| YouTube Channel

विजयोत्सवः (vijayotsavaH)

 
Apte Hindi
Hindi
विजयोत्सवः
पुं*
विजया-उत्सवः -
दुर्गादेवी के सम्मान में उत्सव जो आश्विन शुक्ला दशमी के दिन मनाया जाता है
शब्दकल्पद्रुमः
Sanskrit
विजयोत्सवः,
पुं,
(विजयायामुत्सवः ।) आश्विन-शुक्लदशमीविहितभगवदुत्सवविशेषः यथा, “आश्विनस्य सिते पक्षे दशम्यां विजयोत्सवः ।कर्त्तव्यो वैष्णवैः सार्द्धं सर्व्वत्र विजयार्थिना
”अथ विजयोत्सवविधिः ।“रथमारोप्य देवेशं सर्व्वालङ्कारशोभितम् ।सासितूणधनुर्व्वाणपाणिं नक्तञ्चरान्तकम्
स्वलीलया जगत्त्रातुमाविर्भूतं रघूद्वहम् ।राजोपचारैः श्रीरामं शमीवृक्षतलं नयेत्
सीताकान्तं शमीयुक्तं भक्तानामभयङ्करम् ।अर्च्चयित्वा शमीवृक्षमर्च्चयेद्बिजयाप्तये
”तत्र मन्त्रः ।“शमी शमयते पापं शमी लोहितकण्टका ।धरित्र्यर्ज्जुनबाणानां रामस्य प्रियवादिनी
करिष्यमाणा या यात्रा यथाकालं सुखं मया ।तत्र निर्व्विघ्नकर्त्री त्वं भव श्रीरामपूजिता
”इति
“गृहीत्वा साक्षतामार्द्रां शमीमूलगतां मृदम् ।गीतवादित्रनिर्घोषैस्ततो देवं गृहं नयेत्
कैश्चिदृक्षैस्तत्र भाव्यं कैश्चित् भाव्यञ्च वानरैः ।कैश्चिद्रक्तमुखैर्भाव्यं कोशलेन्द्रस्य तुष्टये
निर्ज्जिता राक्षसा दैत्या वैरिणो जगतीतले ।रामराज्यं रामराज्यं रामराज्यमिति ब्रुवन्
आनीय स्थापयेद्देवं निजसिंहासने सुखम् ।ततो नीराज्य देवेशं प्रणमेद्दण्डवत् भुवि ।महाप्रसादवस्त्रादि धारयेत् वैष्णवैः सह
*
इति श्रीविष्णुधर्म्मोक्तानुसारेण व्यलेख्ययम्
विधिः श्रीरामविजयोत्सवस्योत्सवकृत् सताम्
सीता दृष्टेति हनुमद्वाक्यं श्रुत्वाकरोत् प्रभुः ।विजयं वानरैः सार्द्धं वासरेऽस्मिन् शमीतलात्
”इति श्रीहरिभक्तिविलासे १५ विलासः