| YouTube Channel

विकस्वरः (vikasvaraH)

 
शब्दकल्पद्रुमः
Sanskrit
विकस्वरः, त्रि, (विकसतीति वि + कस गतौ +“स्थेशभासपिसकसो वरच् ।” १७५ ।इति वरच् ।) विकासशीलः तत्पर्य्यायः ।विकासी इत्यमरः
“विकसति कस गतौदन्त्यान्तः यायाय भासकसेति वरे विकस्वरः ।विकासः स्फुटने व्यक्ताविति दन्त्यान्ते धरणिः ।‘कुशेशयैरत्र जलाशयोषितामुदा रमन्ते कलभा विकस्वरैः ।प्रगीयते सिद्धगणैश्च योषितामुदा रमन्ते कलभा विकस्वरैः
’इति माघयमकेऽपि दन्त्यवत्त्वम् (४ ३३) कषवधे मूर्द्धन्यान्त इत्यस्य रूपमिति केचित् कशशब्दे इत्यस्य तालव्यान्तस्य रूपमिति केचित् ।”इति तट्टीकायां भरतः
(यथा, कथासरित्-सागरे १५ ।“एकस्याः सोत्सुका दृष्टिर्नृपालोकविकस्वरा ।श्रुतेः पार्श्वमपश्यन्त्यास्तदाख्यातुमिवाययौ
”)