वास्तु (vAstu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishवास्तु [vāstu], , [वस्-तुण् 1.77]
The site of a house, building ground, site.
A house, an abode, a dwelling-place
रवेरविषये वास्तु किं न दीपः प्रकाशयेत् Subhāṣ.
A chamber. -कर्मन् house-building, architecture
वास्तुकर्मानिवेशम् 1.3.16. -कालः the time suited for building a house. -ज्ञानम् architecture. -देवता, -पालः the tutelary deity of a house.-यागः a sacrifice performed on the occasion of laying the foundation of a house. -विद्या architecture. -विधानम् house-building. -शमनम्, -संशमनम्, -शान्तिः a religious rite performed on the occasion of laying the foundation of a new house, particularly on the occasion of entering it. -संपादनम् the preparation of a house
3.225. -स्थापनम् the erection of a house.
वास्तु [vāstu] स्तू [stū] कम् [kam], (स्तू) कम् Chenopodium Album (Mar. चाकवत).
Apte 1890
Englishवास्तु m., n. [वस्-तुण् Uṇ. 1. 77] 1 The site of a house, buildingground, site.
2 A house, an abode, a dwelling-place
रवेरविषये वास्तु किं न दीपः प्रकाशयेत् Subhāṣ.
Ms. 3. 18.
Comp.
यागः a sacrifice performed on the occasion of laying the foundation of a house.
संशमनं,
शांतिः f. a religious rite performed on the occasion of laying the foundation of a new house, particularly on the occasion of entering it.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishवास्तु वास्तु, उस्, उ, m. n. (fr. rt. 6. वस्
see
Uṇādi-s. 1. 77), the site or foundation of a house,
ground suitable for building a house, a building-place,
building-ground, site, ground [cf. पुर-व्°]
a house,
habitation, abode, region
(उ), n. a kind of vegetable
(= वास्तुक).
—वास्तु-तत्त्व, अम्, n., N. of a part of
the Smṛti-tattva.
—वास्तु-प्रदीप, N. of a work.
—वास्तु-याग, अस्, m. a sacrificial rite observed on
measuring the ground and laying the foundation of
a house.
—वास्तु-याग-तत्त्व, अम्, n., N. of a part
of the Smṛti-tattva (giving the rules for the above
rite).
—वास्तु-शास्त्र, अम्, n., N. of a work.
—वास्तु-
संशमन or वास्तु-संशमनीय, अम्, n. a cere-
mony performed on laying the foundation or setting
out the ground for a new house, a sacrifice performed
on preparing a foundation or on entering a new man-
sion.
—वास्तु-ह, अम्, n. in Aitareya-Br. V. 14. in-
terpreted to mean ‘what is left on the sacred spot.’
—वास्तोष्-पति, इस्, m. ‘lord of the Vāstu, ’ i. e.
‘protector of the foundation of a house, ’ or generally
‘house-protector, ’ N. of one of the more recent deities
of the Ṛg-veda (regarded as presiding over the founda-
tion of a house, and addressed in VII. 54. and VII. 55)
an epithet of Indra, (also written वास्तोस्-पति।)
Macdonell
Englishवास्तु vā́s-tu, (only P.), [√ 3. vas] dwelling-place, 🞄homestead, house
apartment (rare): 🞄-karman, building of a house
-jñāna, 🞄n. knowledge of building, architecture
-parīkṣā, examination of the building site
🞄-pāla, tutelary genius of the house
-puruṣa, genius regarded as prototype of 🞄the house
-vidhāna, building of a house
🞄-saṃpādana, preparation of a site
-sthāpana, erection of a house
-ha, left remaining 🞄on the spot
(?) remainder.
Benfey
EnglishApte Hindi
Hindiवास्तु
- वस् + तुण्
"घर बनाने की जगह, भवनभूखण्ड, जगह"
वास्तु
- -
"घर, आवास, निवास भूमि"
वास्तु
- वस्+तुण्
भवन बनाने के निमित्त नियत भूमिखण्ड
वास्तु
- वस्+तुण्
आवास
वास्तु
- वस्+तुण्
सभाभवन
L R Vaidya
EnglishWordnet
Sanskrit निवासः, वसतिः, वासः, वासस्थानम्, निवसतिः, निवासस्थानम्, निवासभूयम्, गृहम्, आवासः, अधिवासः, समावासः, आवसथः, वास्तुः, वास्तु, स्थानम्, अवस्थानम्, प्रतिष्ठा, आयतनम्, निकेतनम्, आलयः, निलयः, निलयिता, क्षिः
तत् स्थानं यत्र पशवः जनाः वा वसन्ति।
"व्याघ्रस्य निवासः वने अस्ति।"
Sanskrit Tibetan
Tibetankhyim pa
१) कुलु २) गृहपति ३) गृहस्थ ४) गृहिन् ५) वास्तु
khyim par gnas pa
१) गृहस्थ २) वास्तु
khyim gzhi
वास्तु
अभिधानचिन्तामणिः
Sanskritगेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥
मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।
आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥
धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।
ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥
धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
गेहभू (स्त्री), वास्तु (पुंक्ली), गेह (पुंक्ली), गृह (पुंक्ली), वेश्मन् (क्ली), निकेतन (क्ली), मन्दिर (स्त्रीक्ली), सदन (क्ली), सद्मन् (क्ली), निकाय्य (पुं), भवन (पुंक्ली), कुट (पुं), आलय (पुं), निलय (पुं), शाला (स्त्री), सभा (स्त्री), उदवसित (क्ली), कुल (क्ली), धिष्ण्य (क्ली), आवसथ (क्ली), स्थान (क्ली), पस्त्य (क्ली), संंस्त्याय (पुं), आश्रय (पुं), ओकस् (क्ली), निवास (पुं), आवास (पुं), वसति (स्त्री), शरण (क्ली), क्षय (पुं), धामन् (क्ली), अगार (क्ली), निशान्त (क्ली), कुट्टिम (क्ली), बद्धभू (स्त्री)
अभिधानरत्नमाला
Sanskritगृहभूमि
गृहभूमि, वास्तु
गृहभूमिस्तु वास्तुः स्याद्वाट आवेष्टको वृतिः ।
verse 2.1.1.290
page 0035
आवास
आवास, आवसथ, गृह, भवन, स्थान, निशान्त, कुल, संस्त्याय, निलय, निकाय्य, उटज, गेह, कुट, मन्दिर, धिष्ण्य, धामन्, निकेतन, सदन, पस्त्य, वास्तु, क्षय, शाला, वेश्मन्, निवेशन, उदवसित, सद्मन्, ओकस्, शरण, अगार, निवसन, आलय
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,
संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।
धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयः
शाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शरणमगारं निवसनमालय एकार्थवाचकाः शब्दाः ।
verse 2.1.1.291
page 0035
Tamil
Tamilவாஸ்து : வீடு, பூமி, மனை, திடல், இடம், வசிக்கும் இடம்.
Mahabharata
EnglishVāstu (Vastrā, B.), a river. § 574 (Jāmbukh.): VI, 9, 333.
शब्दकल्पद्रुमः
Sanskritवास्तु, क्ली (वसन्ति प्राणिनो यत्र । वस निवासे+ “वसेरगारे णिच्च ।” उणा० १ । ७० । इतितुण् । स च णित् ।) गृहकरणयोग्यभूमिः । तत्-पर्य्यायः । वेश्मभूः २ । इत्यमरः ॥
पोतः ३ वाटी४ । इति जटाधरः ॥
वाटिका ५ गृहपोतकः६ । इति शब्दरत्नावली ॥
वास्तुकरणप्रमा-णादिर्यथा, --श्रीहरिरुवाच ।“वास्तु संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् ।ईशानकोणादारभ्य ह्येकाशीतिपदे यजेत् ॥
ईशाने च शिरःपादौ नैरृतेऽग्न्यनिले करौ ।आवासवासवेश्मादौ पुरे ग्रामे बणिक्पथे ॥
प्रासादारामदुर्गेषु देवालयमठेषु च ।द्वात्रिंशत्तु सुरान् वाह्ये तदन्तश्च त्रयोदश ॥
ईशश्चैवाथ पर्ज्जन्यो जयन्तः कुलिशायुधः ।सूर्य्यः सत्यो भृशश्चैव आकाशो वायुरेव च ॥
पूषा च वितथश्चैव गृहक्षेत्रयमावुभौ ।गन्धर्व्वो भृङ्गराजश्च मृगः पितृगणस्तथा ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो गणाधिपः ।असुरः शेषपापौ च रोगोऽहिर्मुख्य एव च ॥
भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा ।बहिर्द्बात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥
ईशानादिचतुष्कोणसंस्थितान् पूजयेद्बुधः ।आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥
मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगान् ।देवानेकोत्तरानेतान् पूर्व्वादौ नामतः शृणु ॥
अर्य्यमा सविता चैव विवस्वान् विबुधाधिपः ।मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥
अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः ।ईशानकोणादारभ्य दुर्ज्ञेयो वंश उच्यते ॥
आग्नेयकोणादारभ्य वंशो भवति दुर्द्धरः ।अदितिं हिमवन्तञ्च जयन्तञ्च इदं त्रयम् ॥
नादिका कारिका नाम शक्राद्गन्धर्व्वगा पुनः ।वास्तुदेवान् पूजयित्वा गृहप्रासादकृद्भवेत् ॥
सुरेभ्यः पुरतः कार्य्यं दिश्याग्नेय्यां महानसम् ।रूपनिर्गमणे येन पूर्व्वतः सत्रमण्डपम् ॥
गन्धपुष्पगृहं कार्य्यमैशान्यां पट्टसंयुतम् ।भाण्डागारञ्च कौवेर्य्यां गोष्ठागारञ्च वायवे ॥
उदगाश्रयञ्च वारुण्यां वातायनसमन्वितम् ।समित्कुशेन्धनस्थानमायुधानाञ्च नैरृते ॥
अभ्यागतालयं रम्यं शय्यासनसपादुकाम् ।तोयाग्निदीपसद्भृत्यैर्युक्तं दक्षिणतो भवेत् ॥
गृहान्तराणि सर्व्वाणि सजलैः कदलीगृहैः ।पञ्चवर्णैश्च कुसुमैः शोभितानि प्रकल्पयेत् ॥
प्राकारं तद्बहिर्दद्यात् पञ्चहस्तं प्रमाणतः ।एवं विष्ण्वाश्रमं कुर्य्याद्वनैश्चोपवनैर्युतम् ॥
चतुःषष्टिपदो वास्तुः प्रासादादौ सुपूजितः ।मध्ये चतुष्पदो ब्रह्मा द्विपदास्त्वर्य्यमादयः ॥
कर्णे चैवाथ पक्ष्याद्यास्तथा देवाः प्रकोर्त्तिताः ।तेभ्योऽप्युभयतः सार्द्ध अन्येऽपि द्विपदाः सुराः ॥
चतुःषष्टिपदे देवा इत्येवं परिकीर्त्तिताः ।चरकी च विदारी च पूतना पापराक्षसो ॥
ईशानाद्यास्तथा बाह्ये देवाद्या हेतुकादयः ।हेतुकस्त्रिपुरान्तश्च अग्निर्वेतालको यमः ॥
