| YouTube Channel

विक्रान्तं (vikrAntaM)

 
शब्दकल्पद्रुमः
Sanskrit
विक्रान्तं,
क्ली,
(वि + क्रम + क्तः ।) वैक्रान्त-मणिः इति राजनिर्घण्टः
(त्रिविक्रमाव-तारस्य विष्णोर्द्वितीयपादक्षेपेण अन्तरिक्षंविक्रान्तमिति ख्यातम् तथा वाजसनेय-संहितायाम् १० १९ ।“विष्णोर्विक्रमणमसि विष्णोर्विक्रान्तमसि ।विष्णोः क्रान्तमसि ।”“हे द्वितीयप्रक्रम त्वं विष्णोर्विक्रान्तं द्वितीय-पादप्रक्षेपेण जितमन्तरिक्षमसि ।” “इमे वैलोका विष्णोर्विक्रमणं विष्णोर्विक्रान्तं विष्णोःक्रान्तमिति श्रुतेः ।” इति तद्भाष्ये महीधरः
)