| YouTube Channel

विचित्रं (vicitraM)

 
शब्दकल्पद्रुमः
Sanskrit
विचित्रं,
क्ली,
(विशेषेण चित्रम् ।) कर्व्वुरवर्णः ।इति शब्दरत्नावली
तद्वति, त्रि (यथा, महाभारते ५४ १० ।“विचित्रमाल्याभरणैर्ब्बलैर्दृश्यैः स्वलङ्कृतैः
”)आश्चर्य्यम् यथा, --“विचित्रमिदमाख्यातं भगवन् भवता मम ।देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम्
”इति देवीमाहात्म्यम्
(यथा च, उपदेशशतके ३३ ।“दुहिता विदेहभर्त्तुर्द्दाशरथेर्भामिनी सीता ।वधमाप राक्षसीनां विधेर्व्विचित्रा गति-र्ब्बोध्या
”पुं, रौच्यमनुपुत्त्रः यथा, मार्कण्डेये ९४ ३१ ।“चित्रसेनो विचित्रश्च नयतिर्निर्भयो दृढः ।सुनेत्रः क्षत्त्रबुद्धिश्च सुव्रतश्चैव तत्सुताः
”अर्थालङ्कारविशेषः यथा, साहित्यदर्पणे ।१० ७२२ ।“विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् ।यथा, --प्रणमत्युन्नतिहेतोर्जीवनहेतोर्व्विमुञ्चति प्राणान् ।दुःखीयति सुखहेतोः को मूडः सेवकादन्यः
”)