, त्रैविद्यः, वेद्यम्, विविदिष्यम्, वेविद्यम्
वेद्यमानः, वेदयमानः, विविदिषमाणः, वेविद्यमानः
21 वेदः, वेदः, विविदिषः, वेविदः
वेदितुम्, वेदयितुम्, विविदिषितुम्, वेविदितुम्
22 वित्तिः, विदा, 23 विद्या, अङ्गविद्या, त्रिविद्या, 24 वेदना, विविदिषा, वेविदा
25 वेदनम्, वेदनम्, विविदिषणम्, वेविदनम्
26 विदित्वा, 27 वेदयित्वा, विविदिषित्वा, वेविदित्वा
आवेद्य, प्रवेद्य, प्रविविदिष्य, प्रवेविद्य
28 ब्राह्मणवेदं 29 चोरवेदम् 30 31 जिघांसुवेदम्, 32 वेदम् २, विदित्वा २, वेदम् २, वेदयित्वा २, विविदिषम् २, विविदिषित्वा २, वेविदम् २
वेविदित्वा २
33 इति इन्प्रत्ययः।
वेत्ति विन्दति विद्यते वा वेदिः = त्रेताग्न्यधिष्ठानम्।]] वेदिः, 34 विदथः, 35 नवेदाः, 36 इति विश्वशब्द उपपदे असिप्रत्ययः।
विश्ववेदाः = हुताशनः।]] विश्ववेदाः।
01 (१६०२ [[आ। ‘विद्वानुपानेष्ट च तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः।।’ भ। का। १-१५]])
02 (२-अदादिः-१०६४। सक। सेट्। पर।)
03 (श्लो। १११)
04 [[१। सनि, ‘रलो व्युपधात्--’ (१-२-२६) इत्यादिना क्रित्त्वविकल्पे प्राप्ते ‘रुदविद--’ (१-२-८) इति नित्यं कित्त्वं भवति। तेन सन्नन्ते सर्वत्र एकमेव रूपम्। क्षीरस्वामी तु ‘रुदविद--’ (१-२-८) इति सूत्रं कित्त्वविकल्पार्थमिति व्याचकार। भाष्यादिषु नित्यकित्त्वविधायकत्वेनैव प्रकृतसूत्रस्य व्याख्यानात् क्षीरस्वामिमतं चिन्त्यम्।]]
05 [[२। शतरि, ‘विदेः शतुर्वसुः’ (७-१-३६) इति सूत्रात् शतुः वस्वादेशविकल्पः। वस्वादेशपक्षे विद्वान् इति
\n\n तदभावपक्षे विदन् इति च रूपम्। नित्यं वसुरित्या- देश इति केषाञ्चिन्मतम्। काशिकादिषु तु वैकल्पिकमिति स्पष्टम्।]]
06 [[आ। ‘विद्वानुपानेष्ट च तान् स्वकाले यतिर्वशिष्ठो यमिनां वरिष्ठः।।’ भ। का। १-१५]]
07 [[B। ‘स्पष्टं बहिः स्थितवतेऽपि निवेदयन्तः…।’ शि। व। ५-९७]]
08 [[३। ण्यन्तात् ‘अनुपसर्गाल्लिम्पविन्द--’ (३-१-१३८) इति शप्रत्यये शपि गुणायादेशौ। वेदयतीति वेदयः।]]
09 [[४। ‘विदिप्रच्छिस्वरतीनाम्’ (वा। १-३-२९) इति संपूर्वकात् विदेः आत्मनेपदं भवति।]]
10 [[५। ‘सत्सूद्विषद्रुहयुजविद--’ (३-२-६१) इति क्विप्प्रत्यये रूपमेवम्।]]
11 [[C। ‘अनिर्विदा या विदधे विधाता पृथ्वी पृथिव्याः प्रतियातनेव।।’ शि। व। ३-३४।]]
12 [[ड्। ‘विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः।’ कु। सं। ६-२६।]]
13 [पृष्ठम्१२३४+ २८]
14 [[१। ‘विन्दुरिच्छुः’ (३-२-१६९) इति तच्छीलादिषु कर्तृषु उप्रत्यये, निपातनात् नुमागमे च रूपमेवम्। वेदनशीलो विन्दुः। पवर्गीयादिस्तु ‘बिदि अवयवे’ इति धातोः ‘मृगय्वादिभ्यः’ (द। उणादिः १-१२१) इति कौ बोध्यः, इति बृहच्छब्देन्दुशेखरे।]]
