वासुदेव (vAsudeva)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishवासुदेवः [vāsudēvḥ], [वसुदेवस्यापत्यम् अण्]
Any descendant of Vasudeva.
Particularly, Kṛiṣṇa.
The sage Kapila
वासुदेवेति यं प्राहुः कपिलं मुनिपुङ्गवम् * 3.17.32.-वी Asparagus Racemosus (Mar. शतावरी).
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishवासुदेव वासुदेव, अस्, m. (fr. वसु-देव),
‘son of Vasu-deva, ’ epithet of Kṛṣṇa
a descendant
of Vasu-deva
N. of a class of persons peculiar to
the Jainas
N. of an author
of a poet
of a phy-
sician.
—वासुदेव-प्रियङ्करी, f. a kind of shrub
(= शतावरी).
—वासुदेवोपनिषद् (°व-उप्°), त्,
f., N. of one of the more recent Upaniṣads of the
Atharva-veda.
Macdonell
EnglishApte Hindi
Hindiवासुदेवः
- वसुदेवस्यापत्यम् अण्
वसुदेव की संतान
वासुदेवः
- -
विशेष रूप से कृष्ण
Aufrecht Catalogus Catalogorum
EnglishEdgerton Buddhist Hybrid
EnglishAbhyankara Grammar
Englishवासुदेव ( शास्त्री) surnamed Abhyankar, who lived from 1863 to l942 and did vigorous and active work of teaching pupils and writing essays, articles, commentary works and original works on various Shastras with the same scholarship, zeal and acumen for fifty years in Poona. He wrote गूढार्थप्रकाश a commentary on the LaghuSabdendusekhara and तत्त्वादर्श a commentary on the Pari- bhasendusekhara in 1889. His edition of the Patanjala Maha- bhasya with full translation and notes in Marathi can be called his magnum opus. See अभ्यंकर.
अभिधानचिन्तामणिः
Sanskritविष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवो
दाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ ।
विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति-
र्दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ २१४ ॥
गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मेशयपद्मनाभाः ।
वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥ २१५ ॥
दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः ।
त्रिविक्रमो जह्नुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ २१६ ॥
मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः ।
पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायनसुवर्णबिन्दवः ॥ २१७ ॥
श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः ।
सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ २१८ ॥
यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत् ।
विष्णु (पुं), जिष्णु (पुं), जनार्दन (पुं), हरिकेश (पुं), हृषीकेश (पुं), अच्युत (पुं), केशव (पुं), दाशार्ह (पुं), पुरुषोत्तम (पुं), अब्धिशयन (पुं), उपेन्द्र (पुं), अज (पुं), इन्द्रानुज (पुं), विष्वक्सेन (पुं), नरायण (पुं), जलशय (पुं), नारायण (पुं), श्रीपति (पुं), दैत्यारि (पुं), पुराणपुरुष (पुं), यज्ञपुरुष (पुं), तार्क्ष्यध्वज (पुं), अधोक्षज (पुं), गोविन्द (पुं), षड्बिन्दु (पुं), मुकुन्द (पुं), कृष्ण (पुं), वैकुण्ठ (पुं), पद्मेशय (पुं), पद्मनाभ (पुं), वृषाकपि (पुं), माधव (पुं), वासुदेव (पुं), विश्वम्भर (पुं), श्रीधर (पुं), विश्वरूप (पुं), दामोदर (पुं), शौरि (पुं), सनातन (पुं), विधु (पुं), पीताम्बर (पुं), मार्ज (पुं), जिन (पुं), कुमोदक (पुं), त्रिविक्रम (पुं), जह्नु (पुं), चतुर्भुज (पुं), पुनर्वसु (पुं), शतावर्त (पुं), गदाग्रज (पुं), स्वभू (पुं), मुञ्जकेशिन् (पुं), वनमालिन् (पुं), पुण्डरीकाक्ष (पुं), बभ्रु (पुं), शशबिन्दु (पुं), पृश्निशृङ्ग (पुं), धरणीधर (पुं), पाण्डवायन (पुं), सुवर्णबिन्दु (पुं), श्रीवत्स (पुं), देवकीसूनु (पुं), गोपेन्द्र (पुं), विष्टरश्रवस् (पुं), सोमसिन्धु (पुं), जगन्नाथ (पुं), गोवर्धनधर (पुं), यदुनाथ (पुं), गदाभृत् (पुं), शार्ङ्गभृत् (पुं), चक्रभृत् (पुं), श्रीवत्सभृत् (पुं), शङ्खभृत् (पुं)