अग्निजिह्वः कालकस्तु करालो ह्येकपादकः ।ईशान्यां भीमरूपस्तु पाताले प्रेतनायकः ॥
आकाशे गन्धमाली स्यात् क्षेत्रपालांस्तथायजेत् ।विस्ताराभिहतं दीर्घं राशिद्वारन्तु कारयेत् ॥
वसुभिर्भागशुद्धिञ्च शेषाङ्कादायमादिशेत् ।पुनर्गुणितमष्टाभिरृक्षभागन्तु भाजयेत् ॥
यच्छेषं तद्भवेदृक्षं भागैर्हृत्य व्ययं भवेत् ।ऋक्ष चतुर्गुणं कृत्वा नवभिर्भागहारितम् ॥
शेषमंशं विजानीयात् देवलस्य मतं यथा ।अष्टाभिर्गुणितं पिण्डं षष्टिभिर्भागहारितम् ॥
यच्छेषन्तु भवेज्जीवं मरणं भूतहारितम् ।वास्तुक्रोडे गृहं कुर्य्यात् न पृष्ठे मानवः सदा ॥
वामपार्श्वेन स्वपिति नात्र कार्य्या विचारणा ।सिंहकन्यातुलायाञ्च द्वारं शुद्धेदथोत्तरम् ॥
एवञ्च वृश्चिकादौ स्यात् पूर्व्वदक्षिणपश्चैमम् ।द्बारं दीर्घार्द्धविस्तारं द्बाराण्यष्टौ स्मृतानि च ॥
सुताल्पप्रैष्यनीचत्वं सुयानं सूत्रभूषणम् ।पुत्त्रहीनन्तु रौद्रेण वीर्य्यघ्नं दक्षिणे तथा ॥
बद्धोऽवन्धश्चायुर्वृद्धिः पुत्त्रलाभसुतृप्तिदे ।धनदं नृपपीडादमर्थघ्नं रोगदं जले ॥
नृपभीतिर्मृतापत्या अनपत्यञ्च वैरिदम् ।अर्थदं वार्थहान्येव दोषदं पुत्त्रमृत्युदम् ॥
द्वाराण्युत्तरसंज्ञानि पूर्व्वद्वाराणि वच्म्यहम् ।अग्निभीतिर्बहुकन्या धनसम्मानकोपदम् ॥
राजघ्नं कोपदं पूर्व्वे फलतो द्बारमीरितम् ।ईशानादौ भवेत् पूर्व्वे आग्नेयादौ तु दक्षिणे ॥
नैरृत्यादौ पश्चिमे स्यात् वायव्यादौ तु चोत्तरे ।अष्टभागे कृते भागे द्वाराणाञ्च फलाफलम् ॥
अश्वत्थप्लक्षन्यग्रोधाः पूर्व्वादौ स्यादुडुम्बरः ।गृहस्य शोभनः प्रोक्त ईशाने चैव शाल्मलिः ॥
पूजितो विघ्नहारी स्यात् प्रासादस्य गृहस्यच ॥
”इत्यादि गारुडे वास्तुमानलक्षणं ४६ अध्यायः ॥
प्रासादलक्षणन्तु प्रासादशब्दे द्रष्टव्यम् ॥
* ॥
अपि च ।ऋषय ऊचुः ।“प्रासादभवनादीनां निवेशं विस्तरान्नृप ।कुर्य्यात् केन विधानेन कश्च वास्तुरुदाहृतः ॥
सूत उवाच ।भृगुरत्रिर्व्वशिष्ठश्च विश्वकर्म्मा यमस्तथा ।नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ॥
ब्रह्मा कुमारो नन्दीशः शौनको गर्ग एव च ।वासुदेवोऽनिरुद्धश्च तथा शुक्रबृहस्पती ॥
अष्टादशैते विख्याता वास्तुशास्त्रोपदेशकाः ।संक्षेपेणोपदिष्टं यन्मनवे मत्स्यरूपिणा ॥
तदिदानीं प्रवक्ष्यामि वास्तुशास्त्रमनुत्तमम् ।पुरान्धकवधे घोरे घोररूपस्य शूलिनः ॥
ललाटस्वेदसलिलमपतद्भुवि भीषणम् ।करालवदनं तस्मात् समुद्भूतं समुल्वणम् ॥
ग्रसमानमिवाकाशं सप्तद्वीपां वसुन्धराम् ।ततोऽन्धकानां रुधिरमपिबत् पतितं क्षितौ ॥
तेन तत्समरे सर्व्वं पतितं यन्महीतले ।तथापि तृप्तिमगमत्तद्भूतं न तदा यदा ॥
तदा शिवस्य पुरतस्तपश्चक्रे सुदारुणम् ।क्षुधाविष्टन्तु तद्भूतमाहर्त्तु जगतां त्रयम् ॥
ततः कालेन सन्तुष्टो भैरवस्तस्य चादरात् ।वरं वृणीष्व भद्रं ते यदभीष्टं तवानघ ॥
तमुवाच ततो भूतं त्रैलोक्यग्रसनक्षमम् ।भवामि देवदेवेश तथेत्युक्तञ्च शूलिना ॥
ततस्तत् त्रिदिव सर्व्वं भूमण्डलमशेषतः ।स्वदेहेनान्तरीयञ्च बन्धानं प्रापतद्भुवि ॥
भीतभीतैस्ततो देवैर्ब्रह्मणा वाथ शूलिना ।दानवासुररक्षोभिरवष्टब्धं समन्ततः ॥
येन यत्रैव चाक्रान्तं स तत्रैवाभवत् पुनः ।निवासात् सर्व्वदेवानां वास्तुरित्यभिधीयते ॥
अवष्टब्धेन तेनापि विज्ञप्ताः सर्व्वदेवताः ।प्रसीदध्वं सुराः सर्व्वे युष्माभिर्निश्चलीकृतः ॥
स्थास्यामि किं यदाहारमवष्टब्धमधीमुखम् ।ततो ब्रह्मादिभिः प्रोक्तं वास्तुमध्ये तु यो वलिः ॥
आहारो वैश्वदेवान्ते न्यूनमस्मिन् भविष्यति ।वास्तूपशमनो यज्ञस्तवाहारो भविष्यति ॥
एवमुक्तस्ततो हृष्टः स वास्तुरभवत्तदां ।वास्तुयज्ञः स्मृतस्तस्मात् ततः प्रभृति शान्तये ॥
”इति मात्स्ये वास्तुभूतोद्भवो नाम २२६अध्यायः ॥
* ॥
सूत उवाच ।“अथातः संप्रवक्ष्यामि गृहकालविनिर्णयम् ।यथाकालं शुभं ज्ञात्वा सदा भवनमारभेत् ॥
चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः ।वैशाखे धनरत्नानि ज्यैष्ठे मृत्युं तथैव च ॥
आषाढे भृत्यरत्नानि पशुवर्ज्जमवाप्नुयात् ।श्रावण भृत्यलाभञ्च हानिं भाद्रपदे तथा ॥
पत्नीनाशोऽश्वयुजे विन्द्यात् कार्त्तिके धन-धान्यकम् ।मार्गशीर्षे तथा भक्तं पौषे तस्करतो भयम् ॥
लाभञ्च बहुशो विन्द्यादग्निं माघे विनिर्द्दिशेत् ।फाल्गुने काञ्चनं पुत्त्रानिति कालबलं स्मृतम् ॥
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् ।स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥
आदित्यभौमवर्ज्जन्तु सर्व्वे वाराः शुभावहाः ।वज्रव्याघातशूलेषु व्यतीपातातिगण्डयोः ॥
विष्कम्भगण्डपरिघवर्ज्जं योगेषु कारयेत् ।श्वेते मैत्रेय माहेन्द्रे गान्धर्व्वेऽभिजिद्रोहिणे ।तथा वैराजसावित्रे मुहूर्त्ते गृहमारभेत् ॥
चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् ।स्तम्भोच्छ्रायादि कर्हव्यमन्यत्र परिवर्ज्जयेत् ॥
प्रासादेष्वेवमेव स्यात् कूपवापीषु चैव हि ।पूर्व्वं भूमिं परीक्षेत पश्चाद्वास्तुं प्रकल्पयेत् ॥
श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्व्वशः ।विप्रादेः शस्यते भूमिरतः कार्य्यं परीक्षणम् ॥
विप्राणां मधुरास्वादा कषाया क्षत्त्रियस्य च ।कषायकटुका तद्वद्वै श्यशूद्रेषु शस्यते ॥
रत्निमात्रे तु वै गर्त्तेष्वनुलिप्ते तु सर्व्वतः ।घृतमामशरावस्थं कृत्वा वर्त्तिचतुष्टयम् ।ज्वालयेत् भूपरीक्षार्थं पूर्व्वं तत् सर्व्वदिङ्मुखम् ॥
दीप्तां पूर्व्वादि गृह्णीयाद्वर्णानामनुपूर्व्वशः ।वास्तुः सामूहिको नाम दीप्यते सर्व्वतस्तु यः ॥
शुभदः सर्व्ववर्णानां प्रासादेषु गृहेषु च ।रत्निमात्रमधो गर्त्तं परीक्ष्यं खातपूरणे ॥
अधिके श्रेयमाप्नोति न्यूने हानिः समे समम् ।हलकृष्टेऽथवा देशे शर्व्वबीजानि वापयेत् ॥
त्रिपञ्चसप्तमात्रेण यत्र रोहन्मि तान्यपि ।ज्येष्ठोत्तमा कनिष्ठा भूर्वर्ज्जनीयतरा मता ॥
पञ्चगव्योषधिजलैः परीक्षित्वा च सेचयेत् ॥
एकाशीतिपदं कृत्वा रेखाभिः कनकेन तु ।पश्चात् पिष्टेन चालिप्येत् सूत्रेणालोड्य सर्व्वतः ॥
दश पूर्व्वायता रेखा दश चैवोत्तरायताः ।सर्व्वा वास्तुविभागेषु विज्ञेया नवका नव ॥
एकाशीतिपदं कृत्वा वास्तुवित् सर्व्ववास्तुषु ।पदस्थान् पूजयेद्देवांस्त्रिंशत् पञ्चदशैव तु ॥
द्बात्रिंशद्बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश ।नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोधत ॥
ईशानकोणादिषु तान् पूजयेद्धविषा नरः ।शिखी चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ॥
सूर्य्यसत्यौ भृशश्चैव आकाशो वायुरेव च ।पूषा च वितथश्चैव गृहक्षतयमावुभौ ॥
गन्धर्व्वो भृङ्गराजश्च मृगः पितृगणस्तथा ।दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ॥
असुरः शेषपापौ च रोगोऽहिर्मुख्य एव च ।भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा ।बहिर्द्बात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥
ईशानादिचतुष्कोणे संस्थितान् पूजयेद्यथा ।आपश्चैवाथ सावित्रो जयो भद्रस्तथैव च ॥
मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगान् ।साध्या नैकान्तरान् विद्यात् पूर्व्वाद्यान् नामतःशृणु ॥
अर्य्यमा सविता चैव विवस्वान् विबुधाधपः ।मिथोऽथ राजयक्ष्मा च तथा पृथ्वीधरः स्मृतः ॥
अष्टमस्त्वापवत्सस्तु परितो ब्रह्मणः स्मृताः ।आपश्चैवापवतसश्च पर्जन्योऽग्निर्दितिस्तथा ॥
पदिकानाञ्च वर्गोऽयमेवं कोणेष्वशेषतः ।तन्मध्ये तु वहिर्विंशत् द्विपदास्ते तु सर्व्वतः ॥
अर्य्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ।ब्रह्मणः परिधौ दिक्षु त्रिपदास्ते तु सर्व्वतः ॥
* ॥
वंशानिदानीं वक्ष्यामि ऋजूनपि पृथक् पृथक् ।वायुं यावत्तथा रोगात् पितृभ्यः शिखिनं पुनः ॥
मुख्याद्भृशमथो शेषात् वितथं यावदेव तु ।सुग्रीवाददितिं यावत् भृगोः पर्जन्यमेव च ॥
एते वंशाः समाख्याताः क्वचिद्दुर्ज्जय एव च ।एतेषां यस्तु सम्पातः पदं मध्यं समन्ततः ॥
मर्म्म चैतत् समाख्यातं त्रिशूलं कोणगञ्च यत् ।स्तम्भन्यासे तु वर्ज्यानि तुलाविधिषु सर्व्वदा ॥
कीलोच्छिष्टोपघातानि वर्ज्जयेद्यत्नतो नरः ।सर्व्वत्र वास्तुर्निर्द्दिष्टः पितृवैश्वानरायतः ॥
मुर्द्धन्यग्निः समाविष्टो मुखे चापः समाहितः ।पृथ्वीधरोऽर्य्यमा चैव तयोस्तावदधिष्ठितौ ॥
वक्षःस्थले चापवत्सः पूजनीयः सदा बुधैः ।नेत्रयोर्दितिपर्ज्जन्यौ श्रोत्रेऽदितिजयन्तकौ ॥
सर्पेन्द्रा वंशसंस्थौ च पूजनीयौ प्रयत्नतः ।सत्यरोगादयस्तद्वद्बाह्वोः पञ्च च पञ्च च ॥
रुद्रश्च राजयक्ष्मा च वामहस्ते समास्थितौ ।सावित्रः सविता तद्बद्धस्तं दक्षिणमाश्रितौ ॥
विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ ।पूषा च पापयक्ष्मा च हस्तयोर्मणिबन्धने ॥
तथैवासुरसोमौ च वामपार्श्वे समास्थितौ ।पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः ॥
उर्व्वोऽर्य्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्व्वपुष्पकौ ।जङ्घयोर्भृगुसुग्रीवौ स्फिक्स्थौ दौवारिको मृगः ॥
जयशक्रौ तथा मेढ्रेपान्दयोः पितरस्तथा ।मघ्ये नवपदो ब्रह्मा हृदये स तु पूज्यते ॥
चतुःषष्टिपदो वास्तुः प्रासादे ब्रह्मणा स्मृतः ।ब्रह्मा चतुष्पदस्तत्र कोणेष्वर्द्धपदास्ततः ॥
बहिष्कोणे तु चाष्टौ तु सार्द्धाश्चोभयसंस्थिताः ।विंशतिर्द्विपदाश्चैषां चतुःषष्टिपदे स्मृताः ॥
* ॥
गृहारम्भे तु कण्डूतिः स्वाम्यङ्गे यत्र जायते ।शल्यस्त्वपनयेत्तत्र प्रासादे भवमेऽपि वा ॥
सशल्यं भयदं तस्मादशल्यं शुभदायकम् ।हीनाधिकाङ्गभावांस्तु सर्व्वथा तु विवर्ज्जयेत् ॥
