वाहुलः (vAhulaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritवा(बा)हुलः, कार्त्तिकमासः । इत्यमरः ॥
अथकार्त्तिकमाहात्म्यम् ।नारद उवाच ।“कार्त्तिकस्य तु माहात्म्यं मासस्य वक्तुमर्हसि ।पूर्व्वं कार्त्तिकमाहात्म्यं यथावत् वक्तुमर्हसि ॥
ब्रह्मोवाच ।साधु पृष्टं त्वया पुत्त्र लोकोद्धारणहेतवे ।कथयामि न सन्देहस्त्वत्समो नास्ति वैष्णवः ॥
एकतः सर्व्वतीर्यानि सर्व्वे यज्ञाः सदक्षिणाः ।कार्त्तिकस्य च मासस्य कोट्यंशं नापि बिभ्रति ॥
एकतः पुष्करे वासः कुरुक्षेत्रे हिमाचले ।एकतः कार्त्तिको वत्स ! सर्व्वपुण्याधिको मतः ॥
स्वर्णानि मेरुतुल्यानि सर्व्वदानानि चैकतः ।एकतः कार्त्तिको वत्स ! सर्व्वदा केशवप्रियः ॥
कृत्वा कोटिसहस्राणि पापानि सुबहून्यपि ।निमेषार्द्धेन सर्व्वाणि विलयं यान्ति कार्त्तिके ॥
यत्किञ्चित् कुरुते पुण्यं विष्णुमुद्दिश्य कार्त्तिके ।तदक्षयं भवेत् सर्व्वं सत्योक्तं तव नारद ! ॥
तस्य क्षयं न पश्यामि सत्यमुक्तं तवानघ ।सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ॥
तथात्मानं समादध्यात् यथा न स्यादितः पुनः ।दुष्प्राप्यं प्राप्य मानुष्यं कार्त्तिकोक्तं चरेन्न यः ॥
धर्म्मं धर्म्मभृतां श्रेष्ठ स मातृपितृघातकः ।कार्त्तिकं खलु वै मासं सर्व्वमासेषु चोत्तमम् ॥
पुण्यानां परमं पुण्यं पावनानाञ्च पावनम् ।अस्मिन् मासे त्रयस्त्रिंशद्देवाः सन्निहिता ऋषे ॥
अत्र स्नानानि दानानि भोजनानि व्रतानि च ।तिलधेनुहिरण्यानां रजतं भूमिवाससाम् ॥
गोप्रदानानि कुर्व्वन्ति सर्व्वभावेन नारद ! ।ब्राह्मणानाञ्च ये कन्यां दास्यन्ति विधिवन्नराः ॥
दानानां फलमेतेषां प्राप्नुयुस्ते विधानतः ।तानि दानानि गृह्णन्ति दत्तानि विधिवत् सुराः ॥
यत्किञ्चित् कार्त्तिके दत्तं तपश्चैव तथा कृतम् ।तदक्षयफलं प्रोक्तं विष्णुना लोककर्त्तृणा ॥
वृषाणां मोक्षणं चैव कार्त्तिके मासि यैः कृतम् ।अश्वपेधादिकं पुण्यं तैश्च प्राप्तं न संशयः ॥
तस्माद्यत्नेन विप्रेन्द्र कार्त्तिके मासि दीयते ।यत्किञ्चित् कार्त्तिके दत्तं विष्णुमुद्दिश्य मानवैः ॥
हुतं दत्तञ्च विप्रेन्द्र तपश्चैव तथा कृतम् ।तदक्षयं लभन्ते ते शस्यदानं विशेषतः ॥
यथा नदीनां विप्रेन्द्र शैलानाञ्चैव नारद ।उदधीनाञ्च विप्रर्षे क्षयो नैवोपपद्यते ॥
