| YouTube Channel

विक्रेयं (vikreyaM)

 
शब्दकल्पद्रुमः
Sanskrit
विक्रेयं, त्रि, (विक्रीयते इति वि + क्री + “अचोयत् ।” ९७ इति यत् ।) विक्रययोग्यद्रव्यम् ।तत्पपर्य्यायः पणितव्यम् पण्यम् इत्य-मरः
विक्रययोग्यायोग्यानि यथा, --“इदन्तु वृत्तिवैकल्यात्त्यजतो धर्म्मनैपुणम् ।विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्द्धनम्
सर्व्वान्रसानपोहेत कृतान्नञ्च तिलैः सह ।अश्मनो लवणञ्चैव पशवो ये मानुषाः
सर्व्वञ्च तान्तवं रक्तं शाणक्षौमाविकानि ।अपि चेत् स्युररक्तानि फलमूले तथौषधीः
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्व्वशः ।क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान्
अरण्यांश्च पशून् सर्व्वान् दंष्ट्रिणश्च वयांसि ।मद्यं नीलीञ्च लाक्षांश्च सर्व्वांश्चैकशफांस्तथा
काममुत्पाद्य कृष्यास्तु स्वयमेव कृषीवलः ।विक्रीणीत तिलान् शुद्धान् धर्म्मार्थमचिर-स्थितान्
”इति मानवे १० अध्यायः