विक्रीयामम्प्रदान (vikrIyAmampradAna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritविक्रीयामम्प्रदान विक्रीय न सम्प्रदानं क्रेत्रे यत्र ।अष्टादशविवादान्तर्गते विवादविशेषे तत्स्वरूपादिकंवीरमि० उक्तं यथा“अथ विक्रीयासम्प्रदानाख्यव्यवहारपदम् । तत्स्वरूप-माह नारदः “विक्रीय पण्यं मूल्येन क्रेतुर्यन्नप्रदीयते । विक्रीयासम्प्रदानं तद्विवादपदमुच्यते इति”तत्र विक्रेयद्रव्यस्य द्वैविध्यषड्विधत्वे क्रमेणाह स एव“लोकेऽस्मिन् द्विविधम्पण्यं जङ्गमं स्थावरं तथा । षड्-विधस्तस्य च बुधैर्दानादानविधिः स्पृतः । गणितन्तुलिमंमेयं क्रियया रूपतः श्रियेति” । दानं विक्रयः आ-दानं क्रयः । गणयित्वा यस्य क्रयः तद्गणितम् ।गणितं संख्येयं क्रमुकफलादिकम् एवं तुलिमादिकंतुलिमन्तुलाधृतं हेमचन्दनादिकम् । मेयं व्रीह्यादि-कम् क्रियया वाहनदोहनादिरूपया युक्तमिति शेषः ।रूपतः रूपेण युक्तं वस्तु पण्याङ्गनादि । श्रिया दीप्त्यायुक्तं पद्मरागादिकम् । यदा विक्रेता मूल्यं गृहीत्वायाचमानाय क्रेत्रे विक्रीतं वस्तु न ददाति तदा यतक-र्त्तव्यं तदाह स एव “विक्रीय पण्यं मल्येन क्रेतुर्यो नप्रयच्छति । स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफल-मिति” यो गृहीतमूल्योविक्रेता अजातानुशयायक्रेत्रे प्रार्थयमानाय नार्पयति तच्च पण्यं यदि स्याव-रात्मकं तदा क्षयेण सहितमसौ दाप्यः । यदा तु जङ्ग-मात्मकं तदा क्रियाफलेन सहितम् इत्यर्थः । विक्रया-नन्तरं जात उपभोगोऽत्र क्षयः क्रियाफलं दोह-नादिक्रियाकलं क्षीरादिकम् । इदञ्च क्रयकालापे-क्षया अर्पणकाले मूल्याधिक्ये वेदितव्यम् । मूल्यह्रासेत्वन्यथाभिधानात् । तथा च स एव “अर्थश्चेदपही-येत सोदयम्पण्यमावहेदिति” । अर्वाक् चेदपचीयेतेतिवल्पतरौ पाठः । अर्वाक् विक्रीतस्य क्रेत्रे समर्पणात्पूर्वं अपचीयेत हीनमूल्यं भवेत्सोदयम्पण्यमावहेत् ।विक्रयकाले यावन्मूल्यं गृहीतं तावता मूल्येनार्पण-समये मूल्यह्रासवशाद्यावदुपचयसहितं लभ्यते ताव-द्दद्यादित्यर्थः । यदा तु मूल्यसाम्यं तदा पण्योपचयरूपस्यासम्भवात् “निक्षेपं वृद्धिशेषञ्च क्रयं विक्रयमेवच । याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं शतमिति” वच-नोक्त वृद्धिसहितम्पण्यं दाप्यः । अतएव याज्ञ-वल्क्यः “गृहीत मूल्यं यः पण्यं क्रेतुर्नैव प्रय-च्छति । सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिना-गते” इति । गृहीतमूल्यम्पण्यं विक्रेता यदि प्रा-र्थयमानाय स्वदेशवणिजे क्रेत्रे न समर्पयति तच्चपण्यं यदि क्रयकाले बहुमूल्यं सत्कालान्तरे अल्पमू-ल्येनैव लभ्यते तदा सोदयं वृद्ध्या सहितं विक्रेताक्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्यस्वोदयोनास्ति किन्तु क्रयकाले यावता मूल्येन लभ्यं