| YouTube Channel

वासुदेवः (vAsudevaH)

 
Apte
English
वासुदेवः [vāsudēvḥ], [वसुदेवस्यापत्यम् अण्]
Any descendant of Vasudeva.
Particularly, Kṛiṣṇa.
The sage Kapila
वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम्
Mb.
* 3.17.32.-वी Asparagus Racemosus (Mar. शतावरी).
Apte 1890
English
वासुदेवः [वसुदेवस्यापत्यम् अण्] 1 Any descendant of Vasudeva.
2 Particularly, Kṛṣṇa.
Hindi
Hindi
देवत्व की व्यक्तित्व, KRishhNa की
Apte Hindi
Hindi
वासुदेवः
पुं*
- वसुदेवस्यापत्यम् अण्
वसुदेव की संतान
वासुदेवः
पुं*
- -
विशेष रूप से कृष्ण
Wordnet
Sanskrit
Synonyms:
वासुदेव-उपनिषद्, वासुदेवः
noun
एका उपनिषद्।
"वासुदेव-उपनिषद् सामवेदेन सम्बन्धिता।"
Synonyms:
कृष्णः, नारायणः, दामोदरः, हृषीकेशः, केशवः, माधवः, अच्युतः, गोविन्दः, जनार्दनः, गिरिधरः, दैवकीनन्दनः, माधवः, शौरिः, अहिजितः, योगीश्वरः, वंशीधरः, वासुदेवः, कंसारातिः, वनमाली, पुराणपुरुषः, मुकुन्दः, कंसारिः, वासुः, मुरलीधरः, जगदीशः, गदाधरः, नन्दात्मजः, गोपालः, नन्दनन्दनः, यादवः, पूतनारिः, मथुरेशः, द्वारकेशः, पाण्डवायनः, देवकीसूनुः, गोपेन्द्रः, गोवर्धनधरः, यदुनाथः, चक्रपाणिः, चतुर्भुजः, त्रिविक्रमः, पुण्डरीकाक्षः, गरुडध्वजः, पीताम्बरः, विश्वम्भरः, विश्वरुजः, सनातनः, विभुः, कान्तः, पुरुषः, प्रभुः, जितामित्रः, सहस्रवदनः
noun
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
"सूरदासः कृष्णस्य परमो भक्तः।"
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
Synonyms:
वासुदेवः
noun
कुषाणवंशीयः राजा।
"वासुदेवः कुषाणवंशोद्भवः अन्तिमः राजा आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
वासुदेवः,
पुं,
(वसुदेवस्यापत्यमिति वसुदेव +“ऋष्यन्धकवृष्णिकुरुभ्यश्च ।” ११४ ।इति अण् यद्वा, सर्व्वत्रासौ वसत्यात्मरूपेणविश्वम्भरत्वादिति वस् + बाहुलकात् उण्वासुः वासुश्चासौ देवश्चेति कर्म्मधारयः ।अस्य नामनिरुक्तिस्तु परतो ज्ञेया ।) श्रीकृष्णः ।इत्यमरः
तत्पर्य्यायः वसुदेवभूः इतिहेमचन्द्रः
सव्यः सुभद्रः वासुभद्रः ५षडङ्गजित् षड्बिन्दुः प्रश्निशृङ्गः प्रश्नि-भद्रः गदाग्रजः १० मार्जः ११ वभ्रुः १२लोहिताक्षः १३ परमाण्वङ्गकः १४ इतिशब्दमाला
अन्यत् कृष्णशब्दे द्रष्टव्यम्
श्रीकृष्णशरीरस्य नित्यत्वं यथा, --श्रीसनत्कुमार उवाच ।“भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् ।कृष्णस्य कुशलप्रश्नं शिवबीजस्य निष्फलम्
साम्प्रतं कुशलं वश्च दर्शनं परमात्मनः ।भक्तानुरोधाद्देहस्य परस्य प्रकृतेरपि
निर्गुणस्य निरोहस्य सर्व्वबीजस्य तेजसः ।भारावतारणायैव चाविर्भूतस्य साम्प्रतम्
श्रीकृष्ण उवाच ।शरीरधारिणश्चापि कुशलप्रश्नमीप्सितम् ।तत्कथं कुशलप्रश्नं मयि विप्र विद्यते
