| YouTube Channel

विगर्हितः (vigarhitaH)

 
शब्दकल्पद्रुमः
Sanskrit
विगर्हितः, त्रि, (विशेषेण गर्हितः ।) निन्दितः ।(यथा, नैषधे १३१ ।“न केवलं प्राणिवधो वधो ममत्वदीक्षणाद्विश्वसितान्तरात्मनः ।विगर्हितं धर्म्मधनैर्निवर्हणंविशिष्य विश्वासजुषां द्विषामपि
”)निषिद्धः इति विपूर्व्वगर्हधातोः क्तप्रत्ययेननिष्पन्नः