तद्वत् कार्त्तिकमासे तु यत्किञ्चिद्दीयते मुने ।न तस्यास्ति क्षयो विप्र पापं याति सहस्रधा ॥
तस्मात् सर्व्वप्रयत्नेन कर्म्मणा मनसा गिरा ।पापं समाचरेन्नैव कार्त्तिके विष्णुतत्परः ॥
ज्ञानाद्वा यदि वाज्ञानाद्दुष्कृतं येन यत्कृतम् ।तत्तस्य नश्यति क्षिप्रं वायुना पांशवो यथा ॥
संप्राप्तं कार्त्तिकं दृष्ट्वा परान्नं यस्तु वर्ज्जयेत् ।दिने दिने च कृच्छ्रस्य फलं प्राप्नोत्यसंशयम् ॥
प्रवृत्तानान्तु भक्षाणां कार्त्तिके नियमे कृते ।अवश्यं विष्णुरूपत्वं प्राप्यते मुक्तिदं शुभम् ॥
न कार्त्तिकसमो मासो न कृतेन समं युगम् ।न वेदसदृशं शास्त्रं न तीर्थं गङ्गया समम् ॥
न चान्नेन समं दानं न सुखं भार्य्यया समम् ।न कृषेस्तु समं वित्तं न लाभः सुरभीसमः ॥
न तपोऽनशनैस्तुल्यं न दमात् परमो जयः ।न च धर्म्मो दयातुल्यो न ज्योतिश्चक्षुषा समम् ॥
न तृप्ती रसनातुल्या न प्रीतिस्तु सुतं विना ।न कार्त्तिकसमो मासो वैष्णवानां प्रियः सदा ॥
अव्रतेन क्षपेद्यस्तु मासं दामोदरप्रियम् ।तिर्य्यग्योनिमवाप्नोति सर्व्वधर्म्मबहिष्कृतः ॥
दुर्ल्लभं वैष्णवं ज्ञानं दुर्ल्लभा वैष्णवी कथा ।दुर्ल्लभा वैष्णवी दीक्षा दुर्ल्लभो जागरस्तथा ॥
दुर्ल्लभं कपिलादानं दुर्ल्लभं जाह्नवीजलम् ।दुर्ल्लभो वैष्णवो विप्रो दुर्ल्लभं नीलमोक्षणम् ॥
दुर्ल्लभं पुष्करे दानं दुर्ल्लभाः कार्त्तिके तिलाः ।दुर्ल्लभो जागरो विष्णोः पक्षयोरुभयोरपि ॥
दुर्ल्लभा कार्त्तिके विप्र द्बादशी हरिबोधिनी ।दुर्ल्लभा मालतीपूजा दुर्ल्लभा तुलसी मुने ॥
दुर्ल्लभं कार्त्तिके स्नानं दुर्ल्लभं साधुवन्दनम् ।शालग्रामशिलापूजा दुर्ल्लभा मुनिपुङ्गव ॥
समुद्रगा नदी यत्र दुर्ल्लभा स्नानशालिनाम् ।कुलशीलवती कन्या दुर्ल्लभा दम्पती नृणाम् ॥
दुर्ल्लभा जननी लोके पिता चैव विशेषतः ।दुर्ल्लभं साधुसम्मानं दुर्ल्लभो धार्म्मिकः सुतः ॥
दुर्ल्लभैकादशी लोके दशमीसङ्गवर्ज्जिता ।पक्षद्वयं व्रतं वत्म अयने दक्षिणोत्तरे ॥
दुर्ल्लभं वैष्णवे दानं माघस्नानं नदीजले ।ज्यैष्ठाषाढे तु पानीयमिन्धनं पौषमाघयोः ॥
ब्राह्मणं दुर्ल्लभं विप्र दुर्ल्लभं तीर्थसेवनम् ॥
न्यायेनोपार्ज्जितं वित्तं दुर्ल्लभं कुलवर्द्धनम् ।दुर्ल्लभं वत्स द्रव्याणां पात्रे यत् प्रतिपादितम् ॥
पात्राणामपि तत्पात्रं सदाचारक्रियान्वितम् ।संप्राप्य कार्त्तिकं मासं विमुखा ये जनार्द्दने ।तेषां यमपुरे वासः पितृभिः सह नारद ! ॥
