| YouTube Channel

विच्छ (viccha)

 
Wilson
English
विच्छ r. 6th cl. (विच्छायति) To go or approach, (the form is
irr
.)
r. 10th cl. (विच्छयति)
1 To shine.
2 To speak.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
विच्छ्
मूलधातुः:
विच्छ
धात्वर्थः:
भाषायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
विच्छयति-ते
शब्दकल्पद्रुमः
Sanskrit
विच्छ, त्विषि इति कविकल्पद्रुमः (चुरा०-पर०-अक०-सेट् ।) क, विच्छयति त्विषिदीप्तौ इति दुर्गादासः
विच्छ, गतौ इति कविकल्पद्रुमः
(तुदा०-पर०-सक०-सेट् ।) विच्छायति विच्छायतेआयन्तत्वादुभयमिति वोपदेवः पक्षे विच्छति ।श, विच्छती विच्छन्ती इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
विच्छ दीप्तौ
चु०
उभ०
सक०
सेट् विच्छयति ते अविविच्छत्
विच्छ गतौ तु०
पर०
स्वार्थे आय, आयपक्षे उ०
सक०
सेट् ।विच्छायति विच्छायते विच्छति अविच्छायीत् अविच्छा-यिष्ट अविच्छीत्
कृदन्तरूपमाला
Sanskrit
1 {@“विच्छ भाषार्थः”@} 2 आस्वदीयः।
‘--भासार्थः’ इति क्षीरस्वामिशाकटायनहेमचन्द्रादयः।
‘णौ विच्छयति भाषार्थे गतौ विच्छायतीति शे।।’ 3 इति देवः।
विच्छकः-च्छिका, विविच्छयिषकः-षिका
विच्छयिता-त्री, विविच्छयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककुण्ठयति 4 वत् उह्यानि।
शतरि- 5 विच्छयन्।
प्रासङ्गिक्यः
01
=>
(१५९६)
02
=>
(१०-चुरादिः-१७७४। अक। सेट्। उभ।)
03
=>
(श्लो। ५६)
04
=>
(२१०)
05
=>
[[आ। ‘तांस्त्वं धूपय विच्छयन् इव त्वच्चीवनात् पोथयेत्।।’ धा। का। ३-४४।]]