| YouTube Channel

विजिँर् (viji~r)

 
धातुप्रदीपः
Sanskrit
विजिर् पृथग्भावे
- वेवेक्ति वेविक्ते विवेज विविजे वेक्ता अविजत् अवैक्षीत् अविक्त 12
क्षीरतरङ्गिणी
Sanskrit
विजिर् पृथग्भावे
- वेवेक्ति वेविजानि विचिर् इति सभ्याः-वेनिचानि, विवेचनम्, विवेकः 12
धातुवृत्तिः
Sanskrit
विजिर् (अर्थः) पृथग्भावे
( वेवेक्ति ) इत्यादि निजिवत् "विज इट्'' इति इडादेः प्रत्ययस्य ङित्त्वे "ओविजी'' इत्यस्यैव ग्रहणं नास्य यदसौ "सृजिविजिविद्ध्यनिट्स्वरान्' इत्यनिट् अत्र कारिकायां हरित्वसामर्थ्यात् गृह्यते अनयैव कारिकया विचिरितिस्वामिनः प्रथमान्तस्य पाठः प्रत्युक्तः निजिविजी द्वौ रुधादौ ओविजी भवचलनयोरिति तुदादौ 12
विजिर् (अर्थः) पृथग्भावे
(विनक्ति विङ्क्तः विङ्क्ते ) इत्यादि रिचिवत् (विवेकी) संपृचादिना घिनुण् ( विवेकः, ) घञ्, "चजोः'' इति कुत्वमुभयत्र 5