वासुदेवा अमी कृष्णा नव शुक्ला बलास्त्वमी ॥ ६९७ ॥
वासुदेव (पुं), बलदेव (पुं)
अभिधानचिन्तामणिपरिशिष्टम्
Sanskritअश्वे तु क्रमणः कुण्डी प्रोथी ह्रेषी प्रकीर्णकः ॥ १७५ ॥
पाकलः परुलः किण्वी कुटरः सिंहविक्रमः ।
माषाशी केसरी हंसो मुद्गभुग्गूढभोजनः ॥ १७६ ॥
वासुदेवः शालिहोत्रो लक्ष्मीपुत्रो मरुद्रथः ।
चामर्येकशफोऽपि स्यादश्वायां पुनरर्वती ॥ १७७ ॥
क्रमण (पुं), कुण्डिन् (पुं), प्रोथिन् (पुं), हेषिन् (पुं), प्रकीर्णक (पुं), पालक (पुं), परुल (पुं), किण्विन् (पुं), कुटर (पुं), सिंहविक्रम (पुं), माषाशिन् (पुं), केसरिन् (पुं), हंस (पुं), मुहुर्भुज् (पुं), ग्रहभोजन (पुं), वासुदेव (पुं), शालिहोत्र (पुं), लक्ष्मीपुत्र (पुं), मरुद्रथ (पुं), अर्वती (स्त्री)
अभिधानरत्नमाला
Sanskritविष्णु
विष्णु, कृष्ण, केशव, मञ्जुकेशी, श्रीवत्साङ्क, श्रीपति, पीतवासस्, विष्वक्सेन, विश्वरूप, मुरारि, शौरि, शार्ङ्गिन्, पद्मनाभ, मुकुन्द, गोविन्द, धरणिधर, सुपर्णकेतु, वैकुण्ठ, जलशयन, चतुर्भुज, दैत्यारि, मधुमथन, रथाङ्गपाणि, दाशार्ह, क्रतुपुरुष, वृषाकपि, जनार्दन, अधोक्षज, वासुदेव, दामोदर, श्रीधर, अच्युत, उपेन्द्र, इन्द्रावरज, बभ्र, हरि, हृषीकेश, आत्मभू, पुण्डरीकाक्ष, श्रीवत्स, विष्टरश्रवस्, नारायण, जगन्नाथ, वनमाली, गदाधर, सनातन, जिन, शम्भु, विधि, वेधस्, गदाग्रज, कैटभारि, अज, जिष्णु, कंसजित्, पुरुषोत्तम
विष्णुः कृष्णः केशवो मञ्जुकेशी,
श्रीवत्साङ्कः श्रीपतिः पीतवासाः ।
विष्वक्सेनो विश्वरूपो मुरारिः,
शौरिः शार्ङ्गी पद्मनाभो मुकुन्दः ॥ २१ ॥
गोविन्दो धरणिधरः सुपर्णकेतु-
र्वैकुण्ठो जलशयनश्चतुर्भुजश्च ।
दैत्यारिर्मधुमथनो रथाङ्गपाणि-
र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् ॥ २२ ॥
जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं च ।
उपेन्द्रमिन्द्रावरजं च बभ्रं हरिं हृषीकेशमुदाहरन्ति ॥ २३ ॥
आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः ।
नारायणो जगन्नाथो वनमाली गदाधरः ॥ २४ ॥
सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः ।
कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः ॥ २५ ॥
verse 1.1.1.21
page 0004
नाममाला
Sanskritकृष्ण, दामोदर, विष्णु, उपेन्द्र, पुरुषोत्तम, केशव, हृषीकेश, शार्ङ्गिन्, नारायण, हरि, केशीसूदन, मधुसूदन, बलिसूदन, बाणसूदन, हिरण्यकशिपुसूदन, मुरसूदन, शौरि, पद्मनाभ, अधोक्षज, गोविन्द, वासुदेव
कृष्णो दामोदरो विष्णुरुपेन्द्रः पुरुषोत्तमः ।
केशवश्च हषीकेशः शार्ङ्गी नारायणो हरिः ॥ ७४ ॥
केशी मधुर्बलिर्बाणो हिरण्यकशिपुर्मुरः ।
तदादिसूदनः शौरिः पद्मनाभोऽप्यधोक्षजः ॥ ७५ ॥
गोविन्दो वासुदेवश्च लक्ष्मीः श्रीर्गोमिनीन्दिरा ।
तत्पतिः शैलभूम्यादिधरश्चक्रधरस्तथा ॥ ७६ ॥
verse 0.1.1.74
page 0039
Mahabharata
EnglishVāsudeva^1 (“the son of Vasudeva”) = Kṛshṇa, q.v.--Do.^2 (do.) = Balarāma: IV, 2356.
Vāsudeva^3, king of the Puṇḍras. § 232 (Svayaṃvarap.): I, 186, 6992 (Pauṇḍrakaḥ, came to the svayaṃvara of Draupadī).--§ 273 (Rājasūyārambhap.): II, 14, 584 (Vaṅga-Puṇḍra-Kirāteshu rāja…Pauṇḍrakaḥ, had joined Jarāsandha).--§ 280 (Bhīmasena): II, 30, 1096 (Puṇḍrādhipaṃ, vanquished by Bhīmasena on his digvijaya).--§ 287 (Rājasūyikap.): II, 34, 1270 (Pauṇḍrakaḥ, came to the rājasūya). Cf. Pauṇḍraka, Puṇḍrādhipa.
