| YouTube Channel

विज्ञानं (vijJAnaM)

 
Apte 1890
English
विज्ञानं 1 Knowledge, wisdom, intelligence, understanding
Pt. 1. 24
5. 3
विज्ञानमयः कोशः ‘the sheath of intelligence’ (the first of the five sheaths of the soul).
2 Discrimination, discernment.
3 Skill, proficiency
प्रयोगविज्ञानं Ś. 1. 2.
4 Worldly or profane knowledge, knowledge derived from worldly experience (opp. ज्ञान which is ‘knowledge of Brahma or Supreme Spirit’)
ज्ञानं तेहं सविज्ञानमिदं वक्ष्याम्यशेषतः Bg. 7. 2, 3. 41
(the whole of the 7th Adhyāya of Bg. explains ज्ञान and विज्ञान).
5 Business, employment.
6 Music.
7 Knowledge of the fourteen lores.
Comp.
ईश्वरः N. of the author of the Mitākṣarā, a commentary on Yājñavalkya's Smṛti.
पादः N. of Vyāsa.
मातृकः an epithet of Buddha.
वादः the theory of knowledge, the doctrine taught by Buddha.
Hindi
Hindi
दिव्य ज्ञान
शब्दकल्पद्रुमः
Sanskrit
विज्ञानं,
क्ली,
(वि + ज्ञा + ल्युट् ।) ज्ञानम् ।कर्म्म इति मेदिनी ने, ११३
कार्म्मणम् ।इति हेमचन्द्रः
“मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्प-शास्त्रयोः
”इत्यमरः
“विशेषेण सामान्येन चावबोधो मोक्षो मुक्तिःशिल्पं चित्रादिशास्त्रं व्याकरणादि मोक्षेशिल्पे शास्त्रे या धीः सा ज्ञानं विज्ञानञ्चो-च्यते एषा विशेषप्रवृत्तिः अन्यत्र घटपटादौया धीः सापि ज्ञानं विज्ञानञ्चोच्यते एषासामान्यप्रवृत्तिः मोक्षे धीर्ज्ञानं विज्ञानञ्चयथा ज्ञानान्मुक्तिरिति सा याचिता चविज्ञानं तुष्टा ऋद्धिं प्रयच्छति इति अन्यत्रयथा ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरेइति घटत्वप्रकारकज्ञानमिति ये केचित्प्राणिनो लोके सर्व्वे विज्ञानिनो मता इति ।ब्रह्मणो नित्यविज्ञानानन्दरूपत्वात् इति एवंचित्रज्ञानं व्याकरणज्ञानं घटपटविज्ञानमित्या-दिकं प्रयुज्यत एव तद्विगमे गरुत्मदादिशब्द-वत् गरुत्मच्छब्दो हि गरुडे पक्षिमात्रे चवर्त्तते मोक्ष इति निमित्तसप्तमी मोक्षनिमित्तंशिल्पशास्त्रयोर्धोर्ज्ञानमुच्यते तन्निमित्ततो-ऽन्यनिमित्तं या तयोर्धीः सा विज्ञानमितिकेचित् मोक्षविषया मोक्षफला धीर्ज्ञानंअन्यधीर्व्विज्ञानम् क्वान्यत्र इत्याह शिल्प-शास्त्रयोरिति केचित् अवबोध इत्यध्याहृत्यमोक्षविषयेऽवबोधो धीर्ज्ञानं अन्यत्र घटपटादि-विज्ञानं शिल्पशास्त्रविषये विज्ञानमितिकेचित् जानातेरनट् ज्ञानं विविधं विरूपं वाज्ञानं विज्ञानम् ।” इत्यमरटीकायां भरतः
*
तत्तु ब्राह्मणस्य लक्षणविशेषः यथा, --“क्षमा दया विज्ञानं सत्यञ्चैव दमः शमः ।अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम्
”ज्ञानविज्ञानयोर्लक्षणं यथा, --“चतुर्द्दशानां विद्यानां धारणं हि यथार्थतः ।विज्ञानमितरं विद्याद्येन धर्म्मो विवर्द्धते
अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु ।धर्म्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते
यया देवो भगवान् विद्यते यत्र विद्यते ।साक्षादेव महादेवस्तज्ज्ञानमिति कीर्त्तितम्
”इति कौर्म्मे उपविभागे १४ अध्यायः