”इति पाद्मोत्तरखण्डे कार्त्तिकमाहात्म्ये ११४ अः ॥
ब्रह्मोवाच ।“कार्त्तिकस्य तु माहात्म्यं पुनरेव शृणुष्व मे ।यत् श्रुत्वा मुनिशार्द्दूल ! सर्व्वान् कामानवा-प्स्यसि ॥
व्रतानामिह सर्व्वेषामेकजन्मानुगं फलम् ।कर्त्तुर्विष्णुव्रतस्योक्तं शतजन्मानुगं फलम् ॥
आश्विनस्य सिते पक्षे एकादश्यां द्बिजोत्तम ! ।वैष्णवैर्वैष्णवं धर्म्मं प्रारम्भोऽस्य विधीयते ॥
यावत् कार्त्तिकशुक्लस्य पौर्णमासी तिथिर्भवेत् ।तावदस्य व्रतस्योक्तं सम्यगाचरणं बुधैः ॥
अन्यथा तु कृतं विप्र व्रतमेतत् सुदुर्ल्लभम् ।कार्य्यं सद्भिः प्रयत्नेन कार्त्तिके तुं विशेषतः ॥
त्रिंशद्दिनानि पुण्यानि विप्रप्रीतिकराणि वै ।कार्त्तिकस्य व्रतं विप्र ! श्रीविष्णुप्रीतिकारणम् ॥
तदर्द्धं भीष्मस्य व्रतं मुने तुष्टिकरं परम् ।पुण्यं पञ्चदिनं प्रोक्तं दत्तं तस्मै च विष्णुना ॥
नरो वा यदि वा नारी कुरुते वैष्णवं व्रतम् ।दिने दिनेऽसङ्ख्यफलं भवेत्तस्यैव कार्त्तिके ॥
अतस्त्वं विधिवत् पुत्त्र ! वैष्णवं व्रतमुत्तमम् ।श्रीदामोदरतुष्ट्यर्थं प्रकुरुष्व समाहितः ॥
ऊर्ज्जे मासि मुनिश्रेष्ठ प्रातःकाले तथामले ।गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि ॥
”इति पाद्मे उत्तरखण्डे ११५ अध्यायः ॥
* ॥
ब्रह्मोवाच ।“पुराणश्रवणं यत्र कुर्व्वन्ति द्विजसत्तम ।तेषां करस्थिता मुक्तिर्विद्यते नात्र संशयः ॥
कार्त्तिके मासि यो भक्त्या कुर्य्याद्ब्राह्मणभोज-नम् ।प्रत्यहं विष्णुतृप्त्यर्थं स याति भवनं हरेः ॥
कार्त्तिके मासि यः कुर्य्यात् तिलतैलेन दीपकम् ।अहोरात्रान् मुनिश्रेष्ठ स याति परमं पदम् ॥
कार्त्तिके मासि यो दद्यात् पादत्राणं द्विजन्मने ।दद्याद्बस्त्रान्वितं वत्स यमं नैव स पश्यति ॥
यज्ञोपवीतं यो दद्यात् भूमिं वै ब्राह्मणाय तु ।स याति ब्रह्मसदनं पुनरावृत्तिवर्जितम् ॥
ताम्बूलञ्चैव यो दद्यात् सपूगं विधिवद्द्विज ।गन्धर्व्वलोकमाप्नोति भुक्त्वा भोगान् मनोरमान् ॥
श्रीचन्दनञ्च यो दद्यात् देवपूजार्थमादरात् ।विप्राय वेदविदुषे पुरन्दरपुरं व्रजेत् ॥
नारिकेलफलं वत्स सवस्त्रञ्च सदक्षिणम् ।यो दद्याद्वेदविदुषे स शश्वत् पुत्त्रवान् भवेत् ॥
”इति पाद्मे उत्तरखण्डे ११६ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
