| YouTube Channel

वास्तवं (vAstavaM)

 
शब्दकल्पद्रुमः
Sanskrit
वास्तवं,
क्ली,
(वस्त्वेष वस्तु + अण् ।) यथार्थ-भूतम् यथा, --“धर्म्मः प्रोज्झितकैतवोऽत्र परमो निर्म्मत्सराणांसतांवेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।”इत्यादि श्रीभागवते प्रथमस्कन्धे अध्यायः
“वास्तवं परमार्थभूतं वस्तु यद्वा, वास्तव-शब्देन वस्तुबोऽंशो जीवः वस्तुनः कार्य्यं जगच्चतत् सर्व्वं वस्त्वेव ततः पृथक् ।” इति तट्टी-कायां श्रीधरस्वामी