| YouTube Channel

विचेताः (vicetAH)

 
शब्दकल्पद्रुमः
Sanskrit
विचेताः, [स्] त्रि, (विगतं विरुद्धं वा चेतोयस्य ।) विगतचित्तः (यथा, भागवते ।११ ।“एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।व्यनदत् सुमहाप्राणो येन लोका विचेतसः
”)विरुद्धचित्तः दुष्टचित्तः
तत्पर्य्यायः ।दुर्म्मनाः अन्तर्म्मनाः विमनाः इतिहेमचन्द्रः
(यथा, महाभारते ४९ १७ ।“ये चास्य सचिवा मन्दाः कर्णसौवलका-दयः ।ते तस्य भूयसो दोषान् वर्द्धयन्ति वितेचतः
*
विशिष्टं चेतो यस्मादिति विशिष्टज्ञानहेतु-भूतः यथा, ऋग्वेदे ८३ ।“तमित् पृणक्षि वसुना भवीयसासिन्धुमापो यथाभितो विचेतसः
”“विचेतसः विशिष्टज्ञानहेतुभूता आपो यथाअभितः सर्व्वासु दिक्षु सिन्धुं समुद्रं पूरयन्तितद्वत् ।” इति तद्भाष्ये सायणः
*
विशिष्टंचेतो यस्येति विशिष्टज्ञानः यथा, ऋग्-वेदे ४५ ।“श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः
”“हे अग्ने विचेतसो विशिष्टप्रज्ञाना देवाः ।”इति तद्भाष्ये सायणः
)