नगरग्रामदेशेषु सर्व्वत्रैवं प्रकल्पयेत् ।चतुःशालं त्रिशालन्तु द्विशालञ्चैकशालकम् ॥
नामतस्तानि वक्ष्यामि स्वरूपेण द्बिजोत्तमाः ॥
”इति मात्स्ये एकाशीतिपदवास्तुनिर्णयो नाम२२७ अध्यायः ॥
* ॥
सूत उवाच ।“चतुःशालं प्रवक्ष्यामि स्वरूपान्नामतस्तथा ।चतुःशालं द्बयद्वारैरलिन्दैः सर्व्वतोमुखम् ॥
नाम्ना तत् सर्व्वतोभद्रं शुभं देवनृपालये ।पश्चिमद्बारहीनन्तु नन्द्यावर्त्तं प्रचक्ष्यते ॥
दक्षिणद्वारहीनं तदूर्द्ध्वमानमुदाहृतम् ।पूर्व्वद्वारविहीनन्तत् स्वस्तिकं नाम विश्रुतम् ॥
रुचकं चोत्तरद्वारविहीनं तत्प्रचक्ष्यते ।सौम्यशालाविहीनन्तु त्रिशालं धन्यकञ्च तत् ॥
क्षेमवृद्धिकरं नॄणां बहुपुत्त्रफलप्रदम् ।शालया पूर्व्वया हीनं सुक्षेत्रमिति विश्रुतम् ॥
धन्यं यशस्यमायुष्यं शोकमोहविनाशनम् ।चुल्ली तु याम्यया हीनं विशालं शालया तु यत् ॥
कुलक्षयकरं नॄणां सर्व्वव्याधिभयावहम् ।हीनं पश्चिमया यत्तु पक्षघ्नं नाम तत् पुनः ॥
मित्रबन्धुसुतान् हन्ति तथा सर्पभवावहम् ।याम्यापराभ्यां शालाभ्यां धनधान्यफलप्रदम् ॥
क्षेमवृद्धिकरं नॄणां तथा पुत्त्रफलप्रदम् ।यमं सूर्य्यञ्च विज्ञेयं पश्चिमोत्तरशालकम् ॥
राजाग्निमयदं नॄणां कुलक्षयकरञ्च तत् ।उदक्पूर्व्वे तु शाले द्वे दण्डाख्ये यत्र तद्भवेत् ॥
अकालमृत्युभयदं परचक्रभयावहम् ।धनाख्यं यामपूर्व्वाभ्यां शालाभ्यां यद्द्विशालकम् ॥
तच्छस्त्रभयदं नॄणां पराभवभयावहम् ।चुल्ली पूर्व्वापराभ्यान्तु सा भवेत् मृत्युसूचनी ॥
वधबन्धाय शस्त्राणामनेकभयकारकम् ।काचमुत्तरयामाभ्यां शालाभ्यां भयदं नृणाम् ॥
सिद्धार्थवर्ज्यं वर्ज्यानि द्विशालानि सदा बुधैः ॥
* ॥
अथातः संप्रवक्ष्यामि भवनं पृथिवीपतेः ।पञ्चप्रकारं तत् प्रोक्तमुत्तमादिविभेदतः ॥
अष्टोत्तरं हस्तशतं विस्तारश्चोत्तमो मतः ।चतुर्ष्वन्येषु विस्तारो हीयते चाष्टभिः करैः ॥
चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ।युवराजस्य वक्ष्यामि तथा भवनपञ्चकम् ॥
षड्भिः षड्भिस्तथाशीतिर्हीयते तत्र विस्त-रात् ।त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥
* ॥
सेनापतेः प्रवक्ष्यामि सदा भवनपञ्चकम् ।चतुःषष्टिन्तु विस्तारात् षड्भिः षड्भिस्तुहीयते ॥
पञ्चस्वतेषु दैर्घ्यञ्च षड्भागेनाधिकं भवेत् ॥
* ॥
मन्त्रिणामथ वक्ष्यामि तथा भवनपञ्चकम् ॥
चतुश्चतुर्भिर्हीना स्यात् करषष्टिः प्रविस्तरे ।अष्टांशेनाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ॥
* ॥
सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम् ।चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात् ॥
चतर्थांशाधिकं दैर्घ्यं पञ्चस्वेतेषु शस्यते । * ।शिल्पिनां कञ्चुकीनाञ्च वैश्यानां गृहपञ्चकम् ॥
अष्टाविंशत् कराणान्तु द्बिहीनं विस्तरेण तत् ।द्विगुणं दैर्घ्यमेवोक्तं मध्यमेष्वेवमेव तु ॥
* ॥
दूतकर्म्मान्तिकादीनां वक्ष्ये भवनपञ्चकम् ।चतुर्थांशाधिकं दैर्घ्यं विस्तारो द्वादशैव तु ॥
अध्यर्द्ध्वकरहानिः स्यात् विस्तारात् पञ्चसुक्रमात् । * ।दैवज्ञगुरुवैद्यानां सभास्तारपुरोधसाम् ॥
तेषामपि प्रवक्ष्यामि सदा भवनपञ्चकम् ।चत्वारिंशच्च विस्ताराच्चतुर्भिर्हीयते क्रमात् ॥
पञ्चस्वेतेषु दैर्घ्यञ्च षड्भागेनाधिकं भवेत् । * ।चतुर्व्वर्णस्व वक्ष्यामि सामान्यं गृहपञ्चकम् ॥
द्बात्रिंशकं कराणान्तु चतुर्भिर्हीयते क्रमात् ।आषोडशादिति परं नूनमन्त्यावसायिनाम् ॥
दशांशेनाष्टभागेन त्रिभागेणाथ पादिकम् ।अधिकं दैर्घ्यमित्याहुर्ब्राह्मणादेः प्रशस्यते ॥
सेनापतेर्नृपस्यापि गृहस्यैवोत्तरेण तु ।नृपवासगृहं कार्य्यं भाण्डागारन्तथैव च ॥
सेनापतेर्गृहस्यापि चातुर्व्वर्ण्यस्य चान्तरम् ।वासकोषगृहं कार्य्यं राजपूज्येषु सर्व्वदा ॥
अन्तरप्रभवाणाञ्च स्वपितुर्दूरमिष्यते ।तथा हस्तशतादर्व्वाक् गदितं वनवासिनाम् ॥
सेनांपतेर्नृपस्यापि सप्तत्या सहितेऽन्विते ।चतुर्द्दशहृते व्यासे शालान्यासः प्रकीर्त्तितः ॥
पञ्चत्रिंशद्धृते तस्मिन् अलिन्दः समुदाहृतः ।तथा षट्त्रिंशद्धस्तात्तु सप्ताङ्गुलसमन्वितः ॥
विप्रस्य महती शाला न दैर्घ्यं परतो भवेत् ।दशाङ्गुलाधिका तद्वत् क्षत्त्रियस्य विधीयते ॥
पञ्चत्रिंशत् करा वैश्ये अङ्गुलानि त्रयोदश ।तावत्करैस्तु शूद्रस्य युता पञ्चदशाङ्गुलैः ॥
शालायास्तु त्रिभागेण यस्याग्रे वीथिका भवेत् ।सोष्णीशं नाम तद्वास्तु पश्चाच्छायोच्छ्रयम्भवेत् ॥
पार्श्वयोर्वीथिका यत्र सावष्टम्भन्तदुच्यते ।समन्ताद्वीथिका यत्र सुस्थितं तदिहोच्यते ॥
शुभदं सर्व्वमेतत् स्यात् चातुर्वर्ण्यञ्चतुर्व्विधम् ।विस्तरात् षोडशो भागस्तथा हस्तचतुष्टयम् ॥
प्रथमो भूमिक्रोच्छ्राय उपरिष्टात् प्रहीयते ।द्वादशांशेन सर्व्वासु भूमिकासु तथोच्छ्रयः ॥
पक्वेष्टके भवेद्भित्तिः षोडशांशेन विस्तरात् ।दानवेन विकल्पः स्यात् तथा मृण्मयभित्तिके ॥
गर्भमानेन मानन्तु सर्व्ववास्तुषु शस्यते ।गृहवासस्य पञ्चाशदष्टादशभिरङ्गुलैः ॥
संयुतो द्वारनिष्कम्भो द्विगुणश्चोच्छ्रयो भवेत् ।द्वारशाखासु बाहुल्यमुच्छ्रायं करसम्मितैः ॥
अङ्गुलैः सर्व्ववास्तूनां पृथुत्वं शस्यते बुधैः ।उदुम्बरोत्तराङ्गे च तदर्द्धार्द्धं प्रविस्तरैः ॥
”इति मात्स्ये वास्तुविद्यासु गृहमाननिर्णयोनाम २२८ अथ्यायः ॥
* ॥
सूत उवाच ।“अथातः संप्रवक्ष्यामि स्तम्भमानविनिर्णयम् ।कृत्वा स्वभवनोच्छ्रायं सदा सप्तगुणं बुधः ॥
अशीत्यन्तं पृथुत्वं स्यादग्रे नवगुणैः सह ।रुचकञ्चतुरस्रः स्यादष्टांशो वज्र उच्यते ॥
द्विवज्रः षोडशास्रस्तु द्बादशास्रः प्रलीनकः ।मध्यप्रदेशे यः स्तम्भो वृत्तो वृत्त इति स्मृतः ॥
एतेपञ्च महास्तम्भाः प्रशस्ताः सर्व्ववास्तुषु ।पद्मवल्लीलता कार्य्या पत्रदर्शनरूपिता ॥
स्तम्भस्य नवमांशेन पद्मकुम्भोत्तराणि च ।स्तम्भतुल्या तुला प्रोक्ता हीनाश्चोपतुला ततः ॥
त्रिभागेणेह सर्व्वत्र चतुर्भागेण वा पुनः ।हीनं हीनञ्चतुर्थांशात्तथा सर्व्वासु भूमिषु ॥
वासगेहानि सर्व्वेषां प्रवेशे दक्षिणेन तु । * ।द्वाराणि तु प्रवक्ष्यामि प्रशस्तानीह तानि तु ॥
पूर्व्वेणेन्द्रं जयन्तञ्च द्वारं सर्व्वत्र शस्यते ।याम्यञ्च वितथञ्चैध दक्षिणेन विदुर्बधाः ॥
पश्चिमे पुष्पदन्तञ्च वारुणञ्च प्रशस्यते ।उत्तरेण तु भल्लाटं सौम्यञ्च शुभदं भवेत् ॥
तथा वास्तुसु सर्व्वत्र वेधं द्वारस्य वर्ज्जयेत् ।द्वारे तु रथ्यया विद्धे भवेत् सर्व्वकुलक्षयः ॥
तरुणा दोषबाहुल्यं शोकः पङ्केन जायते ।अपस्मारो भवेन्नूनं कूपवेधेन सर्व्वदा ॥
व्यथा प्रस्रवणेन स्यात् कीलेनाग्निभयम्भवेत् ।विनाशो देवताविद्धे स्तम्भेन स्त्रीहृतो भवेत् ॥
गृहभर्त्तुर्विनाशः स्यात् गृहेण च गृहे कृते ।अमेध्यावस्करैर्व्विद्धे गृहिणीबन्धनम्भवेत् ॥
तथा शस्त्रभयं विद्यादन्त्यजस्य गृहेण तु ।उच्छ्रायद्बिगुणां भूमिं त्यक्त्वा वेधो न विद्यते ॥
स्वयमुद्घाटिते द्वारे उन्मादो गृहमेधिनाम् ।स्वयञ्च पिहिते विन्द्यात् कुलनाशं विचक्षणः ॥
मानाधिके राजभयं नीचे तस्करतो भयम् ।द्वारोपरि च यद्द्वारं तदन्तकमुखं स्मृतम् ॥
आध्वानं मध्यदेशे तु अधिको यस्य विस्तरः ।वज्रन्तु शकटं मध्ये सद्यो भर्त्तृविनाशनम् ॥
तथान्यपीडितद्वारं बहुदोषकरम्भवेत् ।मूलद्वारं तथान्यन्तु नाधिकं शोभनम्भवेत् ॥
कुम्भश्रीपर्णिवल्लीभिर्मू लद्वारन्तु शोभयेत् ।पूजयेच्चापि तन्नित्यं वलिना चाक्षतोदकैः ॥
* ॥
भवनस्य वटः पूर्व्वे दिग्भागे सर्व्वकालिकः ।उडुम्बरस्तथा याम्ये वारुणे पिप्पलः शुभः ॥
प्लक्षश्चोत्तरतो धन्यो विपरीतस्त्वसिद्धये ।कण्टकी क्षीरवृक्षश्च आसन्नः सफलो द्रुमः ॥
भयं हानिं प्रजाहानिं कुर्व्वन्ति क्रमशः सदा ।न च्छिन्द्याद्यदि तानन्यानन्तरे स्थापयेत्शुभान् ।पुन्नागाशोकवकुलशमीतिलकचम्पकान् ।दाडिमी पिप्पली द्राक्षा तथा कुसुममण्डपम् ॥
जम्बीरपूगपनसद्रुमकेतकीभि-र्जातीसरोजशतपत्रिकमल्लिकाभिः ।यन्नारिकेलकदलीदलपाटलाभि-र्युक्तं तदत्र भवनं श्रियमातनोति ॥
”इति मात्स्ये वास्तुविद्यासु वेधपरिवर्ज्जनो नाम२२९ अध्यायः ॥
* ॥
सूत उवाच ।“उदगादिप्लवं वास्तु समानशिरसन्तथा ।परीक्ष्य पूर्व्ववत् कुर्य्यात् स्तम्भोच्छ्रायं विचक्षणः ॥
न देवधूर्त्तसचिवचत्वराणां समीपतः ।कारयेद्भवनं प्राज्ञो दुःखशोकभयं यतः ॥
तस्य प्रवेशाश्चत्वारस्तस्योत्सङ्गोऽग्रतः शुभः ।पृष्ठतः पृष्ठभङ्गस्तु सव्यावर्त्तः प्रशस्यते ॥
अपसव्यो विनाशाय दक्षिणे शीर्णकस्तथा ।सर्व्वकामफलो नॄणां संपूर्णो नाम वामतः ॥
एवं प्रवेशमालोक्य यत्नेन गृहमारभेत् । * ।अथ संवत्सरे पूर्णे मुहूर्त्ते शुभलक्षणे ॥
रत्नोपरि शिलां कृत्वा सर्व्वबीजसमन्विताम् ।चतुभिर्ब्राह्मणैस्तम्भं वस्त्रालङ्कारपूजितम् ॥
शुक्लाम्बरधरः शिल्पी सहितो वेदपारगैः ।स्थापितं विन्यसेत् तद्वत् सर्व्वौषधिसमन्वितम् ॥
नानाक्षतफलोपेतं वस्त्रताम्बूलसंयुतम् ।ब्रह्मघोषेण वाद्येन गीतमङ्गलनिस्वनैः ॥
पायसं भोजयेद्विप्रान् होमस्तु मधुसर्पिषा ।वास्तोस्पते प्रतिजानीहि मन्त्रेणानेन सर्व्वदा ॥
सूत्रपाते तथा कार्य्यमेवं स्तम्भोदये पुनः ।द्वारबन्धोच्छ्रये तद्बत् प्रवेशसमये तथा ॥
वास्तूपशमने तद्वत् वास्तुयज्ञस्तु पञ्चधा ।ईशाने सूत्रपातः स्यादाग्नेये स्तम्भरोपणम् ॥
प्रदक्षिणञ्च कुर्व्वीत वास्तोः पदविलेखनम् ।तर्ज्जनी मध्यमा चैव तथाङ्गुष्ठस्तु दक्षिणे ।प्रबालरत्नकनकं फलपिष्टकृतोदकम् ।सर्व्ववास्तुविभागेषु शस्तम्पद्विलेखने ॥
न भस्माङ्गारकाष्ठेन न शस्त्रनखचर्म्मभिः ।न च सास्थिकपालेन क्वचिद्वास्तु प्रलेखयेत् ॥
एभिर्विलेखितं कुर्य्यात् दुःखशोकामयादिकम् ।यदा गृहप्रवेशः स्याञ्छिल्पी तत्रोपलेखयेत् ॥
स्तम्भसूत्रादिके तद्वत् शुभाशुभफलोदयम् । * ।आदित्याभिमुखं रौति शकुनः परुषं यदि ॥
