| YouTube Channel

विटपी (viTapI)

 
Wordnet
Sanskrit
Synonyms:
वृक्षः, तरुः, द्रुमः, पादपः, द्रुः, महीरुहः, शाखी, विटपी, अमोकहः, कुटः, सालः, पलाशी, आगमः, अगच्छः, विष्टरः, महीरुट्, कुचिः, स्थिरः, कारस्करः, नगः, अगः, कुटारः, विटपः, कुजः, अद्रिः, शिखरी, कुठः, कुञ्जः, क्षितिरुहः, अङ्गघ्रिपः, भूरुहः, भूजः, महीजः, धरणीरुहः, क्षितिजः, शालः
noun
शाखा-पर्ण-स्कन्ध-मूलादि-युक्ता दीर्घजीवीनी वनस्पतिः।
"वृक्षाणां रक्षणं कर्तव्यम्।"
शब्दकल्पद्रुमः
Sanskrit
विटपी, [न्]
पुं,
(विटपः शाखादिरस्त्यस्येति ।विटप + इनिः ।) वृक्षः इत्यमरः
(यथा, आर्य्यासप्तशत्याम् ४८६ ।“यूथपते तव कश्चिन्नहि मानस्यानुरूप इहविटपी ।प्रेरय दिनं निदाघद्राघीयः क्व खलु ते च्छाया
”)वटः इति राजनिर्घण्ठः
(विटपयुक्ते, त्रि ।यथा, महाभारते ४३ १० ।“अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम् ।पलाशिनं शाखिनञ्च तथा विटपिनं पुनः
”)