सनत्कुमार उवाच ।शरीरे प्राकृते नाथ सन्त्रतञ्च शुभाशुभम् ।नित्यदेहे क्षेमबीजे शिवप्रश्नमनर्थकम्
श्रीभगवानुवाच ।यो यो विग्रहधारी प्राकृतिकः स्मृतः ।देहो विद्यते विप्र तां नित्यां प्रकृतिं विना
सनत्कुमार उवाच ।रक्तबिन्दूद्भवा देहास्ते प्राकृतिकाः स्मृताः ।कथं प्रकृतिनाथस्य बीजस्य प्राकृतं वपुः
सर्व्वबीजस्य सर्व्वादिर्भवांश्च भगवान् स्वयम् ।सर्व्वेषामवताराणां प्रधानं बीजमव्ययम्
कृत्वा वदन्ति वेदाश्च नित्यं नित्यं सनातनम् ।ज्योतिःस्वरूपं परमं परमात्मानमीश्वरम्
मायया सगुणञ्चैव मायेशं निर्गुणं परम् ।प्रवदन्ति वेदाङ्गास्तथा वेदविदः प्रभो
श्रीकृष्ण उवाच ।साम्प्रतं वासुदेवोऽहं भक्तवीर्य्याश्रितं वपुः ।कथं प्राकृतो विप्र शिवप्रश्नमभीप्सितम्
सनत्कुमार उवाच ।वासः सर्व्वनिवासश्च विश्वानि यस्य लोमसु ।तस्य देवः परं ब्रह्म वासुदेव इतीरितः
वासुदेवेति तन्नाम वेदेषु चतुर्षु ।पुराणेष्वितिहासेषु यात्रादिषु दृश्यते
रक्तवीर्य्याश्रितो देहः कृते वेदे निरूपितः ।साक्षिणो मुनयश्चात्र धर्म्मः सर्व्वत्र एव हि
साक्षिणो मम वेदाश्च रविचन्द्रौ साम्प्रतम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८७ अध्यायः
तस्य नामव्युत्पत्तिः ।“सर्व्वत्रासौ समस्तञ्च वसत्यत्रेति वै यतः ।ततः वासुदेवेति विद्बद्भिः परिगीयते
”इति विष्णुपुराणे अंशे अध्यायः
अपि ।“सर्व्वाणि तत्र भूतानि वसन्ति परमात्मनि ।भूतेष्वपि सर्व्वात्मा वासुदेवस्ततः स्मृतः
खाण्डिक्यजनकायाह ष्टष्टः केशिध्वजः पुरा ।नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः
भूतेषु वसते सोऽन्तर्व्वसन्त्यत्र तानि यत् ।धाता विधाता जगतां वादेवस्ततः प्रभुः
”इति तत्रैव ८० -- ८२
*
(तथा महाभारते ७० ।“वसनात् सर्व्वभूतानां वसुत्वात् देवयोनितः ।वासुदेवस्ततो वेद्यो बृहत्वात् विष्णुरुच्यते
”)अस्य अङ्गप्रत्यङ्गमन्त्रा यथा, --“बीजस्तु वासुदेवस्य पुरैव प्रतिपादितम् ।तदङ्गमन्त्रं राजेन्द्र द्वादशाक्षरमुच्यते
ओँ नमो भगवते वामुदेवाय वै पदम् ।अङ्गमन्त्रं तथैतस्य वासुदेवस्य कीर्त्तितम्
अस्य प्रत्यङ्गरूपन्तु दधिवामनसंज्ञकम् ।तस्य मन्त्रं नरश्रेष्ठ शम्भुना भाषितं शृणु
ओँ नमो विष्णवे पूर्व्वं पदं तस्य प्रकोर्त्तितम् ।पदन्तु सुरपतये चतुर्थ्यन्तं महाबलम्
स्वाहान्तं हृदयासन्नं प्रत्यङ्गं वैष्णवं मतस् ।मन्त्रद्वयन्तु यो वेद बीजं प्रत्यङ्गमन्त्रकम्
पूषा देवकायस्तु भूयोऽभिजायते ।सर्व्वस्तूत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने
त्रिषु मन्त्रेषु बुधो विशेषं शृणु भूपते ।रूपन्तु बीजमन्त्रस्य प्रथमं शृणु भूपते
पूर्णचन्द्रोपमः शुक्लः पक्षिराजोपरिस्थितः ।चतुर्भुजः पीतवस्त्रैस्त्रिभिः संवीतदेहभृत
दक्षिणोर्द्ध्वे गदां धत्ते तदधो विकचाम्बुजम् ।वामोर्द्ध्वे चक्रमत्युग्रं धत्तेऽधः शङ्खमेव
