| YouTube Channel

विकचः (vikacaH)

 
Apte Hindi
Hindi
विकचः
पुं*
- -
बौद्धसाधु
विकचः
पुं*
- -
केतु
शब्दकल्पद्रुमः
Sanskrit
विकचः,
पुं,
(विगतः कचो यस्य केशशून्यत्वात् ।यद्वा, विशिष्टः कचो यस्य प्रभूतकेशत्वात् ।)क्षपणः केतुः इति मेदिनी चे,
(यथा, बृहत्संहितायाम् ११ १९ ।“विकचा नाम गुरुसुताःसितैकताराः शिखिपरित्यक्ताः ।षष्टिः पञ्चभिरधिकास्निग्धा याम्याश्रिताः पापाः
”)
विकचः, त्रि, (विकचति विकशतीति वि + कच्+ अच् ।) विकसितः इत्यमरः
(यथा, माघे ११ १९ ।“विकचकमलगन्धैरन्धयन् भृङ्गमालाःसुरभितमकरन्दं मन्दमावाति वातः ।प्रमदमदनमाद्यद्यौवनोद्यामरामा-रमणरभसखेदस्वेदविच्छेददक्षः
*
विगतः कचो यस्य ।) केशशून्यः इति मेदिनी ।चे,
(यथा, महाभारते २५९ १२ ।“विभ्रच्चानियतं वेशमुन्मत्त इव पाण्डव ।विकचः परुषा वाचो व्याहरन् विविधामुनिः
”)