| YouTube Channel

विघाता (vighAtA)

 
शब्दकल्पद्रुमः
Sanskrit
विघाता, [ऋ]
पुं,
(विदधातीति वि + धा +तृच् ।) ब्रह्मा इत्यमरः
(विष्णुः यथा, महाभारते १३ १४९ ६४ ।“अविज्ञाता सहसांशुर्विधाता कृतलक्षणः
”“विशेषेण शेषदिग्गजभू भूधरात् समस्तभूतानिच दघातीति विधाता ।” इति तत्र शाङ्कर-भाष्यम्
*
महेश्वरः यथा, महाभारते ।१३ १७ १०४ ।“उषङ्गुश्च विधाता मान्धाता भूतभावनः
”)कामदेवः इति मेदिनी ते, १६
मदिरा ।इति राजनिर्घण्टः
भृगुमुनिपुत्त्रः तस्यभार्य्या मेरुकन्या नियतिः तस्य पुत्त्रः प्राणः ।तस्य सुतः वेदशिराः कविश्च इति श्रीभाग-वतमतम्
*
विधातुर्विचित्रा गतिर्यथा, --कंस उवाच ।“तृणेन पर्व्वतं हन्तुं शक्तो धाता दवतः ।कीटेन सिंहशार्दूलं मशकेन गजं तथा
शिशुना महावीरं महान्तं क्षुद्रजन्तुभिः ।भूषिकेण मार्ज्जारं मण्डूकेन भुजङ्गमम्
एवं जन्येन जनकं भक्ष्येणैव भक्षकम् ।वह्रिना जलं नष्टं वह्निं शुष्कतृणेन
पीताः सप्त समुद्राश्च द्बिजेनैकेन जह्नना ।धातुर्गतिर्विचित्रा दुर्ज्ञेया भुवनत्रये
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजम्मखण्डे अध्यायः
अपि ।भलन्दन उवाच ।“सम्बन्धो हि विधिवशो मे साध्यो व्रजाधिप ।प्रजापतिर्योगकर्त्ता जन्मदाताहमेव
का कस्य पत्नी कन्या वा वरः को वा ससाधनः
कर्म्मानुरूपफलदः सर्व्वेषां कारणं विधिः ।भवितव्यं कृतं कर्म्म तदमोघं श्रुतौ श्रुतम्
अन्यथा निष्फलं सर्व्वमनीशस्योद्यमो यथा ।वृषभानुप्रिया धात्रा लिखिता चेत् सुता मम
पुरा भूतैव को वाहं केनान्येन निवार्य्यते
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अः
*
अन्यच्च ।“त्यागे दोषः कामुकीनां शापभाक् पापभाक्गृही ।ब्रह्मा जगद्बिधातापि विरक्तः कलत्रवान् ।त्यागे दोषस्तत् कदाचिन्नास्माकं त्यक्तयोषि-ताम्
*
अपरञ्च ।“स्वान्तर्दुःखेन दुःखार्त्तो यो यं शपति निश्चितम् ।तं शापं खण्डितुं शक्तो विधाता जगत्-प्रभुः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २० अः
*
असौ जगतां पतिर्यथा, --“द्वौ धाता विधाता पौराणौ जगतांपती ।द्वौ शास्तारौ त्रिलोकेऽस्मिन् धर्म्माधर्म्मौ प्रकी-र्त्तितौ
”इति वह्रिपुराणे गणभेदनामाध्यायः
(त्रि, मेधावी इति निघण्टुः १५
विहितकर्म्मानुष्ठाता यथा, मनुः ११ ३५ ।“विधाता शासिता वक्ता मेत्री ब्राह्मण उच्यते ।तस्मै नाकुशलं ब्रूयात् शुष्कां गिरमीरयेत्
”स्रष्टा सर्व्वसभर्थः यथा, रघुः ७० ।“तया हीनं विधातर्मां कथं पश्यन्न दूयसे ।सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमपादपम्
”जनयिता दाता यथा, कुमारे ५७ ।“स्वयं विधाता तपसः फलानांकेनापि कामेन तपश्चचार
”)