तुल्यकालं स्पृशेदङ्गं गृहभर्त्तुः समात्मनः ।वास्त्वङ्गे तद्विजानीयान्नरशल्यं भयप्रदम् ॥
शकुनानन्तरं तत्र हस्त्यश्वश्वापदम्भवेत् ।तदङ्गसम्भवं विद्यात्तत्र शल्यं विचक्षणः ॥
प्रसार्य्यमाणे सूत्रे तु श्वगोमायुविलङ्घिते ।तत्र शल्यं विजानीयात् खरशब्दे च भैरवे ॥
यदीशान्तेऽथ दिग्भागे मधुरं रौति वायसः ।धनन्तत्र विजानीयादङ्गे वा स्वाम्यधिष्ठिते ॥
सूत्रच्छेदे भवेन्मृत्युर्व्याधिः कीले त्वधोमुखे ।अङ्गारेषु तथोन्मादं कपालेषु च सम्भ्रमम् ।कम्बुशल्ये च जानीयात् पुंश्चल्यं स्त्रीषु वास्तुवित् ।गृहभर्त्तुर्गृ हस्यापि विनाशः शिल्पिसम्भ्रमे ॥
स्तम्भस्थाने च्युते कुम्भे शिरोरोगं विनिर्द्दिशेत् ।कुम्भापहारे सर्व्वस्य कुलस्यापि क्षयो भवेत् ॥
मृत्युं स्थानच्युते कुम्भे भग्ने बन्धं विदुर्ब्बुधाः ।करसंख्याविनाशे तु नाशं गृहपतेर्विदुः ॥
बीजौषधिविहीने तु भूतेभ्यो भयमादिशेत् ।प्राग्दक्षिणेन विन्यस्य स्तम्भे च्छत्रं विवेशयेत् ॥
ततः प्रदक्षिणेनान्यन्न्यसेत् स्तम्भं विचक्षणः ।यस्माद्भयकरं नॄणां योजितान्यप्रदक्षिणम् ॥
रक्षां कुर्व्वीत यत्नेन स्तम्भोपद्रवनाशिनीम् ।तथा फलवतीं शाखां स्तम्भोपरि निवेशयेत् ॥
प्रागुद्रक्प्लवनं कार्य्य द्बिमुखन्तु न कारयेत् ।स्तम्भंवा भवनं वापि द्बारंवा स्वगृहन्तथा ॥
दिङ्मूढे कुलनाशः स्यात् न च सम्बर्द्धयेद्गृहम् ।यदि सम्बर्द्धयेद्गेहं सर्व्वदिक्षु विवर्द्धयेत् ॥
पूर्व्वेण वर्द्धितं बास्तु कुर्य्याद्बैराणि वै सदा ।दक्षिणे वर्द्धितं वास्तु मृत्यवे स्यान्न संसयः ॥
पश्चाद्वृद्धन्तु यद्वास्तु तदर्थक्षयकारकम् ।वर्द्धायितं तथा सौम्ये बहुसन्तापकारकम् ॥
आग्नेये यत्र वृद्धिः स्यात् तदग्निभयदम्भवेत् ।वर्द्धितं राक्षसे कोणे शिशुक्षयकरं भवेत् ॥
वर्द्धायितन्तु वायव्ये वातव्याधिप्रकोपकृत् ।ईशाने तु प्रजाहानिर्वास्तौ सम्बर्द्धिते सदा ॥
* ॥
ईशाने देवतागारं तथा शान्तिगृहं भवेत् ।महानसं तथाग्नेये तत्पार्श्वे चोत्तरं जलम् ॥
गृहस्योपस्करं सर्व्वं नैरृते स्थापयेद्बुधः ।बन्धस्थानं बहिःकुर्य्यात् स्नानमण्डपमेव च ॥
धनधान्यञ्च वायव्ये कर्म्मशाला ततो बहिः ।एवं वास्तुनिवेशः स्यात् गृहभर्त्तुः शुभावहः ॥
”इति मात्स्ये वास्तुविद्यागृहनिर्णयो नाम २३०अध्यायः ॥
* ॥
सूत उवाच ।“अथातः संप्रक्ष्यामि दार्व्वाहरणमुत्तमम् ।धनिष्ठापञ्चकं त्यक्त्वा विष्ट्यादिकमतः परम् ॥
ततः साम्बत्सरोद्दिष्टे दिने यायाद्वनं बुधः ।प्रथमं वलिपूजान्तु कुर्य्यात् वृक्षाय सर्व्वदा ॥
पूर्व्वोत्तरेण पतितं गृहे दारु प्रशस्यते ।अन्यथा न शुभं विद्याद्याम्यापरनिपातने ॥
क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत् ।कृताधिवासं विहगैरनिलानलपीडितम् ॥
गजावभग्नञ्च तथा विद्युन्निर्घातपीडितम् ।अर्द्धशुष्कं तथा दारु भग्नशुष्कं तथैव च ॥
चैत्यदेवालयोत्पन्नं नदीसङ्गमजन्तथा ।श्मशानकूपनिलयं तडागादिसमुद्भवम् ॥
वर्ज्जयेत् सर्व्वथा दारु यदीच्छेद्विपुलां श्रियम् ।तथा कण्टकिनो वृक्षान्नीपनिम्बविभीतकान् ॥
श्लेष्मातकान् एलतरून् वर्ज्जयेत् गृहकर्म्मणि ।अशनं शाकमधुकसर्ज्जशालाः शुभावहाः ॥
चन्दनं पनसं धन्यं सुरदारु हरिद्रका ।द्वाभ्यामेकेन वा कुर्य्यात् त्रिभिर्व्वा भवनं शुभम् ॥
बहुभिः कारितं यस्मादनेकभयदं भवेत् ।एकैकं शिंशपा ध्रन्या श्रीपर्णी तिन्दुकी तथा ॥
एता नान्यसमायुक्ता कदाचिच्छुभकारिकाः ।स्यन्दनः पनसस्तद्वत् सरलार्ज्जुनपद्मकाः ॥
एते नान्यसमायुक्ता बास्तुकार्य्ये शुभप्रदाः ।तरुच्छेदे महापीते गोधां विद्याद्बिचक्षणः ॥
माञ्जिष्ठवर्णे भेकः स्यात् नीले सर्पं विनिर्द्दिशेत् ।अरुणे सरटं विद्यात् मुक्ताभे शुकमादिशेत् ॥
कपिले मूषिकां विद्यात् खड्गाभे जलमादिशेत् ।एवंविधं सगर्भन्तु वर्ज्जयेद्वास्तुकर्म्मणि ॥
पूर्व्वं छिन्नन्तु शृह्णीयात् निमित्तं शकुनैः शुभैः । * ।व्यासेन गुणि दैर्घे अष्टभिर्वै हते तथा ॥
यच्छेषमायतं विद्यादष्टभेदं वदामि वः ।ध्वजो धूमश्च सिंहश्च श्वा वृषः खर एव च ॥
हस्ती ध्वाङ्क्षश्च पूर्व्वाद्याः करिशेषा भवन्त्यमी ।ध्वजः सर्व्वमुखो धन्यः प्रत्यग्वारो विशेषतः ॥
उदङ्मुखो भवेत् सिंहः प्राङ्मुखो वृषभो भवेत् ।दक्षिणाभिमुखो हस्ती सप्तभिः स उदाहृतः ॥
एकेन ध्वज उद्दिष्टस्त्रिभिः सिंह उदाहृतः ।पञ्चभिर्वृषभः प्रोक्तो विकोणस्थांस्तु वर्ज्जयेत् ॥
तमेवाष्टगुणं कृत्वा विद्याद्राशिं विचक्षणः ।सप्तविंशद्धृते भागे ऋक्षं विद्याद्बिचक्षणः ॥
अष्टभिर्भाजिते ऋक्षे यच्छेषं स व्ययो मतः ।व्ययाधिकं न कुर्व्वीत यतो दोषकरम्भवेत् ।आयाधिके भवेच्छान्तिरित्याह भगवान् हरिः ॥
कृत्वाग्रतो द्बिजवरानथ पूर्णकुम्भंदध्यक्षताम्रदलपुष्पफलोपशोभम् ।दत्त्वा हिरण्यवसनानि तथा द्विजेभ्योमाङ्गल्यशान्तिनिलयाय गृहं विशेच्च ॥
गृह्योक्तहोमविधिना वलिकर्म्म कुर्य्यात्प्रासादवास्तुशमने च विधिर्य उक्तः ।सन्तर्पयेत् द्विजवरानथ भक्ष्यभोज्यैःशुक्लाम्बरश्च भवनं प्रविशेत् सधूमम् ॥
”इति मात्स्ये वास्तुविद्यानुकीर्त्तनं समाप्तम् २३१अध्यायः ॥
* ॥
अन्यच्च । अथ वास्तुयुक्तिः ।तत्र स्थाननिर्णयः ।“नदीश्मशानशैलानां वनस्य निकटे तथा ।न वास्तुकर्म्म कुर्व्वीत न द्वन्द्व-नगरान्तयोः ॥
” * ॥
तत्र दिङ्निर्णयः ।“राक्षसानिलवह्नीनां यमस्य दिशि वेश्मनः ।नारम्भं कारयेद्राजा भीरुग्दाहक्षयप्रदम् ॥
”तथा हि ।“भोगः कीर्त्तिर्धनं रोगः स्थिरता च भयः क्षयः ।दाह इत्येव कथितो दिशि वास्तुफलोद्भवः ॥
”भोजे च ।“यल्लग्ने जायते राजा तस्य लग्नस्य यः पतिः ।या दिक् तस्य नृपस्तस्यां वास्त्वारम्भं समा-चरेत् ॥
”एवञ्च ।“कुजाधिपतिके मेषलग्ने जातस्य भूपतेः ॥
”कुजाधिपतिकायां दक्षिणस्यामपि वास्तुर्नदुष्यतीति । पराशरस्तु ।“यद्दशाजनितो राजा वास्तुस्तम्भस्तु तद्दिशि ॥
”एतेन सूर्य्यादिजनितस्य नृपतेः पूर्व्वादिदिक्षुवास्तुकरणम् । तेन शुक्रदशायां जातस्याग्ने-य्यामपि न दुष्यति ॥
* ॥
अथ लक्षणम् ।“वास्तु कुर्य्यान्महीपालः समं सुस्निग्धमृत्तिकम् ।प्रागुदक्प्लवनं रम्यं रम्यवृक्षोपशोभितम् ॥
लक्ष्मीर्द्दाहः क्षयो भीतिर्धननाशोऽभ्यशून्यता ।सम्पद्वृद्धिरिति प्रोक्तं पूर्व्वादिककुभां फलम् ॥
”तथा हि प्लवनमन्यत् ।“जन्मलग्नेन दिक् पश्चात् राज्ञां वास्तुप्लवोमतः ॥
”एतेन सूर्य्याधिपतितुलालग्ने जातस्य नृपतेःसूर्य्याधिपतेः पूर्व्वस्याः पश्चात् पश्चिमप्लवोऽपिन दुष्यति । अन्ये तु ।“यद्दशाजनितो राजा तद्दिशोग्रप्लवो मतः ॥
”एतेन गुरुदशाजातस्य नृपतेर्द्दक्षिणप्लवोऽपि नदुष्यति । अन्यत्र तु ।“ब्रह्मक्षत्त्रियविट्शूद्राः पूर्व्वादिदिग्युगे क्रमात् ।वास्तुप्लवनमिच्छन्ति निजसम्पत्तिहेतवे ॥
”नीतिशास्त्रे च ।“वास्तुकर्म्म नृपः कुर्य्याद्बलवद्वैरिणो दिशि ।दीर्धा वा चतुरस्रा वा वास्तुभूमिर्म्महीक्षिताम् ।एतयोर्लक्षणं तद्वत् फलञ्च नगरे यथा ॥
” * ॥
अथ मानम् ।“राजकाण्डेन नृपतिर्वास्त्वारम्भं समाचरेत् ।जयो भङ्गः सुखं दुःखं प्रीतिर्भीतिश्च यः स्थिरः ।इत्यष्टौ वास्तुनामानि राजकाण्डैरनुक्रमात् ॥
”अन्यत्र तु ।“जन्मलग्ने महीभर्त्तुर्द्दण्डयोरन्त एव हि ।राजकाण्डैस्तु तावद्भिर्वास्तु कुर्य्यान्महीपतिः ॥
सुदर्शाच्छन्दसंख्येन राजपट्टेन भूपतेः ।वास्तुकर्म्मसमारम्भो धनधान्यजयप्रदः ॥
”एतयोरपि पूर्व्ववद्व्याख्यानम् ।“राजच्छत्रेण कुत्रापि वास्तुपत्तनमिष्यते ।तस्यापि पूर्व्ववन्मानमिति भागुरिभाषितम् ॥
”अथ दोषगुणौ ।“परनिर्म्मितवास्तुस्थो न तिष्ठति चिरं नृपः ।न सुखाय न धर्म्माय तत्तस्य भुवि जायते ॥
”अन्यत्रापि ।“राजान्यवीर्य्यप्रत्याशी परवास्तुकृतस्थितिः ।न सुखाय भवेन्नॄणां यथा परगृहे ग्रहः ॥
यः स्वनिर्म्मितवास्तुस्थो निजलग्नादिसंयुतः ।विचारितपुरो राजा स चिरं सुखमश्नुते ॥
”अन्यत्रापि ।“राजा स्वबाहुवीर्य्याढ्यो निजनिर्म्मितवास्तु-भाक् ।स चिर तनुते सौख्यं स्वगृहस्थो ग्रहो यथा ॥
”अथ कालः ।“वर्षान्तेऽभ्युदिते शुक्रे केन्द्रे सुरगुरौ शुभे ।वास्तुकर्म्मसमारम्भं शुक्रचन्द्रार्कभूमिजे ॥
ग्रहवुक्तो यः समयः कर्त्तव्यस्तत्र वै शुभे ।वास्त्वारम्भः कार्य्यः शुभसम्पत्तिकामिनाराज्ञा ॥
”इति वास्तुयुक्तौ वास्तूद्देशः ॥
* ॥
अन्येषां यथा । यदाह बास्तुकुण्डल्याम् ।“स्वामिहस्तैश्चतुभिः स्याद्दण्डस्तेनैव मापयेत् ।क्षेमो भयङ्करो भव्यः शोककृद्विजयः शुचिः ॥
वंशकृत् पापकारी च विकारी शोभनः शिवः ।कुणपः कामदो धूम्रो धौम्यो धनहरस्तथा ॥
धनदः सुखकृच्चेति वाट्योऽष्टादश कीर्त्तिताः ॥
”तद्यथा ।“आयामपरिणाहाभ्यां योऽङ्कपिण्डोऽभिजायते ।ऊनविंशतिहृते मागे शेषेणैता यथाक्रमम् ॥
क्षेमे सर्व्वार्थसंसिद्धिर्भयकारी भयङ्करः ।भव्यो भोगं प्रकुरुते शोककृद्बन्धुनाशनः ॥
विजयः कुरुते वृद्धिं शुचिः सर्व्वसुखं वहेत् ।वंशकृत् कुरुते वंशं पापकारी कुलापह ॥
विकारी कुरुते दुःखं शोभनः शुभमावहेत् ।शिवः सर्व्वार्थसिद्ध्यै स्यात् कुणपः सर्व्वनाशनः ॥
कामदोऽभीष्टलाभः स्यात् धूम्रो दहति सर्व्वशः ।धौम्ये धर्म्ममतिः सौख्यं दुःखं धनहरे भवेत् ॥
धनदे धनलाभः स्यात् सुखकृत् सुखकारकः ।इति प्रोक्तोऽतिसंक्षेपाद्वास्तुलक्षणसंग्रहः ॥
”भोजस्तु । दण्डमानं तथैव किन्तु युक्तिरन्या ।स्वदशाब्दतो द्बिगुणैस्तैः शुभावह-श्चतुरस्र एव नववास्तु शिष्यते ।किमु लग्नदण्डमितदण्डसम्मितःप्रकरोति वास्तुरतिसौख्यसम्पदम् ॥
ऊषरा वालुका क्लिन्ना त्रयमेतद्विनिन्दितम् ।त्रिकोणो वर्त्तुलो दीर्घो यवमध्योबृहन्मुखः ॥
तथा डमरुरूपश्च सर्पाकारस्तथैव च ।छिन्नो भिन्नो मध्यनिन्दो व्यजनाभश्चतुष्पथः ॥
