| YouTube Channel

विथृ (vithR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
विथ्
मूलधातुः:
विथृ
धात्वर्थः:
याचने
गणः:
भ्वादिः
कर्मकत्वं:
द्विकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
वेथते
धातुप्रदीपः
Sanskrit
विथृँ विथृ
मानकरूपान्तरम् - वेथृँ
वेथृ याचने
- वेथते विविथे वेविथ्यते अविवेथत् विथ्यते वेथते विवेथे विवेथ्यते वेथ्यते ।। 32, 33 ।।
क्षीरतरङ्गिणी
Sanskrit
विथृँ विथृ
मानकरूपान्तरम् - वेथृँ
वेथृ याचने
वेथते, अविवेथत् किति विशेषः - विथितः, वेथितः कौशिकस्तु अविथुरसिद्धये यातन इत्याह, तन्न, व्यथेः सम्प्रसारणं किच्च (उ0139) इति सिद्धेः 32, 33
धातुवृत्तिः
Sanskrit
विथृँ विथृ
मानकरूपान्तरम् - वेथृँ
वेथृ (अर्थः) याचने
द्वितीयान्तौ आद्यो धान्त इति कौशिकः क्षीरस्वामिना त्वयं पक्षो दूषितः ( वेथते विविथे ) "असंयोगाल्लिट् कित्'' इति कित्त्वान्न गुणः वेथिता वेथिष्यते वेथताम् अवेथत वेथेत आशिषि वेथिषीष्ट अवेथिष्ट अवेथिष्यत विविथिषते विवेथिषते वेवेथ्यते वविथीति ) "नाभ्यस्तस्य'' इति गुणनिषेधः ( वेवेत्ति वेथयति अविवेथत् ) ऋदित्त्वात् "नाग्लोपि'' इत्युपधाह्रस्वनिषेधः द्वितीसयस्य विशेषो ( विवेथे, वेथ्यते विवेथिषते वेवेथ्यते ववेथीति वेवेत्ते ) इत्यादावगुणविषय एकारश्रवणम् अस्य ऋदित्करणमुपधाह्रस्वनिवृत्त्यर्थम् इमौ द्विकर्मकौ दुह्मादित्वादप्रधाने कर्मणि लादयः षष्ठी तु द्वितीयावदुभयत्र गुणकर्मणि तु विकल्पेन, अप्रधाने कृत्येनाभिहिते कर्तृकर्मणोर्नैव षष्ठी सर्वमेतन्नाथतावुपपादितं तत एवावगन्तव्यम् 34
कृदन्तरूपमाला
Sanskrit
1 {@“विथृ याचने”@} 2 “‘विधृ’ इति कौशिकः।
क्षीरस्वामिना त्वयं पक्षो दूषितः।” इति धातुवृत्तावुक्तम्।
सायणोक्तः पाठस्त्वधुना तरङ्गिण्यां नोपलभ्यते।
वेथकः-थिका, वेथकः-थिका, विवेथिषकः-विविठिषकः-षिका, वेविथकः-थिका
वेथिता-त्री, वेथयिता-त्री, विवेथिषिता-विविथिषिता-त्री, वेविथिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककेटतिवत् 3 ज्ञेयानि।
निष्ठायाम्-विथितः- वेथितः इति।
4
प्रासङ्गिक्यः
01
=>
(१६०२)
02
=>
(१-भ्वादिः-३३। सक। सेट्। आत्म।)
03
=>
(१९०)
04
=>
[पृष्ठम्१२३३+ २३]