| YouTube Channel

विच (vica)

 
Wilson
English
विच(औइर्)औ विचिर् r. 7th cl. (विनक्ति विंक्ते)
1 To differ, to be separate or distinct. To divide, to separate, especially in
judgment, to discriminate, to judge.
शब्दकल्पद्रुमः
Sanskrit
विच, इर् लि पृथक्त्वे इति कवि-कल्पद्रुमः
(अदा०-ह्वा०-रुधा०-च-उभ०-अक०-सकञ्च-अनिट् ।) इर्, अविचत् ।अवैक्षीत् लि, ञ, वेवेक्ति वेविक्ते मूर्खात्पण्डितः पृथक् स्यादित्यर्थः विज इति जान्तोयः एव चान्तोऽपि पठ्यते कस्यचिदनुरोधात्तेन निजां खेरेणुरित्यस्य वृत्तौ विजग्रहणे-नैवास्य ग्रहणात् खेर्गुणः ञ, विनक्तिविङ्क्ते विविनच्मि दिवः सुरान् इतिपृथक् करोमीत्यर्थः औ, वेक्ता इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
विच पृथक्करणे रु० जु० वा उ० अक० अनिट् विनक्ति वि-वेक्ति विङ्क्ते विविक्ते इरित् अविचत् अवैक्षीत्