त्रिपथो जनदोषी च वृक्षदोषी तथा परः ।गजशुण्डाकृतिश्चैवोपद्रवाः परिकीर्त्तिताः ॥
वास्तुखण्डे महादोषा हेयास्तस्माद्विचक्षणैः ।चतुरस्रः शुभो दीर्घस्तुल्यः प्रान्तः समाश्रितः ।दोषैर्विहीनो विज्ञेयो वास्तुखण्डः सुखावहः ॥
”इति युक्तिकल्पतरौ वास्तुयुक्तिः ॥
* ॥
तत्र कालनिर्णयः ।“वैशाखश्रावणाषाढमार्गफाल्गुनकार्त्तिकाः ।सुप्रशस्ता गृहारम्भे पत्नीपुत्त्रसमृद्धिदाः ॥
शुक्लपक्षे भवेत् सौख्यं कृष्णे च भवते भयम् ।आदित्यभौमवर्ज्जन्तु सर्व्वे वाराः शुभावहाः ॥
”तथान्यत्र ।“पूर्णिमाद्यष्टमीं यावत् पूर्व्वास्यं वर्ज्जयेद्गृहम् ।उत्तरास्यं न कुर्व्वीत नवम्यादिचतुर्द्दशीम् ॥
अमावास्याष्टमीं यावत् पश्चिमास्यं विवर्ज्जयेत् ॥
नवम्यादि तथा याम्यं यावत् शुक्लचतुर्द्दशीम् ।वज्रव्याघातशूले च व्यतीपातातिगण्डयोः ॥
विष्कम्भगण्डयोश्चैव गृहारम्भं न कारयेत् ॥
आदित्यद्वयरोहिणी मृगशिरो ज्येष्ठा धनिष्ठो-त्तरारेवत्याथ मघानुराधहरिभिः शुद्धैः स्वभा-वादिभिः ।सौम्यानां दिवसेऽथ पापरहिते योगे विरिक्तेतिथौविष्टित्यक्तदिने वदन्ति मुनयो वेश्मादिकार्य्यंशुमम् ॥
”मत्स्यपुराणेऽपि ।“चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् ।स्तम्भोच्छ्रायादि कर्त्तव्यमन्यत्र तु विवर्ज्जयेत् ॥
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् ।स्वातिर्हस्तानुराधा च वास्तुकर्म्मणि शस्यते ॥
”तथा च ।“त्रिभिस्त्रिभिर्वेश्मनि कृत्तिकाद्यै-रशेषपुत्त्राप्तिधनानि शोकाः ।शत्रोर्भयं राजभयञ्च मृत्युःसुखं प्रवासश्च नव प्रभेदाः ॥
नाशं दिशन्ति मकरालिकुलीरलग्नेमेषे धटे धनुषि कर्म्मसु दीर्घसूत्रम् ।कन्याझषे मिथुनके ध्रुवमर्थलाभोज्योतिर्व्विदः कलससिं हवृषेषु वृद्धिम् ॥
लग्नेऽर्के वज्रसम्पातः कोषहानिश्च शीतगौ ।मृत्युर्वसुन्धरापुत्त्रे चन्द्रजे सुखसम्पदः ॥
जीवे धर्म्मार्थकामाश्च सुतोत्पत्तिश्च भार्गवे ।शनैश्चरे तु दारिद्र्यं राहावस्त्रं प्रवर्त्तते ॥
” * ॥
अथ प्रवेशकालः ।“शुद्धैर्द्बादशकेन्द्रगैर्न्निधनगैः पापैस्त्रिषष्ठायगै-र्ल्लग्ने केन्द्रगतेऽथवा सुरगुरौ दैतेयपूज्येऽपि वा ।सर्व्वारम्भफलप्रसिद्धिरुदये राशौ च भर्त्तुः शुभेस्वग्राम्यस्थिरतोदये च भवनं कार्य्यं प्रवेशोऽपिवा ॥
पौष्णे धनिष्ठा अथ वारुणेषुस्वायम्भु वर्क्षे त्रिषु चोत्तरेषु ।अक्षीणचन्द्रे शुभवासरे चतथा विरिक्ते च गृहप्रवेशः ॥
तिथिर्व्वारश्च लग्नादि समारम्भे यथोदितम् ।प्रवेशेऽपि गृहस्याहुस्तथा ज्योतिर्व्विदो जनाः ॥
”अथ द्वारम् ।“नैकद्वारं वास्तुखण्डं न चतुर्द्द्वारमारभेत् ।एकद्वारं दुःशरणं चतुर्द्द्वारं दुरावरम् ॥
त्रिद्वारमेव नृपतेर्व्वास्तुकर्म्म प्रशस्यते ।द्वे मुख्ये तत्र चान्यत् स्यादमुख्यमिति निर्णयः ॥
राजद्वारस्तु तत्रैको यमद्वारस्तथा परः ।अपद्वारं तथान्यत् स्यादिति द्बारस्य निर्णयः ॥
ब्रह्मक्षत्त्रियवैश्यानां प्रागुदक्पश्चिमैः क्रमात् ।मुख्यद्वारं दक्षिणस्य परं तस्यापि दक्षिणे ॥
बलवद्वै वैरिमुख्यं द्बारमित्यन्यसम्मतम् ।राजद्वारेऽन्यभूपानां शिष्टानांवा प्रवेशयेत् ॥
यात्राप्रसादपर्व्वाणि राजद्वारेषु कारयेत् ।यमद्वारे छिदाकर्म्म द्बिषताञ्च प्रवेशनम् ॥
निःसारणं मृतानाञ्च दुष्टानाञ्च निबन्धनम् ।अपद्धारेऽपरोधस्य गमनागमनक्रिया ॥
राज्ञे विलासयात्रा च मर्म्मज्ञस्य प्रवेशनम् ॥
”अथ प्राचीरनिर्णयः ।“मञैरभेद्या मनुजेरलङ्घ्याःप्राचीरखण्डा नृपतेर्भवन्ति ॥
राजदण्डोन्नताः सर्व्वे प्राचीराः पृथिवीभुजः ।विंशतिस्ते तु पञ्चाग्रे पार्श्वयोः पञ्च पञ्च च ॥
पश्चात् पञ्च च विज्ञेयाः प्राचीरा पृथिवीभुजः ।सर्व्वप्रान्ते त्वावरणो नाम प्राचीर उच्यते ॥
प्रतिप्राकारसंस्थानं द्वारं नाभिमुखस्थितम् ।तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः ॥
तद्यथा ।“राजच्छत्रान्तरे पञ्च राजद्वारे महीपतेः ।राजदण्डत्रये सार्द्धजयद्बारे प्रतिष्ठिताः ॥
अद्वारे राजदण्डार्थे प्राचीराः पृथिबीपतेः ।एवं व्यवस्थिते स्थाने मध्यमेतद्धि तिष्ठति ॥
राजच्छत्रद्वयं सार्द्धमायामे जयवास्तुनि ।परिणाहे पञ्च राजदण्डास्तिष्ठन्ति मध्यतः ॥
राजपट्टाभिधानेन स्थानमेतन्निगद्यते ।अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते ॥
अज्ञानाद् दम्भतो राजा योऽन्यत्र गृहमारभेत् ।सोऽचिरात् मृत्युमाप्नोति रोगं शोकं भयं तथा ॥
यमदण्डोदयदण्डौ केनाहतिरुपप्लवः ।ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च येपुनः ।न स्पृश्यते राजपट्टस्तैः सर्पैर्गरुडो यथा ॥
द्विगुणादिरतोऽपि स्यात् क्रमाद्भङ्गादिवास्तुषु ।राजछत्रमितेऽप्येवं प्राचीरे गुणदोषकौ ॥
” * ॥
अथ जयाख्यस्य चतुरस्रस्य वास्तुखण्डनिर्णयः ।“राजद्वारे हि प्राकारा राजच्छत्रान्तरे मताः ।यमद्वारे सार्द्ध राजच्छत्रान्तरे च ये नृपाः ॥
अपद्वारे राजदण्डं जिता आरम्भिताः पुनः ।अद्वारे भूपतेस्तस्य राजदण्डत्रयान्तरे ॥
एवं व्यवस्थिते स्थाने मध्यमे तत् प्रदृश्यते ।आयामे राजच्छत्राणि चत्वारि परिणाहतः ॥
राजच्छत्रैकमानेन राजदण्ड उदाहृतः ।अयञ्च सप्तमो भागो वास्तोर्भवति शोभनः ॥
अस्मिन् गृहं नृपः कृत्वा सुचिरं पाति मेदिनीम् ।अस्मिन् विजयवृद्धिञ्च सौख्यञ्च समवाप्नुयात् ॥
यो राजा दम्भतोऽन्यत्र वेश्मारम्भं समा-चरेत् ।य उक्तो राजदण्डोऽयं तस्येदं स्थानपञ्चकम् ॥
गजो व्याघ्रश्च सिंहश्च मृगो भृङ्गो यथाक्रमम् ।सिंहे सिंहासनं स्थानं व्याघ्रे स्यात् द्वारमन्दि-रम् ॥
गजे यात्रालयं कुर्य्यात् मृगे केलिनिकेतनम् ।भ्रमरेऽन्तःपुरं कुर्य्यात् क्रमेण पृथिवीपतेः ॥
तेन मध्यमेव सिंहासनं दीर्घस्य चतुरस्रकैः ॥
”तत्र भविष्योत्तरे ।“मेषादिचन्द्रे जातस्य नृपतेः स्युरनुक्रमात् ।द्वादशैव गृहान् वक्ष्ये तेषां लक्षणमग्रतः ॥
सुनन्दः सर्व्वतोभद्रो भव्यो नान्दीमुखस्तथा ।विनोदश्च विलासश्च विजयो विमलस्तथा ।रङ्गः केलिर्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥
”अथैषां लक्षणानि ।“यद्यत्रैवोच्यते मानं तस्य तेनैव कल्पना ।राज्ञः स्वहस्तमेकन्तु दीर्घे सर्व्वत्र निक्षिपेत् ॥
आयामेन सुन्दरः स्यात् राजहस्तैश्च पञ्चमिः ।परिणाहे चतुर्भिश्च राजहस्तैः प्रतिष्ठितः ॥
अस्याधिदेवता भौमो रक्षतीदं वसुन्धरा ।द्वाराणि विंशतिश्चास्य रक्तचित्रावृतानि च ॥
रक्तपट्टावृतो गेहः सकलार्थप्रसाधकः ।अत्र स्थित्वा महीपालः सुचिरं पाति मेदि-नीम् ॥
”दीर्घम् ५१ । प्रस्थम् ४० । इति सुन्दरः ॥
* ॥
“द्वौ राजहस्तावायामे परिणाहे तथैव च ।इत्ययं सर्व्वतोभद्रः शुक्रश्चास्याधिदेवता ॥
दानवा रक्षकाश्चैव पूज्यास्ते चात्र यत्नतः ।चतुर्द्दशास्य द्बाराणि कृष्णचित्रावृतानि च ॥
पीतपटावृतो ह्येष सर्व्वानिष्टविनाशनः ।अत्र स्थित्वा महीपालः सर्व्वान् शत्रून् निकृ-न्तति ॥
”दीर्घम् २१ । प्रस्थम् २० । इति सर्व्वतोभद्रः ॥
* ॥
“अष्टकोणो भवेद्भव्यः कोणो हस्तचतुष्टयः ।राजहस्तोन्नतः कार्य्यो बुधश्चास्याधिदेवता ॥
रक्षका वसवश्चास्य पूज्यास्तेऽत्र प्रयत्नतः ।अष्टौ द्वाराणि चास्य स्युः पीतचित्रावृतानि च ॥
पीतपट्टावृतो ह्येष सर्व्वानिष्टविनाशनः ।अत्र स्थाता क्षितिपतिर्न रिष्टैरवमृद्यते ॥
राजदण्डो भवेद्दीर्घः प्रसरे राजहस्तकः ।राजहस्ते राजहस्ते प्रकोष्ठां स्तत्र कारयेत् ॥
अयं नान्दीमुखो नाम चन्द्रश्चास्याधिदेवता ।नक्षत्रलोकः पूज्योऽत्र स यस्मादस्य रक्षकः ॥
द्वाविंशतिस्तु द्वाराणि दोर्घे दश तथान्तरे ।अन्यत्र दीर्घे एकं स्यात् प्रसरे एकमेव च ॥
”दीर्घद्वितये दश द्वाराणि प्रसरद्वितये एकं कृत्वाद्वितयं एवं २२ द्वाराणि ।“शुक्लचित्रेण सहितः शुक्लपट्टेन शोभितः ।सर्व्वार्थसाधको राज्ञां लक्ष्मीविजयवर्द्धनः ॥
”दीर्घम् ११ । प्रस्थम् १० । इति नान्दीमुखः ॥
* ॥
“दीर्घे त्रयो राजहस्ताः प्रसरे द्वौ प्रतिष्ठितौ ।विनोद एष द्वाराणि त्रिंशत्कोष्ठद्वयं भवेत् ॥
रक्तचित्रेण चित्राङ्गो रक्तवस्त्रोपगूहितः ।अत्र स्थाता नरपतिर्भवेत् कीर्त्तिप्रतापवान् ॥
सूर्य्याधिदेवता चास्य रक्षकाः सकलग्रहाः ॥
”दीर्घम् ३१ । प्रस्थम् २० । इति विनोदः ॥
* ॥
“दीर्घेण राजदण्डार्द्धं प्रसरे राजहस्तकौ ।विलास एष द्वाराणि चत्वारिंशद्बुधा विदुः ॥
गन्धर्व्वा रक्षकाश्चास्य प्रकोष्ठत्रितयं मवेत् ।चित्रपद्मेन शङ्खेन चित्रवस्त्रेण शोभितः ॥
दुर्भिक्षशमनो ह्येष शस्यसम्पत्तिकारकः ।तत्र स्थित्वा नरपतिः प्रचुरं सुखमश्नुते ॥
”दीर्घम् ५१ । प्रस्थम् २० । इति विलास-गृहम् ॥
* ॥
“द्वादशहस्ताः प्रसरे दीर्घे द्बौ राजहस्तकौकथितौ ।विजये द्वादश भवनद्वाराणि स्युर्जयप्रदान्यत्र ॥
सूर्य्योऽधिदेवता चास्य रक्षतीमं विहङ्गराट् ।अरुणाम्भोजचित्राङ्गो अरुणाम्बरभूषितः ।तत्र स्थित्वा नरपतिः कृत्स्नां शास्ति वसुन्ध-राम् ॥
”दीर्घम् २१ । प्रस्थम् १२ ॥
* ॥
“आयामे राजदण्डौ द्वौ प्रसरे राजदण्डकः ।शतद्वारोपसहितः प्रकोष्ठैर्द्दशभिर्युतः ॥
दिक्पाला रक्षकाश्चास्य कुजश्चास्याधिदेवता ।नानावर्णेन चित्रेण वसनेन विभूषितः ॥
अत्र स्थित्वा नरपतिः सुचिरं सुखमश्नुते ।यस्मिन्राज्ये प्रतिष्ठेत विमलो गृहसत्तमः ॥
दुर्भिक्षं नात्र जायेत नेतयोर्न च विप्लवः ।न रोगो नापि शोकश्च नैवोत्पातभवन्तथा ।इत्यादि गुणबाहुल्यमन्यत्र कथितं बुधैः ॥
”दीर्घम् २०० । प्रस्थम् १०० ॥
* ॥
“आयामपरिणाहाभ्यां राज्ञः षोडशहस्तकः ।द्वाराणि षोडशैवास्य गुरुरस्याधिदेषता ॥
रक्षिका देवता चास्य शुक्लवस्त्रैर्विभूषणम् ।अत्र स्थित्वा नरपतिः सर्व्वार्थान् मुविसाधयेत् ॥
”दीर्घम् १७ । प्रस्थम् १६ । इति रङ्गः ॥
