| YouTube Channel

विकृतं (vikRtaM)

 
शब्दकल्पद्रुमः
Sanskrit
विकृतं, त्रि, (वि + कृ + क्तः ।) वीभत्सम् रोगि-तम् असंस्कृतम् इति मेदिनी ते, १५८
(अङ्गविहीनम् यथा, मनुः २४७ ।“बालाश्च प्रमीयन्ते विकृतं जायते
”अप्रकृतिस्थः यथा, महाभारते १११ १८ ।“अथर्य्यशृङ्गं विकृतं समीक्ष्यपुनः पुनः पीड्य कायमस्य ।अवेक्ष्यमाणा शनकैर्जगामकृत्वाग्निहोत्रस्य तदापदेशम्
*
मायावी यथा, रघुः १२ ३९ ।“लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम् ।शिवाघोरस्वनां पश्चात् बुबुधे विकृतेति ताम्
”)
विकृतं,
क्ली,
विकारः तस्य लक्षणम् यथा, --“ह्रीमानेर्षादिभिर्यत्र नोच्यते स्वं विवक्षितम् ।व्यज्यते चेष्टयैवेदं विकृतं तद्विदुर्बुधाः
”इत्युज्ज्वलनीलमणिः
प्रभवादिषष्टिसंवत्सरान्तर्गतचतुर्व्विंशवर्षम् ।यथा, भविष्यपुराणे ।भैरव उवाच ।“सर्व्वाः प्रजाः प्रपीड्यन्ते व्याधिः शोकश्चजायते ।शिरोवक्षोऽक्षिरोगाश्च पापाद्धि विकृते जनाः
”इति ज्योतिस्तत्त्वम्
(नायिकालङ्कारविशेषः यथा, साहित्य-दर्पणे १४६ ।“वक्तव्यकालेऽप्यवचो व्रीडया विकृतं मतम्
”)