| YouTube Channel

विकत्थनं (vikatthanaM)

 
शब्दकल्पद्रुमः
Sanskrit
विकत्थनं,
क्ली,
(विकत्थ्यते इति वि + कत्थ श्लाघा-याम् + भावे ल्युट् ।) मिथ्याश्लाघा यथा, --“श्लाघा प्रशंसार्थवादः सा तु मिथ्याविकत्थनम्
”इति हेमचन्द्रः
(यथा, भागवते १५ १९ ।“शय्यासनाटनविकत्थनभोजनादि-ष्वैकाद्बयस्य ऋतवानिति विप्रलब्धः
”विकत्थते आत्मानमिति वि + कत्थ + ल्युः ।आत्मश्लाघाकारिणि, त्रि यथा, महाभारते ।२ ७३ ३२ ।“असूयितारं द्बेष्टारं प्रवक्तारं विकत्थनम् ।भीमसेननियोगात्ते हन्ताहं कर्णमाहवे
*
स्त्री,
वि + कत्थ + णिच् + युच् टाप् आत्म-श्लाघा यथा, विख्यातविजयनाटके ।“सम्भवोक्तापि शक्तानां प्रशस्ता विकत्थना ।शरदीयघनध्वानैर्व्वाचोभिः किं भवादृशाम्
”)