यावत्पण्य-मिति प्रतिपन्नं तावदेव तदा तत्पण्यमादाय त-स्मिन् देशे विक्रीतस्य यो लाभस्तेगोदयेन सहितंदापनीयः वचनत्रयस्यार्थः । चतुर्थस्य तु यो देशा-न्तरात् क्रयणार्थमागत्य क्रीणाति तस्मै देशान्तरे तत्पण्यविक्रये यो लाभस्तेन सहितं तत्पण्यं दापनीय इ-त्यर्थः । देशान्तरलाभसहितपण्यदानन्न केवलमाद्यंश-साम्य एव किन्तु मूल्यस्य वृद्धौ क्षयेऽपोत्याह नारदः“स्थायिनामेष नियमोदिग्लामं दिग्विचारिणामिति” ।स्थायिनां विक्रेतृदेशख्यायिनाम् एष नियमः ख्यावरस्यक्षयं दाप्य इत्यादिवचनोक्तो नियम इत्यर्थः । विष्णुर्वि-क्रेतुर्दण्डमप्याह “गृहीतमूल्यं यः पण्यं क्रतुर्नैवदद्यात्तत्तस्य सोदयं दाप्यो राज्ञा च पणशतं दण्ड्यः”इति । एतच्चानुशयरहिततृप्तविक्रेतृविषयमिति म-दनरत्ने । यस्तु विक्रीयानुशयवशान्नार्पयति यश्चक्रीत्वाऽनुशयवशान्न गृह्णाति तौ प्रत्याह कात्यायनः“क्रीत्वा प्राप्तान्न गृह्णीयाद्यो न दद्याददूषितम् । समूल्याद्दशभानन्तु दत्त्वा स्वन्द्रव्यमाप्नुयात्” । अप्राप्तेऽथक्रियाकाले कृते नैव प्रदापयेत् । एष धर्मो दशाहात्तुपरतोऽनुशयो नत्विति” । अदूषितं जलादिनेति शेषः ।दोह्यवाह्यादिपण्यस्य दोहनवाहनादिरूपः कालोऽल्प-क्रियाकालस्तस्मिन्नाप्ते सति अग्रहणेऽदाने वा कृतेसति न दशमभानं प्रदापयेत् किन्तु तमदत्त्वैव स्वीयंद्रव्यं प्राप्नुयादिति । एष धर्मो दशाहात्प्राग्वेदितव्यः तत ऊर्द्ध्वमनुशयो न कर्त्तव्यः । विक्रीयासम्प्र-यच्छती यद्विक्रीतं पण्यं विक्रेतुः पाश्वं स्थितं तस्य यदि-नाशः स्यात्तदा विक्रेतुरेव हानिरित्याह याज्ञवल्क्यः“राजदैवोपघातेन पण्ये दोषमुपागते । हानिर्वि-क्रेतुरेवासौ याचितस्याप्रयच्छतः” इति । अत्र याचित-स्येति विशेषणोपादानान् याचनाभावे न विक्रेतुर्हानि-रित्यर्थाद्गम्यते । नारदोऽपि “उपहग्येत वा पण्यंदह्येतापह्रियेत वा । विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्र-यच्छतः” इति । यथा याचितस्वाप्रयच्छतो विक्रोगृहानि-स्तथा दीयमानं पण्यमगृह्णतः क्नेतुरपीत्याह ल एव“दीयमानन्न गृह्णाति क्रीतम्पण्यञ्च यः क्रयो । सएवास्य भवेद्दोषी विक्रेतुर्योऽप्रयच्छतः” इति । अप्रय-च्छतः विक्रेतुर्या दाषः स एवास्य भवेदित्यन्ययः । क्रेतु-र्दोषाभिधानस्य फल पण्यस्य मूल्यं क्रेत्रे विक्रेत्रा नप्रत्यर्पणीयमिति । दीयमानन्न नृह्णातीति वदता दीय-वातग्रहणे न मूल्यहानिरिति दर्शितम् । क्रयान-न्तरं क्रेत्रा न याचितं विक्रेत्रा च न समर्पितं जात-श्चौराद्युपद्रवस्तत्र द्वयोः समा हानिः । क्रेतृविक्रेत्रो-रुभयोरपि याचनानर्पणशैथिल्येन लापराधत्वादित्युक्तंदेवलभट्टैः स्मृतिचन्द्रिकायाम् । याज्ञवल्क्योऽपिसानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेदिति”क्रेतृदोषः दायमानस्याग्रहणम् । यत्र पुनर्जातानुशयःक्रेता विक्रेत्रा दीयमानञ्च गृह्णाति तत्राप्याह ना-रदः “दीयमानन्न गृह्णाति क्रीत्वा पण्यं च यः क्रयी ।विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयादिति” । क्रयीजातानुशय इति शेषः । याज्ञवल्क्योऽपि “विक्रीत-मपि विक्रेयं पूर्वक्रेतर्य्यगृह्णतीति” । यस्त्वदुष्टं पण्यंदर्शयित्वा सदोषं विक्रीणीते यश्चान्यहस्ते विक्रीतंतत्क्रेत्रनुशयाभाव एवान्यत्र विक्रीणीते तयोः समानो-दण्ड इत्याह नारदः “निर्दोषं दर्शयित्वा तु सदोषंयः प्रयच्छति । स मूल्याद्द्विगुणं दाप्यो विनयं ताव-देव तु । तथान्यहस्ते विक्रीय योऽग्यस्मै तत्प्रयच्छति ।द्रव्यन्तद्द्विगुणं दाप्यो विनयं तावदेव त्विति” । याज्ञ-वल्क्योऽपि “अन्थहस्ते च विक्रीतं दुष्टं वाऽदुष्टवद्यदि । विक्रीणीते दमस्तस्य मूल्यात्तु द्विगुणो भवे-दिति” बुद्धिपूर्वविषयमेतत् । “ज्ञात्वा सदोषं यःपण्यं विक्रीणीते विचक्षणः । तदैव द्विगुणं दाप्यस्तत्समंविनयं तथेति” वृहस्पतिनोक्तत्वात् । अबुद्धिपूर्वकविक्रये तु क्रयपरावर्त्तनमेव । अन्यत्रापि विषयविशेषेपरावर्त्तनमाह वृहस्पतिः “मत्तोन्मत्तेन विक्रीतं ही-नमुल्यं भयेन वा । अस्वतन्त्रेण मूढेन त्याज्यन्तस्य पुन-र्भवेदिति” । एतत्सर्वं दत्तमूल्ये पण्ये द्रष्टव्यम् । अत-एव नारदः । “दत्तमूल्यस्य पण्यस्य विधिरेष प्रकी-र्त्तितः” इति । यत्र पुनर्मूल्यं न दत्तं तत्रापि सएवाह “अदत्तेऽन्यत्र समयान्न विक्रेतुरविक्रयः” इति ।अदत्तमूल्ये तु पण्ये वाङ्मात्रेण क्रये कृते न परावर्त्त-नीयमित्येवमादिसमयाभावे सति प्रवृत्तौ निवृत्तौ न क-णिद्दोष इत्यर्थः । यत्र पुनर्वाङ्मात्रक्रयपरिहारार्थं वि-क्रेतुर्हस्ते क्रेत्रा किञ्चिद्द्रव्यं दत्तं तत्र क्रेतृदोषवशेन क्रयासिद्दौ त्वाह व्यासः “सत्यङ्गारं च योदत्त्वा यथाकालं न दृश्यते । पण्यं भवेन्निसृष्टन्तद्दोय-मानमगृह्णतः” इति । निसृष्टं भवेत् उत्सृष्टं भवेदि-त्यर्थः । अत्र पण्यद्रव्यस्योत्सर्गः सत्यङ्कारद्रव्योत्सर्गे-ऽभिमतः । अन्यथा वाङ्मात्रक्रयकर्तृतुल्यत्वेन विक्रेतुःसत्यङ्कारद्रव्यग्राहकत्वकृतमन्यत्र विक्रयणाद्यपराधनिमि-त्तकं सत्यङ्क रद्रव्यस्य द्वैगुण्येन प्रतिदानं न स्यात् ।अत्रापि विक्रीतमविक्रेयनित्यनुसन्धेयम् । अस्मिञ्चेवविषये विक्रेतृदोषवशेन क्रयासिद्धौ त्वाह याज्ञबलक्यः“सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रतिदापयेदिति” सत्यङ्कारःसत्यापनं कृतस्य क्रयस्य सत्यताकरणमिति यावत् ।“क्लीवे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम्” इत्यमरकोषःभिधानात् । सत्यङ्क राय कृतं समार्पतं सत्यङ्कार-कृतं व्रयं रत्यं कर्त्तुं यद्विक्रेतृहस्ते कृतमित्यर्थः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