* ॥
“आयामे राजदण्डः स्यात् प्रसरे च तदर्द्धकम् ।दश प्रकोष्ठा द्वाराणि शनिरस्याधिदेवता ॥
पिशाचा रक्षकाश्चास्य नीलवस्त्रादिभूषणम् ।नाम्नायं केलिराख्यातो भयरोगविनाशनः ।अत्र स्थित्वा नरपतिः सुखं विजयते रिपून् ॥
”दीर्घम् १०० । प्रस्थम् ५० ॥
* ॥
“राजहस्तेन कोणः स्यादेवं केलिश्चतुर्द्दश ।चतुर्द्दशैव द्वाराणि राहुरस्याधिदेवता ॥
नक्तञ्चरा रक्षकास्तु नानावर्णाम्बरादिकम् ।अयं जयः प्रकटितः सर्व्वत्रैव जयप्रदः ॥
आयामे राजहस्तः स्यात् परिणाहेऽष्टहस्तकः ।नानारूपः कुटीरूपो वीरो नाम यजप्रदः ॥
बृहस्पतिर्देवतास्य रक्षकाश्चास्य खेचराः ।विचित्रवसनोपेतः सर्व्वकामार्थदायकः ॥
”द्रीर्घम् ११ । प्रस्थम् ८ । इति वीरः ॥
* ॥
“यो यस्य गदितो वर्णस्तथा स्याच्चामरोऽपि च ।राजहस्तान्तरे पञ्च चामराः स्युर्म्महीभुजाम् ॥
चन्द्रोऽपि दर्पणे हस्त उपरि क्रमतो न्यसेत् ।पताकाध्वजयुक्ताश्च गृहरक्षक-रक्षसाम् ।छत्रयुक्तं गृहं राज्ञां विज्ञेयं चक्रवर्त्तिनाम् ॥
”एषां नियमः परवत् ।“इति द्वादशचिह्नानि गृहाणां कथितानि वै ।विमृष्यैतानि नृपतिर्गृहारम्भं समाचरेत् ॥
इति सिंहासनस्थानमिति राष्ट्रस्य मस्तकम् ।इतोऽन्ये चित्तहर्षार्थाः प्रासादाः पृथिवीभुजः ॥
जलयन्त्रादयो येऽन्ये तेषां नास्ति विनिश्चयः ।स्वजन्मगेहसंस्थो यो नृपतिः शुभचेतनः ॥
स चिरं पृथिवीं शास्ति सर्व्वार्थान् साधयत्यपि ।यो वा तत्परगेहस्थो दुर्म्मोहात् धरणीपतिः ॥
न चिरं पाति वसुधां घोरं रोगञ्च विन्दति ।स्वलग्नपतिमित्रस्य गृहवारो न दुष्यति ॥
” * ॥
परञ्च ।“हीरकस्य विशुद्धस्य ब्रह्मजातेर्म्महाद्युतेः ।सूर्य्याङ्गस्पर्शमात्रेण वमतो दीप्तिमच्छिखाः ।गृहाग्रे धारयेद्राजा तद्बज्रं वज्रवारणम् ॥
”वात्स्यस्तु ।“गृहेषु मणिविन्यासो विज्ञेयो न च दण्डवत् ।विशुद्धहीरकन्यासो विधेयः सदनोपरि ।तेन सर्व्वाणि नश्यन्ति अरिष्टानि मही-भुजाम् ॥
”भोजोऽपि ।“वास्तुखण्डोऽब्जरूपः स्यात्यथार्थैर्नामभिः स्वकैः ।यमद्वारात् समारभ्य यावदद्वारमिष्यते ॥
”तद्यथा, --“मृत्युर्भयः स्थिरश्चण्डो धनं विभव एव च ।वीरस्तापश्च इत्यष्टौ वास्तुभागा यथाक्रमम् ॥
यमनैरृततोयेशवायुयक्षेशशङ्कराः ।इन्द्रो वह्निरिति प्रोक्ता विभागानामघीश्वराः ॥
मृत्यौ कारालयं कुर्य्यात् भयस्थाने च पत्तयः ।स्थिरे सहचरान् रक्षेत् चण्डे वाजिगजादयः ॥
धने धान्यादिकं रक्षेव् विभवे कोषरक्षणम् ।राजपट्टे भवेद्वीरो तापे कश्चिन्नरालयम् ।प्राचीरप्रतिभागान्ते इति भोजस्य सम्मतम् ॥
”इति युक्तिकल्पतरौ राजगृहयुक्तिः ॥
* ॥
“वास्तुमानेन नियमो गृहमाणेन निर्णयः ॥
”तत्र वास्तुप्लवलक्षणम् ।“पूर्व्वप्लवो वृद्धिकरो धनदश्चोत्तरप्लवः ।दक्षिण्यो मृत्युदो वास्तुर्द्धनहा पश्चिमप्लवः ॥
कोणे रेखाद्वयं कृत्वा मध्ये रेखाद्वयं तथा ।ऐशानकोणतो रेखा दक्षिणाद्यैर्ध्वजास्तथा ॥
नाचामरो नामणिश्च नापताकापि नाध्वजः ।नाकुम्भादिर्नावितानो ना चित्रो नातिचित्रधृक् ॥
नात्युच्चो नातिनीचो वा नाप्रकीर्णप्रकीर्णकः ।ना धातुर्नागवाक्षश्च न चैकानेकद्बारभाक ॥
नियमोऽस्तु महीन्द्राणां सर्व्वसम्पत्तिहेतवे ॥
”इति राजगृहयुक्तिः ॥
* ॥
अन्येषान्तु यथा वास्तुमानेन नियमः ।“ध्वजो धूमस्तथा सिंहः श्वा वृषो गर्द्दभो गजः ।काक इत्येष गदितो वास्तुस्थानस्य निर्णयः ।अयुग्मे सुखसम्पत्तिर्युग्मञ्च विपदास्पदम् ॥
”एवमन्यत्रापि ।“ध्वजे विभूतिर्विपदश्च धूमेसिंहे विभोगः शुनि सर्व्वनरशः ।वृषे सुखं गर्द्दभतो विनाशोगजे धनं काकपदे च मृत्युः ॥
कोणरेखा कोणशुचिः सुखसम्पत्तिनाशिनी ।पूर्व्वपश्चिमतो दण्ड उदयाख्यः सुखावहः ॥
दक्षिणोत्तरतो दण्डो वंशहा यमदण्डकः ।गृहाणि पातयेद्धीमानेषां दण्डव्यधान्तरे ॥
* ॥
एका चेद्दक्षिणे शाला द्वे च दक्षिणपश्चिमे ।तिस्रश्चेत् पूर्व्वतो हीनाश्चतुःशालं सुखावहम् ॥
पश्चिमास्यं ध्वजे वेश्म सिंहे तूदङ्मुखं शुभम् ।पूर्व्वालयं धृषस्थाने दक्षिणाभिमुखं गजे ॥
पदाघातः परिखाघातः पथाघातस्तथैव च ।जलदोषो वृक्षदोषो दोषा इत्येवमादयः ॥
गच्छतां पदतालस्य श्रवणं यदि वेश्मनि ।पदाघातो नाम दोषः पुत्त्रपौत्त्रधनाषहः ॥
परिखादण्डयोर्घातो वास्तुनोः प्रतिवेशिनोः ।परिखाघातो नाम दोषः कुलवीर्य्यधनापहः ॥
पथाघातो नाम दोष आघातो वास्तुनः पथः ।स हन्ति भोगं वंशञ्च तस्य भेदमतः शृणु ॥
एकमार्गं सुखं कुर्य्यात् द्विपथं कुलवर्द्धनम् ।त्रिपथं कुलनाशाय सर्व्वनाशश्चतुष्पथे ॥
स्ववाट्यां परवाट्याञ्च यस्तिष्ठति जलाशयः ।तद्दोषो जलदोषः स्यात् स हन्ति कुलसम्पदः ॥
ऋद्धिमानसुखैश्वर्य्यमृत्युक्लेशभयामयाः ।एते जलाशये दोषाः पूर्व्वादिदिक्षु च क्रमात् ॥
स्ववास्तुवृक्षतो दोषः कुलसम्पत्तिनाशवः ।वर्ज्जयेत् पूर्व्वतोऽश्वत्थं प्लक्षं दक्षिणतस्तया ॥
ऐशान्यां रक्तपुष्पञ्च आग्नेय्यां क्षीरिणस्तथा ।यत्र तत्र स्थिता वृक्षा विल्वदाडिमकेशराः ।पनसा नारिकेलाश्च शुभं कुर्व्वन्ति निश्चयम् ।निशा नीली पलाशश्च चिञ्चा श्वेतापराजिता ।कोविदारश्च सर्व्वत्र सर्व्वं निघ्नन्ति मङ्गलम् ॥
* ॥
गृहपातनमिच्छन्ति नागस्य स्वपने क्रगात् ।पूर्व्वादिषु शिरः कृत्वा नागः शेते त्रिभि-स्त्रिभिः ।भाद्राद्यैर्व्वामपार्श्वेन तस्य क्रोडे गृहं शुभम् ॥
”तत्र प्रमाणम् ।“स्वामिहस्तप्रमाणेन ज्येष्ठपत्नीकरेण वा ।गृहाभ्यन्तरसंस्थानं मापयेदभितो नरः ॥
” * ॥
तत्र सामान्यलक्षणम् ।“गृहभूमिसमाहतपिण्डपदंवसुलोचनरन्ध्रगजैर्गुणितम् ।रबिभूधरत्रिंशद्योगहृतंभवनाय व्ययस्थितिऋक्षपदम् ॥
एकाशीतिगुणे हस्ते द्विबाणैकहते च ते ।षडिन्दुयुग्मसम्भक्ते पिण्डः स्यात् सर्व्वबेश्मनः ॥
”तद्यथा ।“ध्वजादिगेहसंस्थाने गृहमानं शुभावहम् ।दीर्घे भानुः परीणाहे सप्त चैवाङ्गुलिद्वयम् ॥
इदं पुत्त्रफलं गेहं वृषस्थानेऽप्युदीरितम् ।दीर्घे षट्प्रसरे पञ्च चतस्रोऽङ्गुलयोऽपि च ॥
इदं पुत्त्रफलं गेहं गजस्थाने प्रकीर्त्तितम् ।दीर्घे त्रयोदश भुजाङ्गुलयश्चैकविंशतिः ॥
प्रसरेऽष्टौ सुखफलं गजस्थाने गृहं विदुः ।इति द्वादशकं प्रोक्तं गृहाणां सर्व्वसंमतम् ।एवं गृहं समाचर्य्य गृहस्थः शुभमिच्छति ॥
” * ॥
भोजस्तु ।“आयामपरिणाहाभ्यां योऽङ्कपिण्डो विजायते ।येन केनापि चाङ्केन शोधनीयः स इष्यते ॥
एकद्बिपञ्चसप्तानि शुभान्यन्यानि चान्यथा ।आयामपरिणाहाभ्यां सार्द्धद्वादशहस्तकम् ॥
एतत्तु मङ्गलं नाम गृहं सुखविवर्द्ध नम् ।आयामपरिणाहाभ्यां सार्द्धहस्तचतुर्द्दश ॥
इदं कमलकं नाम गृहं सम्पत्तिकारकम् ।आयामपरिणाहाभ्यां सार्द्धहस्तास्तु षोडश ।इदं हि सर्व्वतोभद्रं स्वामिनः सुखकारकम् ॥
आयामपरिणाहाभ्यां सार्द्धाष्टादशहस्तकम् ।कल्याणनाम वेश्मेदं धनधान्यसुखप्रदम् ॥
आयामपरिणाहाभ्यां सार्द्धविंशतिहस्तकम् ।इदं हि सुखदं नाम भर्त्तुः सुखविवर्द्धनम् ॥
मया यदिदमुद्दिष्टं गृहपञ्चकमद्भुतम् ।न तेषु स्थाननियमः सर्व्वेष्वेतानि कारयेत् ॥
स्थानं मानञ्च दोषाश्च ये प्रोक्तास्तु मया क्रमात् ।तद्विचार्य्य गृहं कृत्वा गृहस्थः सुखमश्नुते ॥
अज्ञानादथ मोहाद्वा योऽन्यथा गृहमाचरेत् ।स विषीदति नश्येत तस्य कीर्त्तिः कुलं बलम् ॥
प्राचीराणां न नियमो गृहस्थानाञ्च विद्यते ।यथावास्तु यथाशक्ति प्राचीरानचयेद्गृही ॥
गृहरोधो यथा न स्यात् तथा प्राचीरकल्पना ॥
”इति युक्तिकल्पतरौ गृहयुक्तिः ॥
* ॥
अथ वास्तुयागप्रमाणम् । लैङ्गे ।चतुःषष्टिपदं वास्तु सर्व्वदेवगृहं प्रति ।एकाशीतिपदं वास्तु मानुषं प्रति सिद्धिदम् ॥
अग्रतः शोधयेद्वास्तुभूमिं यस्य पुरोदिताम् ।चतुर्हस्तं द्विहस्तं वा जलान्तं वापि शोध्य च ॥
सुसमञ्च तदा कृत्वा सदार्च्चनं ततो भवेत् ॥
”पुरोदितां ब्राह्मणादिभेदेन प्रशस्तत्वेनोपपादि-ताम् ॥
* ॥
तथा च मत्स्यपुराणम् ।“अरत्निमात्रे गर्त्ते वै अनुलिप्ते च सर्व्वशः ।घृतमामशरावस्थं कृत्वा वर्त्तिचतुष्टयम् ॥
ज्वालयेत्तु परीक्षार्थं पूर्व्वं तत् सर्व्वदिङ्मुखम् ।दीप्त्या पूर्व्वादि गृह्णीयात् वास्तूनामनुपूर्व्वशः ॥
वास्तुः समृद्धिको नाम दीप्यते सर्व्वतो हि यः ।शुभदः सर्व्ववर्णानां प्रासादेषु गृहेषु च ॥
”वास्तुकर्त्तुररत्निमात्रे गर्त्ते तत्रैव स्थापिते आम-शरावे पूर्व्वादिक्रमेण वर्त्तिचतुष्टयं कृत्वा गव्य-घृतेनापूर्य्य वर्त्तिचतुष्टयं प्रज्वालयेत् । तत्रप्राच्यां दीपशिखाया उज्ज्वलत्वे तद्बास्तु ब्राह्म-णस्य प्रशस्तम् । एवं दक्षिणादिदिशि शिखाया-स्तथात्वे क्षत्त्रियादेः । सर्व्वशिखासमत्वे सर्व्व-वर्णानां स वास्तुदेशः प्रशस्तः । जलान्तमितितु मत्स्यपुराणपरिभाषितं प्रासादपरम् ॥
* ॥
तथा च मात्स्ये ।“पुरुषाधःस्थितं शल्यं न गृहे दोषदं भवेत् ।प्रासादे दोषदं शल्यं भवेद्यावज्जलान्तिकम् ॥
प्रासादभवनादीनां निवेशं विस्तराद्बद ।कुर्य्यात् केन विधानेन कश्च वास्तुरुदाहृतः ॥
”इत्युपक्रम्य वाप्यादीनामभिधानादादिपदात्कूपादयो गृह्यन्ते । प्रासादेऽप्येवमेव स्यात् कूप-वापीषु चैव हि । इत्यभिधानाच्च कूपादावपि ॥
वास्तुपुरुषश्च ।“कश्यपस्य गृहिणी तु सिंहिकाराहुवास्तुतनयावजीजनत् ।पूर्व्वजो हरिनिकृत्तकन्धरोदैवतैरवरजो निपानितः ॥
”तथा ।“चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः ।वैशाखे धनरत्नानि ज्यैष्ठे मृत्युमवाप्नुवात् ॥
आषाढे भृत्यरत्नानि पशुवर्ज्जमवाप्नुयात् ।श्रावणे मित्रलाभस्तु हानिर्भाद्रपदे तथा ॥
आश्विने पत्नीनाशः स्यात् कार्त्तिके धनधान्य-कम् ।मार्गशीर्षे तथा भक्तं पौषे तस्करतो मवम् ॥
माधे चाग्निभयं विद्यात् काञ्चनं फाल्गुनेसुतान् ।शुक्लपक्षे भवेत् सौख्यं कृष्णे तस्करतो भयम् ॥
