| YouTube Channel

विजातीयः (vijAtIyaH)

 
शब्दकल्पद्रुमः
Sanskrit
विजातीयः, त्रि, (विभिन्नां जातिमर्हतीति ।विजाति + छः ।) विभिन्नधर्म्माक्रान्तः यथा, “प्रायश्चित्ताद्बिजातीयात् तादृक्पापविना-शनम्
”इति प्रायश्चित्ततत्त्वम्
(यथा साहित्यदर्पणे परिच्छेदे ।“एवं पददोषसजातीया वाक्ये दोषा उक्ताःसम्प्रति तद्बिजातीया उच्यन्ते
”) विशेष-जातिविशिष्टः यथा, --“प्रवाहो नादिमानेव विजात्येकशक्तिमान् ।तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः
”एष कार्य्यकारणप्रवाहो नादिमान् अनादिः ।विजातीयेषु तृणादिषु एकशक्तिमान् प्रवाहः ।अन्वयव्यतिरेकयोस्तत्त्वे नियतत्वे नियतात्व-निर्व्वाह्ये यत्नवता भाव्यं यत्नः करणीयः वैजात्य-मिति भावः वह्निसामान्यं प्रति विजाती-योष्णस्पर्शवत्तेज एव कारणम् इति हरि-दासीककुसुमाञ्जलिटीका