| YouTube Channel

विकिरः (vikiraH)

 
Apte
English
विकिरः [vikirḥ], 1 A scattered portion or fallen bit.
One who tears or scatters, a bird
कङ्कोलीफलजग्धिमुग्धविकिर- व्याहारिणस्तद्भुवो भागाः
Māl.
6.19.
A well.
A tree.
A scattered portion of rice (offered to hostile beings in a sacrifiee)
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः
Ms.*
3. 245.
Water trickled through
Suśr.
Apte 1890
English
विकिरः 1 A scattered portion or fallen bit.
2 One who tears or scatters, a bird
कंकोलीफलजग्धिमुग्धविकिरव्याहारिणस्तद्भुवो भागाः Māl. 6. 19.
3 A well.
4 A tree.
Apte Hindi
Hindi
विकिरः
पुं*
- वि + कृ + अप्
बिखरा हुआ भाग या गिरा हुआ नन्हा टुकड़ा
विकिरः
पुं*
- -
जो फाड़ता या बखेरता है पक्षी
विकिरः
पुं*
- -
कूआँ
विकिरः
पुं*
- -
वृक्ष
विकिरः
पुं*
- वि+कृ+अच्
कुछ गौण पितरों को प्रसन्न करने के लिए बखेरा गया चावल
Wordnet
Sanskrit
Synonyms:
खगः, विहगः, पक्षी, पक्षिणी, विहङ्गः, विहङ्गमः, पतगः, पत्री, पतत्री, विहायाः, गरुत्मान्, नीडजः, नीडोद्भवः, द्विजः, अण्डजः, नगौकाः, पक्षवाहनः, शकुनिः, शकुनः, विकिरः, विष्किरः, वाजी, पतन्, शकुन्तः, नभसङ्गमः, पत्ररथः, विः, पित्सन्
noun
यस्य पक्षौ चञ्चुः विद्यते तथा यः अण्डकोषात् जायते।
"तडागे नैके चित्राः खगाः सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
विकिरः,
पुं,
(विकिरति मृत्तिकादीन् भोजनार्थ-मिति वि + कॄश विक्षेपे + इगुपधेति कः ।)पक्षी इत्यमरः
(अस्य पर्य्यायो यथा, --“पक्षी खगो विहङ्गश्च विहगश्च विहङ्गमः ।शकुनिर्विः पतत्त्री विष्किरो विकिरो-ऽण्डजः
”इति भावप्रकाशस्य पूर्व्वखण्डे द्वितीये भागे
)कूपः इति त्रिकाण्डशेषः
(विकीर्य्यते इति ।वि + कॄ + घञर्थे कः ।) पूजाकालीनविघ्नोत्-सारणार्थक्षेपणीयतण्डुलादिः यथा फडितिसप्त जप्तान् विकिरानादाय ।“अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।ये भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया
”इति विकिरेत्
यथा, --“लाजचन्दनसिद्धार्थभस्मदूर्व्वाकूशाक्षताः ।विकिरा इति सन्दिष्टाः सर्व्वविघ्नौघनाशकाः
”इति तन्त्रसारः
अग्निदग्धादीनां पिण्डम् यथा, मनुः २४५ ।“असंस्कृतप्रमीतानां योगिनां कुलयोषिताम् ।उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः
”अपि ।“पिण्डनिर्व्वापरहितं यत्तु श्राद्धं विधीयते ।स्वधावाचनलोपोऽत्र विकिरस्तु लुप्यते
”इति श्राद्धतत्त्वम्
(यथा मार्कण्डेये ३१ १२ ।“ये वा दग्धाः कुले बालाः क्रियायोग्याह्यसंस्कृताः ।विपन्नास्तेऽन्नविकिरसम्मार्ज्जनजलाशिनः
*
जलविशेषे, क्ली तथा चिन्तामणिधृतवच-नम् ।“नद्यादिनिकटे भूमिर्या भवेद्बालुकामयी ।उद्भाव्यते ततो यत्तु तज्जलं विकिरं विदुः
विकिरं शीतलं स्वच्छं निर्द्दोषं लघु स्मृतम् ।तुवरं स्वादु पित्तघ्नं मनाक् कफकरं स्मृतम्
”)