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् ।स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥
आदित्यभौमवर्ज्जन्तु सर्व्वे वाराः शुभावहाः ।वज्रव्याघातशूले च व्यतीपातातिगण्डयोः ॥
विष्कम्भगण्डपरिघवर्ज्जं योगेषु कारयेत् ।श्वेतमैत्रेयगान्धर्व्वेष्वभिजिद्रौहिणेऽपि च ॥
तथा विजयसावित्रे मुहूर्त्ते गृहमारभेत् ।चन्द्रादित्यबलं लग्नं तथा शुभनिरीक्षितम् ।प्रासादेऽप्येवमेव स्यात् कूपवापीषु चैव हि ॥
”ऐन्दवं मृगशिरः ॥
* ॥
मुहूर्त्ते संवर्त्तः ।“रौद्रः श्वेतश्च मैत्रेयस्तथा शानकटः स्मृतः ।सावित्रश्च जयन्तश्च गान्धर्व्वः कुतपस्तथा ॥
रौहिणश्च विरिञ्चिश्च विजयो नैरृतस्तथा ।माहेन्द्रो वारुणश्चैव वटः पञ्चदश स्मृताः ॥
”तेन द्बितीयतृतीयसप्तमाष्टमनवमैकादशपञ्चमा-न्यतममुहूर्त्ते श्वेतादौ वास्तुकर्म्म कुर्य्यात् ।चैत्रादिफलन्तु नरगृहे देवगृहे तु प्रतिष्ठाकाल-वशात् तत्कालपरिग्रहः ॥
* ॥
तथा च कल्प-तरौ देवीपुराणम् ।“यस्य देवस्य यः कालः प्रतिष्ठाध्वजरोपणे ।गर्त्तापूरशिलान्यासे शुभदस्तस्य पूजितः ॥
”यस्य देवस्य प्रतिष्ठाध्वजरोपणे यः कालः शुभ-दस्तस्य गर्त्तापूरशिलान्यासे गृहारम्भे स कालःपूजित इति ॥
* ॥
प्रतिष्ठाकालश्च मात्स्ये ।“चैत्रे वा फाल्गुने वापि ज्यैष्ठे वा माधवे तथा ।माघे वा सर्व्वदेवानां प्रतिष्ठा शुभदा भवेत् ॥
प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे ।पञ्चमी च द्बितीया च तृतीया सप्तमी तथा ॥
दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी ।आसु प्रतिष्ठा विधिवत् कृता बहुफला भवेत् ॥
”प्रतिष्ठासमुच्चये ।“माघे वा फाल्गुने वापि चैत्रवैशाखयोरषि ।ज्यैष्ठाषाढकयोर्व्वापि प्रतिष्ठा शुभदा भबेत् ॥
”कल्पतरौ देरीपुराणम् ।“महिषासुरहन्त्र्याश्च प्रतिष्ठा दक्षिणायने ॥
”ज्योतिषे ।“गुरोभृगोरस्तबाल्य वार्द्धके सिंहगे गुरौ ।गुर्व्वादित्ये दशाहे तु वक्रिजीवाष्टविंशके ॥
पूर्व्वराशावनायातातिचारिगुरुवत्सरे ।प्राग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके ॥
कम्पाद्यद्भतसप्ताहे नीचस्थेज्ये मलिम्लुचे ।पौषादिकचतुर्म्मासे चरणाङ्कितवर्षणे ॥
एकेनाह्ना चैकदिने द्बितीयेन दिनत्रये ।तृतीयेन तु सप्ताहे माङ्गल्यानि विवर्जयेत् ॥
व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने ।प्रतिष्ठारम्भणे देवकूपादेः परिवर्जयेत् ॥
” * ॥
स्मृतिसागरे ।“उल्कापाते च भूकम्पे अकालवषगर्जिते ।वज्रकेतूद्गमोत्पाते ग्रहणे चन्द्रसूर्य्ययोः ॥
प्रयाणन्तु त्यजेत् शूद्रः सप्तरात्रमतः परम् ।ब्राह्मणः क्षत्त्रियो वैश्यस्त्यजेत् कर्म्म त्रिरा-त्रकम् ॥
शूद्रस्त्यक्त्वा चैकरात्रं ततः कर्म्म समाचरेत् ॥
”पराशरः ।“प्रयाणे सप्तरात्रन्तु त्रिरात्रं व्रतबन्धने ।एकरात्रं परित्यज्य कुर्य्यात् पाणिग्रहं ग्रहे ॥
”मत्स्यपुराणे ।“नवग्रहमखं कृत्वा ततः कर्म्म समाचरेत् ।अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ॥
”नव्यवर्द्धमानधृतवचनम् ।“पितृभ्यो वृद्धये वृद्धिश्राद्धं दत्त्वा सदक्षिणम् ।क्रूरभूतबलिञ्चैव संपूज्य वास्तुदेवताः ॥
”एकादिने वास्तुयागगृहोत्सर्गयोः करणे सकृदेववृद्धिश्राद्धं करणीयम् ।“गणशः क्रियमाणे तु मातृभ्यः पूजनं सकृत् ।सकृदेव भवेत् श्राद्धमादौ न पृथगादिषु ॥
”इति छन्दोगपरिशिष्टात् ॥
मात्स्ये ।“ऊहापोहार्थतत्त्वज्ञो वास्तुशास्त्रस्य पारगः ।आचार्य्यश्च भवेन्नित्यं सर्व्वदा दोषवर्जितः ॥
”देवीपुराणम् ।“प्रासादे च चतुःषष्टिरेकाशीतिपदं गृहे ।चतुरस्रीकृते क्षेत्रे चाष्टधा नवधा कृते ॥
कोणे रेखास्ततो दत्त्वा नव भागान् प्रकल्पयेत् ।ईशः कोणार्द्धतो ज्ञेयः पर्जन्यः पदसंस्थितः ॥
द्विपदस्थो जयन्तश्च शक्रः स्यादेककोष्ठगः ।भास्करश्च पदो ज्ञेयो द्विपदः सत्य उच्यते ॥
भृशः पदस्थो ज्ञातव्यो व्योम चैव पदार्द्ध कम् ।हुताशनः पदार्द्धे तु पूषा च पदसंस्थितः ॥
वितथा द्बिपदो ज्ञेयः पदैकस्थो गृहक्षतः ।वैवस्वतः पदकस्थो गन्धर्व्वो द्विपदस्थितः ॥
भृङ्गश्चैकपदो ज्ञेयो मृगश्चार्द्ध पदस्थितः ।पितरोऽर्द्ध पदे ज्ञेयाः पदे दौवारिकस्तथा ॥
सुग्रीवो हि पदे ज्ञेयः पदस्थः पुष्पदन्तकः ।पयसां पतिरेकस्थोऽसुरो द्विपदसंस्थितः ॥
शोषश्चैकपदो ज्ञेयः पापोऽर्द्धपद उच्यते ।रोगश्चार्द्धपदो ज्ञेयो नागश्चापि पदे स्थितः ॥
द्विपदे विश्वकर्स्मा तु भल्लाटः पदसंस्थितः ।यज्ञेश्वरः पदो ज्ञेयो नागराड्द्विपदस्थितः ॥
पादस्था श्रीर्महादेवी दितिश्चार्द्धपदस्थिता ।आपान्तपादसंस्थः स्यादापवत्सः पदस्थितः ॥
चतुष्पदस्थो विज्ञेयश्चार्य्यमा मध्यपूर्व्वगः ।सावित्रस्तु पदो ज्ञेयः सावित्री पदसंस्थिता ॥
ततो विवस्वान् विज्ञेयश्चतुष्कैर्मध्यसंस्थितः ॥
इन्द्रश्चेन्द्रात्मजश्चोभावेकैकपदसंस्थितौ ॥
मित्रश्चतुष्पदश्चैव पश्चिमे च व्यवस्थितः ।रुद्रश्चैकपदो ज्ञेयो राजयक्ष्मा पदस्थितः ॥
धराधरश्च विज्ञेय उत्तरे च चतुष्पदे ।चतुष्पदश्चतुर्हस्तो मध्ये ज्ञेयः प्रजापतिः ॥
देवतानुचरा बाह्ये सर्व्वे चान्तस्तथासुराः ।एवं प्रगृह्य कोष्ठानि रजसापूर्य्य देशिकः ।एतेषामेव देवानां बलिं दद्यात्तु कामिकम् ॥
”रजसेति पञ्चवर्णरजोभिः । तथा च शारदा-याम् ।“उक्तानामपि देवानां पदान्यापूर्य्य पञ्चभिः ।रजोभिस्तैर्यथोक्तेभ्यः पायसान्नैर्बर्लिं हरेत् ॥
”तथा ।“पीतं हरिद्राचूर्णं स्यात् सितं तण्डुलसम्भवम् ।कुसुम्भचूर्णमरुणं कृष्णं दग्धपुलाकजम् ।विल्वादिपत्रजं श्याममित्युक्तं वर्णपञ्चकम् ॥
”स्यात् पुलाकस्तुच्छधान्ये इत्यमरोक्तेः तुच्छंअपकृष्टम् ।“पूज्या मण्डलबाह्ये तु पूर्व्वाग्नय्यादिकक्रमात् ।स्कन्दश्चैव विदारी च अर्य्यमा पूतना तथा ।जम्भका पापराक्षस्यौ पिलिपिञ्जश्चरक्यपि ॥
”मण्डलकरणासामर्थ्ये शालग्रामसमीपे सर्व्वेपूज्याः ।“शालग्रामशिलारूपी यत्र तिष्ठति केशवः ।तत्र देवासुरा यक्षा भुवनानि चतुर्द्दश ॥
”इति पद्मपुराणवचनात् ॥
तत्रावाहनविसर्ज्जने न स्तः ।“शालग्रामे स्थावरे च नावाहनविसर्ज्जने ॥
”इति वचनात् ॥
तदसम्भवे घटादिजले । प्रतिमास्थानेष्वप्सुआवाहनविसर्ज्जनवर्ज्जम् । इति बौधायन-वचनात् ॥
* ॥
एषां विशेषबलिर्मत्स्यपुराणदेवी-पुराणाभ्यामुक्तोऽपीदानीन्तनैर्न व्यवह्नियते ।इति न लिखितः । किन्तु मत्स्यपुराणोक्तपायस-बलिर्दीयते । तथा च ।“पायसं वापि दातव्यं स्वनाम्ना सर्व्वतः क्रमात् ।नमस्कारेण मन्त्रेण प्रणवाद्येन सर्व्वतः ॥
”अतएव प्रागुक्तशारदावाक्ये पायसमात्रमुक्तंतेन एष पायसबलिः ओँ ईशानाय नमः ।इत्यादिना प्रयोगः । न च वाचस्पतिमिश्रोक्त-ममुकदेवतायै एष पायसबलिर्नम इत्यादिप्रणवादिनमस्कारान्तस्वनामरूपमन्त्रमध्ये देय-प्रवेशस्यायुक्तत्वात् । तथा च ब्रह्मपुराणम् ।“ओँकारादिसमायुक्तं नमस्कारान्तकीर्त्तितम् ।स्वनाम सर्व्वसत्त्वानां मन्त्र इत्यभिधीयते ॥
”इति देवीपुराणम् ॥
“एवं भूतगणानान्तु वलिर्देयस्तु कामिकः ।एतान् प्रपूजयेद्देवान् कुशपुष्पाक्षतैर्ब्बुधः ॥
एवं प्रपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम् ।अपूजिता विनिघ्नन्ति कारकं स्थापकं तथा ।एतान् प्रपूजयेद्देवान् कुशपुष्पाक्षतैस्तथा ॥
”अत्र पूजाया नित्यत्वात् वक्ष्यमाणमत्स्यपुराण-वचने होमानन्तरं वलिदानाच्च वलेः काम्यत्वात्पूजा होमानन्तरं वलिदानाचारः । तथा च ।“ब्रह्मस्थाने तथा कुर्य्याद्वासुदेवस्य पूजनम् ।श्रियाश्च पूजनं कुर्य्याद्वासुदेवगणस्य च ॥
गन्धार्घ्यपुष्पनैवेद्यधूपाद्यैः सुरसत्तम ।ततः संपूजयेत् तस्मिन् सर्व्वलोकधरां महीम् ॥
सुरूपां प्रमदारूपां दिव्याभरणभूषिताम् ।ध्यात्वा तामर्च्चयेद्देवीं परितुष्टां स्मिताननाम् ॥
ततः स्वनाममन्त्रेण सर्व्वदेवमयं हरिम् ।ध्यात्वा समर्च्चयेत्तत्र यजेद्वास्तुनरं परम् ॥
ब्रह्मस्थाने ततो विद्वान् कुर्य्यादाधारमक्षतैः ।तस्मिन् संस्थापयेत् कुम्भं वर्द्धन्या सह पूरितम् ॥
हैमं वा राजतं पात्रं मृण्मयं वा दृढं शुभम् ।सर्व्वबीजौषधीयुक्तं सुवर्णरजतान्वितम् ॥
ब्रह्मस्थाने ततो मन्त्री कलसं स्थाप्य पूजयेत् ।तस्मिंश्चतुर्म्मुखं देवं प्राजेशं मन्त्रविग्रहम् ॥
गन्धैः पुष्पैश्च धूपैश्च नैवेद्यैः सुमनोहरैः ।ततो मण्डलबाह्ये तु प्रतीच्यां प्राङ्मुखः स्थितः ॥
आचार्य्यो गृह्य सम्भारं ब्रह्मादींस्तर्पयेत् सुरान् ।प्राजेशं तर्पयेद्विद्वान् आहुतीनां शतेन च ॥
इतरान् दशभिर्देवानाहुतिभिः प्रतर्पयेत् ।ततः प्रणम्य विज्ञाप्य कृत्वा वै स्वस्तिवाचनम् ॥
प्रगृह्य कर्करीं सम्यङ्मण्डलान्तःप्रदक्षिणम् ।सूत्रमार्गेण देवेन तोयधारेण कारयेत् ॥
पूर्व्ववत् तेन मार्गेण सप्तबीजानि वापयेत् ।आरम्भं तेन मार्गेण तस्य खातस्य कारयेत् ॥
ततो गर्त्तं खनेन्मध्ये हस्तमानप्रमाणतः ।चतुरङ्गुलमात्रं तदधः खन्यात् सुसम्मितम् ॥
गोमयेन प्रलिप्याथ चन्दनेन विलेपितम् ।मध्ये दत्त्वा तु पुष्पाणि शुक्लान्यक्षतमेव च ॥
आचार्य्यः प्राङ्मुखोभूत्वा ध्यायेद्देवं चतुर्म्मुखम् ।तूर्य्यमङ्गलघोषेण ब्रह्मघोषरवेण च ॥
अर्घ्यं दद्यात् सुरश्रेष्ठ कुम्भतोयेन मन्त्रवित् ।प्रगृह्य कर्करीं तान्तु तत् खातं पूजयेज्जलैः ॥
सर्व्वरत्नसमायुक्तैर्विमलैश्च सुगन्धिभिः ।तस्मिन् पुष्पाणि शुक्लानि प्रक्षिपेदोमिति स्मरन् ॥
तदावर्त्तं परीक्षेत दधिभक्तान्वितं क्षिपेत् ।शुभं स्याद्दक्षिणावर्त्तेऽशुभं वामे भवेत्ततः ॥
बीजैः शालियवादीनां गर्त्तं तं पूरयेत्ततः ।क्षेत्रजाभिः पवित्राभिर्मृद्भिर्गत्तं प्रपूरयेत् ॥
एवं निष्पाद्य विधिना वास्तुयागं सुरोत्तम ।सुवर्णं गाञ्च वस्त्रञ्च आचार्य्याय निवेदयेत् ॥
