| YouTube Channel

विक्रमार्कः (vikramArkaH)

 
Apte Hindi
Hindi
विक्रमार्कः
पुं*
विक्रमः-अर्कः -
उज्जयिनी के एक प्रसिद्ध राजा का नाम
शब्दकल्पद्रुमः
Sanskrit
विक्रमार्कः,
पुं,
(विक्रमेण अर्क इव ।) विक्रमा-दित्यः इति केचित्
(अथ विक्रमार्कवर्णनंसन्दधाति ज्योतिर्व्विदाभरणसमाप्तौ श्रीकालि-दासः ।“वर्षे श्रुतिस्मृतिविचारविवेकरम्येश्रीभारते खधृतिसम्मित-१८० देशपीठे ।मत्तोऽधुनाकृतिरियं सति मालवेन्द्रेश्रीविक्रमार्कनृपराजवरे समासीत्
”प्रथमं नृपसभायां पण्डितवर्गं वर्णयति ।“शङ्कुः सुवाग् वररुचिर्म्मणिरंशुदत्तोजिष्णुस्त्रिलोचनहरी घटकर्पराख्यः ।अन्येऽपि सन्ति कवयोऽमरसिंहपूर्व्वायस्यैव विक्रमनृपस्य सभासदोऽमी
सत्यो वराहमिहिरः श्रुतसेननामाश्रीवादरायणमणित्थकुमारसिंहाः ।श्रीविक्रमार्कनृपसंसदि सन्ति चैतेश्रीकालतन्त्रकवयस्त्वपरे मदाद्याः
धन्वन्तरिक्षपणकामरसिंहशङ्कु-वेतालभट्टघटखर्परकालिदासाः ।ख्यातो वराहमिहिरो नृपतेः सभायांरत्नानि वै वररुचिर्नव विक्रमस्य
”अथ परिजनान् वर्णयति ।“अष्टौ यस्य शतानि मण्डलधराधीशाः सभायांसदास्युः संसत्परिणाहकोटिसुभटाः सत्पण्डिताःषोडश ।दैवज्ञा दश षण्मिताश्च भिषजो भट्टास्तथाढड्डिनोवेदज्ञा रसचन्द्रमा १६ विजयते श्रीविक्रमःसोऽधिभूः
”अथास्य सैन्यं वर्णयति ।“यस्याष्टादशयोजनानि कटके पादातिकोटि-त्रयम् ३०००००००वाहानामयुतायुतञ्च १०००००००० नवतेस्त्रिघ्ना-कृति-२४३०० र्हस्तिनाम् ।नौकालक्षचतुष्टयं ४००००० विजयिनो यस्यप्रयाणे भवेत्सोऽयं विक्रमभूपतिर्व्विजयते नान्यो धरित्त्री-तले
”अथास्य शाकप्रवृत्तिं दर्शयति ।“येनास्मिन् वसुधातले शकगणान् सर्व्वादिशः सङ्गरेहत्वा पञ्चनवप्रमान् ५५५५५५५५५ कलियुगेशाकपवृत्तिः कृता ।श्रीमद्बिक्रमभूभुजा प्रतिदिन मुक्तामणिस्वर्णगोसप्तीभाद्यपवर्ज्जनेन विहितो धर्म्मः सुवर्णा-ननः
”अथास्य दिग्विजयमाह ।“उद्दामद्रविडद्रुमैकपरशुर्लाटाटवीपावकोवल्गद्बङ्गभुजङ्गराजगरुडो गौडाब्धिकुम्भोद्भवः ।गर्ज्जद्गुर्ज्जरराजसिन्धुरहरिर्धारान्धकारार्य्यमाकाम्बोजाम्बुजचन्द्रमा विजयते श्रीविक्रमार्कोनृपः
”अथास्य प्रभुत्वादिगुणान् वर्णयति ।“येनाप्युग्रमहीधराग्रविषये दुर्ग्गाण्यसह्यान्यहोनीत्त्वा यानि नतीकृतास्तदधिपा दत्तानि तेषांपुनः ।इन्द्राम्भोध्यमरद्रुमस्मरसुरक्ष्माभृङ्गुणेनाञ्जसाश्रीमद्विक्रमभूभृताखिलजनाम्भोजेन्दुनामण्डले
”अस्य पुरीं वर्णयति ।“यद्राजधान्युज्जयिनी महापुरीसदा महाकालमहेशयोगिनी ।समाश्रितप्राण्यपवर्गदायिनीश्रीविक्रमार्कोऽवनिपो जयत्यपि
यो रूमदेशाधिपतिं शकेश्वरंजित्वा गृहीत्वोज्जयिनीं महाहवे ।आनीय सम्भ्राम्य सुमोच तन्त्वहोश्रीविक्रमार्कः समसह्यविक्रमः
तस्मिन् सदा विक्रममेदिनीशेविराजमाने समवन्तिकायाम् ।सर्व्वप्रजामण्डलसौख्यसम्प-द्बभूव सर्व्वत्र वेदकर्म्म
शङ्क्वादिपण्डितवराः कवयस्त्वनेकेज्योतिर्व्विदः समभवंश्च वराहपूर्व्वाः ।श्रीविक्रमार्कनृपसंसदि मान्यबुद्धि-स्तैरप्यहं नृपसखा किल कालिदासः
”इति ज्वोतिर्व्विदाभरणम्
)