15 [[२। ‘विदिभिदिच्छिदेः कुरच्’ (३-२-१६२) इति कुरच्प्रत्यये रूपमेवम्। ‘ज्ञाता तु विदुरो विन्दुः’ इत्यमरः। अत्र सूत्रे ज्ञानार्थ एव न्यासे गृहीतः।]]
16 [[आ। ‘विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्।।’ भ। का। ७-२२।]]
17 [[३। क्वसुप्रत्यये, ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति विकल्पेन इडागमो भवति। विविदिवान्-विविद्वान् इति रूपद्वयम्। ‘ज्ञानार्थस्य तु नित्यं विविद्वान् इत्येकमेव, भवति’ इति काशिकायाम् (७-२-६८) उक्तम्। अन्यत्रार्थे रूपद्वयं बोध्यम्।]]
18 [[B। ‘अकलयदसमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञाः।।’ नैषधे ४-११८।]]
19 [[४। विदन्नेव वैदनः, ‘प्रज्ञादिभ्यश्च’ (५-४-३८) इति स्वार्थेऽण्प्रत्ययः। एतेनापि ‘विदेः शतुर्वसुः’ (७-१-३६) इति वसुविकल्पः सिद्धः। अन्यथा अणः प्रकृतिभूतस्य विदन् इति शत्रन्तस्यासिद्धेरित्यवधेयम्।]]
20 [[C। ‘नाविविदिषुमभ्येति संपद्रुरुधिषुं नरम्।’ भ। का। ७-९९।]]
21 [[५। वेत्ति अनेनेति ‘हलश्च’ (३-३-१२१) इति करणे घञ्।]]
22 [[६। ‘मन्त्रे वृषेषपचमनविद--’ (३-३-९६) इति स्त्रियां भावे क्तिन्प्रत्ययः।]]
23 [[७। विदन्त्यनया इति, ‘संज्ञायां समजनिषदनिपतमनविद--’ (३-३-९९) इति स्त्रियां भावे क्यप्प्रत्ययः।]]
24 [[८। ‘घट्टिवन्दिविदिभ्यश्च’ (वा। ३-३-१०७) इति स्त्रियां युच्प्रत्ययः।]]
25 [पृष्ठम्१२३५+ २७]
26 [[१। क्त्वायां, ‘रलो व्युपधात्--’ (१-२-२६) इति वैकल्पिककित्त्वे प्राप्ते ‘रुद- विद--’ (१-२-८) इत्यादिना नित्यं कित्त्वम्। तेन एकमेव रूपम् इति ज्ञेयम्।]]
27 [[आ। ‘विदित्वा शक्तिमात्मीयां रावणं विजिघृक्षवः।’ भ। का। ७-९८।]]
28 [[२। ‘कर्मणि दृशिविदोः साकल्ये’ (३-४-२९) इति कर्मण्युपपदे साकल्यविशिष्टेऽर्थे धातोः णमुल्प्रत्ययो भवति। ब्राह्मणवेदं भोजयति इत्यस्य यं यं ब्राह्मणं = ब्राह्मण- त्वेन जानाति लभते विचारयति वा तान् सर्वान् भोजयतीत्यर्थः।]]
29 [भोजयति]
30 [[B। ‘यांश्चोरभूतान् लभते विचारयति वेत्ति वा। तान् सर्वानपि हन्तीति चोरवेदं निहन्त्यसौ।।’ इति प्रक्रियासर्वस्वे।]]
31 [निहन्ति]
32 [[C। ‘जिघांसुवेदं धृतभासुरास्त्रस्तां ताडकाख्यां निजघान रामः।।’ भ। का। २-२३।]]
33 [[३। ‘हृपिशिरुहिवृतिविदि--’ [द। उ। १-४७]
34 [[४। ‘रुदिविदिभ्यां कित्’ (द। उ। ६-४१) इति अथप्रत्यये रूपमेवम्। वेत्तीति विदथः = ज्ञानी।]]