”इतरानीशादीन् होमस्तु प्रणवादिस्वाहान्त-तत्तन्नामभिः । तथा च विष्णुधर्म्मोत्तरे ।“एकैकां देवतां राम समुद्दिश्य यथाबिधि ।चतुर्थ्यन्तेन धर्म्मज्ञो नाम्ना च प्रणवादिना ।होमद्रव्यमथैकैकं शतसङ्ख्यन्तु होमयेत् ॥
”शतसङ्ख्यमिति पूर्व्वोक्तवचनानुसारेण वास्तु-यागेतरपरम् । स्मृतिः ।“स्वाहावसाने जुहुयात् ध्यायन् वै मन्त्रदेव-ताम् ॥
”होमदक्षिणासम्प्रदानमाह छन्दोगपरिशिष्टम् ।“ब्रह्मणे दक्षिणा देया यत्र या परिकीर्त्तिता ।कर्म्मान्तेऽनुच्यमानायां पूर्णपात्रादिका भवेत् ॥
विदध्याद्धौत्रमन्यश्चेद्दक्षिणार्द्ध हरो भवेत् ।स्वयञ्चेदुभयं कुर्य्यादन्यस्मै प्रतिपादयेत् ॥
”अन्यो यजमानभिन्नः । उभयं ब्रह्मकर्म्म होतृ-कर्म्म च । उपसंहारे वास्तुयागमिति श्रुतेःसङ्कल्पवाक्ये तेनैवोल्लेखमाचरन्ति । अत्रमिलितामिलितदक्षिणादानात् फलतार-तम्यम् ॥
* ॥
मात्स्ये ।“ततः सर्व्वौषधिस्नानं यजमानस्य कारयेत् ॥
”देवीपुराणम् ।“कालज्ञस्थपती पूज्यौ वैष्णवान् शक्तितोऽर्च्चयेत् ।ब्राह्मणान् भोजयित्वा तु नृत्यगीतादि कारयेत् ॥
प्रासादं कारयेद्बिद्बान् गृहं वापि मनोहरम् ।कार्य्यस्तु पञ्चभिर्व्विल्वैर्व्विल्वबीजैरथापि वा ।होमान्ते भक्ष्यभोज्यैश्च वास्तुयागे बलिं हरेत् ॥
”इति मत्स्यपुराणे होमान्ते बलिविधानात्अत्रापि होमं कृत्वा बल्यादिप्रागुदितसर्व्वकर्म्म-करणाचारः ॥
* ॥
अत्र प्रजापतिनामाग्निः ।“प्रतिष्ठायां लोहितश्च वास्तुयागे प्रजापतिः ।जलाशयप्रतिष्ठायां वरुणः समुदाहृतः ॥
”इति मत्स्यसूक्तवचनात् । एकाशीतिपदवास्तु-यागे मत्स्यपुराणम् । भूम्यधिकारे ।“पञ्चगव्यौषधिजलैः परीक्षित्वा तु सेचयेत् ।एकाशीतिपदं कृत्वा रेखाभिः कनकेन तु ॥
पश्चाल्लेप्येन चालिप्य सूत्रेणालोड्य सर्व्वतः ।दश पूर्व्वायता रेखा दश चैवोत्तरायताः ।सर्व्ववास्तुविभागे तु विज्ञेया नवधा नव ॥
”पञ्चगव्यमन्त्रमाह शङ्खः ।“गायत्त्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।आप्यायस्वेति च क्षीरं दधिक्राव्नेति वै दधि ।तेजोऽसीति घृतञ्चैव देवस्यत्वा कुशोदकम् ॥
”ओषधीराह कात्यायनः ।“व्रीहयः शालयो मुद्गा गोधूमाः सर्षपास्तिलाः ।यवाश्चौषधयः सप्त विपदो घ्नन्ति धारिताः ॥
”व्रीहिः शरत्पक्वधान्यं षष्टिकाख्यम् । शालयोहैमन्तिकाः । दशेति वास्तुमण्डलवायव्ये उप-विश्य पूर्व्वाभिमुखो गुरुः उत्तरत आरभ्य दश-रेखाः प्राङ्मुखीर्यथादक्षिणं कुर्य्यात् । एवंनैरृत्यामुपविश्य पश्चिमतः पूर्व्वापरगा दशो-त्तरायता रेखाः कुर्य्यात् कनकशलाकादिना ।रुद्रयामले तासां नामानि ।“शान्ता यशोवती कान्ता विशाला प्राण-वाहिनी ।शची सुमनसा नन्दा सुभद्रा सुरथा तथा ॥
”इत्याद्या दश रेखाः ॥
“हिरण्या सुव्रता लक्ष्मीर्विभूतिर्विमला प्रिया ।जया कला विशोका च इडा संज्ञा दशो-त्तराः ॥
”इत्यन्तदश रेखाः ॥
“एकाशीतिपदं कृत्वा वास्तुकृत् सर्व्ववास्तुषु ।पदस्थान् पूजयेद्देवान् त्रिंशत् पञ्चदशैव तु ॥
द्बात्रिंशद्बाह्यतः पूज्याः पूज्याश्चान्तस्त्रयोदश ।नामतस्तानि वक्ष्यामि स्थानानि च निबोध मे ॥
ईशानकोणादिषु तान् पूजयेच्च विधानतः ।शिखी चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ॥
सूर्य्यः सत्यो भृशश्चैव आकाशो वायुरेव च ।पूषा च वितथश्चैव गृहक्षतयमावुभौ ॥
गन्धर्व्वो भृङ्गराजश्च मृगः पितृगणस्तथा ।दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ॥
असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च ।भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा ॥
बहिर्द्वात्रिंशदेते च तदन्तश्चतुरः शृणु ।ईशानादिचतुष्कोणसं स्थितान् पूजयेद्बुधः ॥
आपश्चैवाथ सावित्र्यो जयो रुद्रस्तथैव च ।मध्ये नवपदे ब्रह्मा तस्याष्टौ च स्रमीपगाः ॥
सर्व्वानेकान्तरान् विद्यात् पूर्व्वाद्यान्नामतः शृणु ।अर्य्यमा सविता चैव विवस्वान् विबुधाधिपः ॥
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ।अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः ॥
आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिस्तथा ।पादिकानाञ्च वर्गोऽयमेवं कोणेषु शेषतः ॥
तन्मध्ये तु बहिर्विंशद्द्विपदास्ते तु सर्व्वतः ।अर्य्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ।ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्व्वतः ॥
”एवमिति यथा ईशानकोणे कोष्ठचतुष्टये अन्त-स्थितैककोष्ठसहिते देवतापञ्चकमेवमाग्नेयादि-कोणेष्वपीत्यर्थः । दिक्षु पूर्व्वादिदिक्षु ॥
* ॥
“वंशानिदानीं वक्ष्यामि बहूनपि पृथक् पृथक् ।वायुं यावत् तथा रोगात् पितृभ्यः शिखिनंपुनः ॥
मुख्याद्भृशमथो शोषाद्वितथं यावदेव तु ।सुग्रीवाददितिं यावद्भृङ्गाज्जयन्तमेव च ॥
एते वंशाः समाख्याताः क्वचिज्जठर एव च ।एतेषां चैव सम्पातः पदमध्ये समस्तथा ॥
मर्म्म चैतत् समाख्यातं त्रिशूलं कोणगं च यत् ।स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्व्वदा ॥
कीलोच्छिष्टोपघातानि वर्ज्जयेत् यत्नतो नरः ।सर्व्वत्र वास्तुनिर्द्दिष्टः पितृवैश्वानरायतः ॥
मूर्द्धन्यग्निः समाविष्टो मुखे चापः समाश्रितः ।पृथ्वीधरोऽर्य्यमा चैव स्तनयोस्तावधिष्ठितौ ॥
वक्षःस्थले चापवत्सः पूजनीयस्तथा बुधैः ।नेत्रयोर्दितिपर्ज्जन्यौ श्रोत्रे दितिजयन्तकौ ॥
सर्पेन्द्रा वंशसंस्थौ च पूजनीयौ प्रयत्नतः ।सोमसूर्य्यादयस्तद्बद्बाह्वोः पञ्च च पञ्च च ॥
रुद्रश्च राजयक्ष्मा च वामहस्तसमाश्रितौ ।सावित्रः सविता तद्वद्धस्तं दक्षिणमाश्रितौ ॥
विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ ।पूषा च पापयक्ष्मा च हस्तयोर्म्मणिबन्धके ॥
तथैवासुरशेषौ च वामपार्श्वे समाश्रितौ ।पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः ॥
उर्व्वोर्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्व्वपुष्पकौ ।जङ्घयोर्भृङ्गसुग्रीवौ कट्यां दौवारिको मृगः ॥
जयः शक्रस्तथा मेढ्रे पादयोः पितरस्तथा ।मध्ये नवपदो ब्रह्मा हृदये स तु पूज्यते ॥
चरकीञ्च विदारीञ्च पूतनां पापराक्षसीम् ।ईशाग्नयादिकोणेषु मण्डलाद्बाह्यतो यजेत् ॥
”पितृभ्य इति पितृगणादारभ्य वह्निं यावत् योवंशः प्रसारितस्तद्वदायतो वास्तुपूरुषः । अम्बुपोवरुणः । पुष्पकः पुष्पदन्तः । तथा ।“प्रदक्षिणन्तु कुर्व्वीत वास्तोः पदविलेखनम् ।”कोष्ठानां लिखनं प्रदक्षिणं कार्य्यम् । तथा ।“तर्जनी मध्यमा चैव तथाङ्गुष्ठश्च दक्षिणः ।प्रबालरत्नकनकं फलपुष्पाक्षतोदकम् ।सर्व्वञ्च वामभागेषु शस्तं पदविलेखने ॥
” * ॥
तथा ।“वास्तौ परीक्षिते सम्यग्वास्तुदेहे विचक्षणः ।वास्तू पशमनं कुर्य्यात् समिद्भिर्बलिकर्म्मणा ॥
जीर्णोद्धारे तथोद्याने तथा गृहनिवेशने ।द्वाराभिवर्द्धने तद्वत् प्रासादेषु गृहेषु च ॥
वास्तूपशमनं कुर्य्यात् पूर्व्वमेव विचक्षणः ।एकाशीतिपदं लेख्यं लेखकैर्वास्तुपिष्टकैः ।होमस्त्रिमेखले कार्य्यः कुण्डे हस्तप्रमाणके ॥
”विश्वकर्म्मा ।“खाताधिके भवेद्रोगी हीने धेनुधनक्षयः ।वक्रकुण्डे तु सन्तापो मरणं छिन्नमेखले ॥
मेखलारहिते शोको ह्यधिके वित्तसंक्षयः ।भार्य्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम् ।अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्ज्जितम् ॥
”वशिष्ठसंहितायाम् ।“तस्मात् सम्यक् परीक्ष्यैवं कर्त्तव्यं शुभवेदिकम् ।”एवंविधकुण्डासम्भवे क्रियासारः ।“कुण्डमेवंविधं न स्यात् स्थण्डिलं वा समा-श्रयेत् ॥
”मत्स्यपुराणम् ।“यवैः कृष्णतिलैस्तद्बत् समिद्भिः क्षीरसम्भवैः ।पालाशैः खादिरैरापामार्गोडुम्बरसम्भवैः ॥
कुशदूर्व्वामयैर्व्वापि मधुसर्पिःसमन्वितैः ।कार्य्यस्तु पञ्चभिर्विल्वैर्विल्वबीजैरथापि वा ।होमान्ते भक्ष्यभोज्यैश्च वास्तुदेशे वलिं हरेत् ॥
”अत्र होमे मन्त्रानाह विष्णुधर्म्मोत्तरम् ।“वास्तोष्पतेन मन्त्रेण यजेच्च गृहदेवताम् ।”वास्तोष्पतेन वास्तोष्पतिदैवतेन पञ्चमन्त्रेण ।वलिद्रव्यञ्च पायसं प्रागेव लिखितम् ॥
* ॥
ब्रह्मस्थाने ततः कुर्य्याद्वासुदेवस्य पूजन-मित्यादि । सुवर्णं गां वस्त्रयुगमाचार्य्याय निवे-दयेत् । इत्यन्तमत्रापि बोध्यम् कल्पतरौ मत्स्य-पुराणम् ।“ततः सर्व्वौषधिस्नानं यजमानस्य कारयेत् ।द्विजांश्च पूजयेद्भक्त्या ये चान्ये गृहमागताः ॥
एतद्बास्तूपशमनं कृत्वा कर्म्म समाचरेत् ।प्रासादभवनोद्यानप्रारम्भे परिवर्त्तने ॥
पुरवेश्मप्रवेशेषु सर्व्वदोषापनुत्तये ।इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत् ॥
”इति मत्स्यपूराणे उपक्रमोपसंहारयोर्वास्तूप-शमनत्वेनाभिधानात् वास्तूपशमनं कर्म्मणोनामधेयं इति तेनैवोल्लेखः सर्व्वदोषापनुत्तयेइति श्रुतेश्च वास्तुसर्व्वदोषापनोदनं फलं संकल्पेतु तदुल्लेखः कार्य्यः । एतत्तु प्रारम्भप्रवेशान्य-तरस्मिन्नवश्यं कर्त्तव्यम् । आवश्यकत्वे प्रमाणंप्रागेवोक्तम् । इति श्रीरघुनन्दनभट्टाचार्य्यविर-चितं वास्तुयागतत्त्वं समाप्तम् ॥
वाचस्पत्यम्
SanskritGrassman
GermanBurnouf
FrenchStchoupak
Frenchवास्तु-
nt. (rar. ) endroit, emplacement (not. d'une maison)
maison,
foyer
d'un Vasu
(?) d'une rivière.
°कर्मन्- nt. construction de maisons, architecture.
°ज- a. domestique.
°ज्ञ- architecte.
°मध्य- nt. centre de la maison.
°विद्या- architecture.
°विधान- nt. = °कर्मन्-।
°शमन- nt. rite de purification qui accompagne la fondation d'une
maison, d'un foyer.
°संशमनीय- a. relatif à la purification rituelle d'une maison.
°संपादन- nt. aménagement d'une maison, préparatifs de
construction.
वास्तोष्-पति- génie tutélaire de la maison.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
