| YouTube Channel

वितलं (vitalaM)

 
Apte 1890
English
वितलं The second of the seven lower regions under the earth, see पाताल or लोक.
शब्दकल्पद्रुमः
Sanskrit
वितलं,
क्ली,
(विशेषेण तलम् ।) पातालभेदः
यथा, --“अतलं नितलञ्चैव वितलञ्च गभस्तिमत् ।तलं सुतलपाताले पाताला हि तु सप्त वै
”इति शब्दरत्नावली
(अस्य विवरणं यथा, देवीभागवते १९ ।८ -- १२ ।“द्बितीयविवरस्यात्र वितलस्य निबोधत ।भूतलाधस्तले चैव वितले भगवान् भवः
हाटकेश्वरनामायं स्वपार्षदगणैर्वृतः ।प्रजापतिकृतस्यापि सर्गस्य वृंहणाय
भवान्या मिथुनीभूय आस्ते देवाधिपूजितः ।भवयोर्वीर्य्यसंभूता हाटकी सरिदुत्तमा
समिद्धो मरुता वह्निरोजसा पिबतीव हि ।तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं दैत्यवल्लभम्
दैत्याङ्गनाभूषणार्हं सदा सन्धारयन्ति हि
”)