35 [[५। ‘नभ्राण्नपान्नवेदा--’ (६-३-७१) इति निपातनात् न वेत्तीति नवेदाः इति असुन्प्रत्ययान्तोऽयम्।]]
36 [[६। ‘विदिभुजिभ्यां विश्वे’ [द। उ। ९-९८]
1 {@“विद सत्तायाम्”@} 2 ‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे।’ 3 इति देवः।
वेदकः-दिका, वेदकः-दिका, विवित्सकः-त्सिका, वेविदकः-दिका
वेदिता-त्री, वेदयिता-त्री, विवित्सिता-त्री, वेविदिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकखिद्यति 4 वत् बोध्यानि।
शानचि-विद्यमानः, णिनिप्रत्यये-वेदी, क्तिनि-वित्तिः, इमानि रूपाणि विशेषेण भवन्ति।
5
01 (१६०३)
02 (४-दिवादिः-११७१। अक। अनि। आत्म।)
03 (श्लो। १११)
04 (३४९)
05 [पृष्ठम्१२३६+ २९]
1 {@“विद विचारणे”@} 2 ‘-- मीमांसे’ इति वोपदेवः।
‘सत्तायां विद्यते, ज्ञाने वेत्ति, विन्ते विचारणे।’ 3 इति देवः।
वेदकः-दिका, वेदकः-दिका, विवित्सकः-त्सिका, वेविदकः-दिका
वेत्ता-त्री, वेदयिता-त्री, विवित्सिता-त्री, वेविदिता-त्री
इत्यादिकानि रूपाणि सर्वाणि दैवादिकखिद्यतिवत् 4 ज्ञेयानि।
शानचि विन्दानः, 5 निष्ठायाम्- 6 वित्तः-विन्नः इति च विशेषः।
7 इप्रत्यये रूपम्।
वेत्ति विन्दति विन्ते वा वेदिः = त्रेताग्न्यधिष्ठानम्।]] वेदिः।
01 (१६०४)
02 (७-रुधादिः-१४५०। सक। अनि। आत्म।)
03 (श्लो। १११)
04 (३४९)
05 [[१। ‘रुधादिभ्यः श्नम्’ (३-१-७८) इति विकरणप्रत्यये श्नमि, ‘श्नसोरल्लोपः’ (६-४-१११) इति अल्लोपे च रूपमेवम्।]]
06 [[२। निष्ठायाम्, ‘नुदविदोन्दत्रा--’ (८-२-५६) इति निष्ठातकारस्य नकारादेशो विकल्पेन भवति। तेन रूपद्वयम्। तथा च भाष्यम् (७-२-५८) -- ‘वेत्तेस्तु विदितो निष्ठा विद्यतेः विन्न इष्यते। वित्तर्विन्नश्च वित्तश्च वित्तो भोगेषु विन्दतेः।।’ इति।]]
07 [[३। औणादिके [द। उ। १-४७]
1 {@“विद चेतनाख्याननिवासेषु”@} 2 आकुस्मीयः।
‘-- विवादेषु’ इति क्षीरस्वामी।
‘-- वेदने’ इत्येके।
‘विद वेदना- ख्यानपरिवादनेषु’ इति न्यासे पाठः।
“निपातनेषु इति धनपालशा- कटायनौ” इति पुरुषकारः 3।
‘विन्दते विन्दतीत्येवं लाभे, वेदयते णिचि।।’ 4 इति देवः।
वेदकः-दिका, विवेदयिषकः-षिका, वेदयिता-त्री, विवेदयिषिता-त्री
इत्यादिकानि सर्वाण्यपि प्रातिस्विकरूपाणि विना--चौरादिककेतयतिवत् 5 ज्ञेयानि।
‘अनुपसर्गाद्--’ 6 इति शप्रत्यये वेदयः इति।
‘घट्टिवन्दि- विदिभ्यश्च’ 7 इति ण्यन्तात् स्त्रियां युच्प्रत्यये वेदना इति रूपम्।
01 (१६०५)
02 (१०-चुरादिः-१७०९। सक। सेट्। आत्म।)
03 (श्लो। १११)
04 (श्लो। १११)
05 (२६०)
06 (३-१-१३८)
07 (वा। ३-३-१०७)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