श्रीवत्सवक्षाः सततं कौस्तुभं हृदि चाद्भुतम् ।धत्ते कक्षे ह्यधो वामे तूणीरं वाणपूरितम्
दक्षिणे कोषगं खड्गं नन्दकं सशराशनम् ।शीर्षे किरीटं सद्योतं कर्णयोः कुण्डलद्वयम्
आजानुलम्बिनीं चित्रां स्वर्णमालां गलस्थि-ताम् ।दधानं दक्षिणे देवीं श्रियं पार्श्वे तु विभ्रतम्
सरस्वर्ती वामपार्श्वे चिन्तयेद्वरदं हरिम् ।मन्त्रस्य बीजरूपन्तु कथितं तव पार्थिव
द्बादशाक्षरमन्त्रस्य रूपमन्यत् शृणुष्व मे ।नीलोत्पलदलश्यामं तथैव चतुर्भुजम्
दक्षिणोर्द्ध्वे स्थितं पद्मं गदाञ्चाधः प्रचोदयेत्
वामेऽधश्चक्रमतुलमूर्द्ध्वे शङ्खञ्च विभ्रतम् ।चिन्तयेद्वरदं देवं सर्व्वमन्यच्च पूर्व्ववत्
अष्टादशाक्षरस्यास्य प्रत्यङ्गस्य विस्तरम् ।शृणु राजन्नवहितो दारिद्र्यभयभञ्जनम्
पूर्णेन्दुसदृशं कामं शुक्लवस्त्रं विचिन्तयेत् ।करे विचिन्तयेद्वामे पीयूषापूरितं घटम्
दध्यन्नखण्डसंयुक्तं दक्षिणे स्वर्णभाजनम् ।पद्मासनगतं देवं चन्द्रमण्डलमध्यगम्
शुक्लवस्त्रधरं देवं प्रमाणाद्वामनं सदा ।ईषद्धाससमायुक्तं त्रिलोकेशं त्रिविक्रमम् ।चिन्तयेद्वरदं देवं सर्व्वकामफलप्रदम्
”इति कालिकापुराणे ८२ अध्यायः
*
तस्योत्पत्तिर्यथा, --“ततस्तु दशमे मासि विधौ ब्रह्मर्क्षसङ्गते ।अष्टम्यामर्द्धरात्रौ तस्यां जातो जनार्द्दनः
इन्दीवरदलश्यामः पद्मपत्रायतेक्षणः ।चतुर्भुजः सुन्दराङ्गो दिव्याभरणभूषितः
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ।वमुदेवस्य जातोऽसौ वासुदेवः सनातनः
इति पाद्मोत्तरखण्डे ६० अध्यायः
*
तस्य चतुर्धा मूर्त्तिर्यथा, --“एकांशेन जगत् कृत्स्नं व्याप्य नारायणः स्यितः ।चतुर्द्धावस्थितो व्यापी सगुणो निर्गुणोऽपि वा
एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवामला ।वासुदेवाभिधाना सा गुणातीता सुनिष्कला
द्बितीया कालसंज्ञान्या तामसी शेषसंज्ञिता ।निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः
सत्त्वोद्रिक्ता तृतीयान्या प्रद्युम्नेति संज्ञिता ।जगत् स्थापयते सर्व्वं सा विष्णुप्रकृतिर्ध्रुवा
चतुर्थी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता ।राजसी चानिरुद्धाख्या प्राद्युम्नी सृष्टि-कारिका
यः स्वपित्यखिलं हत्वा प्रद्युम्नेन सह प्रभुः ।नारायणाख्यो ब्रह्मासौ प्रजासर्मकरो हि सः
या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्बराः ।तया संमोहयेद्विश्वं सदेवासुरमानुषम्
सैव सर्व्वजगत्सूतिः प्रकृतिः परिकीर्त्तिता ।वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः
प्रधानं पुरुषः कालस्तद्वत् त्रयमनुत्तमम् ।वासुदेवात्मकं नित्यमेतत् विज्ञानमुच्यते
एकवेदं चतुष्पादं चतुर्द्धा पुनरच्युतः ।विभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः
”इति कूर्म्मपुराणे ४८ अध्यायः