पुराणम्
Englishवासुदेव १ / VĀSUDEVA I. Being the son of vasudeva, śrī kṛṣṇa was called vāsudeva.
वासुदेव २ / VĀSUDEVA II. See under Pauṇḍrakavāsudeva.
शब्दकल्पद्रुमः
Sanskritवासुदेवः, (वसुदेवस्यापत्यमिति । वसुदेव +“ऋष्यन्धकवृष्णिकुरुभ्यश्च ।” ४ । १ । ११४ ।इति अण् । यद्वा, सर्व्वत्रासौ वसत्यात्मरूपेणविश्वम्भरत्वादिति । वस् + बाहुलकात् उण्वासुः । वासुश्चासौ देवश्चेति कर्म्मधारयः ।अस्य नामनिरुक्तिस्तु परतो ज्ञेया ।) श्रीकृष्णः ।इत्यमरः ॥
तत्पर्य्यायः । वसुदेवभूः २ । इतिहेमचन्द्रः ॥
सव्यः २ सुभद्रः ४ वासुभद्रः ५षडङ्गजित् ६ षड्बिन्दुः ७ प्रश्निशृङ्गः ८ प्रश्नि-भद्रः ९ गदाग्रजः १० मार्जः ११ वभ्रुः १२लोहिताक्षः १३ परमाण्वङ्गकः १४ । इतिशब्दमाला ॥
अन्यत् कृष्णशब्दे द्रष्टव्यम् ॥
श्रीकृष्णशरीरस्य नित्यत्वं यथा, --श्रीसनत्कुमार उवाच ।“भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् ।कृष्णस्य कुशलप्रश्नं शिवबीजस्य निष्फलम् ॥
साम्प्रतं कुशलं वश्च दर्शनं परमात्मनः ।भक्तानुरोधाद्देहस्य परस्य प्रकृतेरपि ॥
निर्गुणस्य निरोहस्य सर्व्वबीजस्य तेजसः ।भारावतारणायैव चाविर्भूतस्य साम्प्रतम् ॥
श्रीकृष्ण उवाच ।शरीरधारिणश्चापि कुशलप्रश्नमीप्सितम् ।तत्कथं कुशलप्रश्नं मयि विप्र न विद्यते ॥
सनत्कुमार उवाच ।शरीरे प्राकृते नाथ सन्त्रतञ्च शुभाशुभम् ।नित्यदेहे क्षेमबीजे शिवप्रश्नमनर्थकम् ॥
श्रीभगवानुवाच ।यो यो विग्रहधारी च स च प्राकृतिकः स्मृतः ।देहो न विद्यते विप्र तां नित्यां प्रकृतिं विना ॥
सनत्कुमार उवाच ।रक्तबिन्दूद्भवा देहास्ते च प्राकृतिकाः स्मृताः ।कथं प्रकृतिनाथस्य बीजस्य प्राकृतं वपुः ॥
सर्व्वबीजस्य सर्व्वादिर्भवांश्च भगवान् स्वयम् ।सर्व्वेषामवताराणां प्रधानं बीजमव्ययम् ॥
कृत्वा वदन्ति वेदाश्च नित्यं नित्यं सनातनम् ।ज्योतिःस्वरूपं परमं परमात्मानमीश्वरम् ॥
मायया सगुणञ्चैव मायेशं निर्गुणं परम् ।प्रवदन्ति च वेदाङ्गास्तथा वेदविदः प्रभो ॥
श्रीकृष्ण उवाच ।साम्प्रतं वासुदेवोऽहं भक्तवीर्य्याश्रितं वपुः ।कथं न प्राकृतो विप्र शिवप्रश्नमभीप्सितम् ॥
सनत्कुमार उवाच ।वासः सर्व्वनिवासश्च विश्वानि यस्य लोमसु ।तस्य देवः परं ब्रह्म वासुदेव इतीरितः ॥
वासुदेवेति तन्नाम वेदेषु च चतुर्षु च ।पुराणेष्वितिहासेषु यात्रादिषु च दृश्यते ॥
रक्तवीर्य्याश्रितो देहः कृते वेदे निरूपितः ।साक्षिणो मुनयश्चात्र धर्म्मः सर्व्वत्र एव हि ॥
साक्षिणो मम वेदाश्च रविचन्द्रौ च साम्प्रतम् ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८७ अध्यायः ॥
तस्य नामव्युत्पत्तिः ।“सर्व्वत्रासौ समस्तञ्च वसत्यत्रेति वै यतः ।ततः स वासुदेवेति विद्बद्भिः परिगीयते ॥
”इति विष्णुपुराणे १ अंशे २ अध्यायः ॥
अपि च ।“सर्व्वाणि तत्र भूतानि वसन्ति परमात्मनि ।भूतेष्वपि च सर्व्वात्मा वासुदेवस्ततः स्मृतः ॥
खाण्डिक्यजनकायाह ष्टष्टः केशिध्वजः पुरा ।नामव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥
भूतेषु वसते सोऽन्तर्व्वसन्त्यत्र च तानि यत् ।धाता विधाता जगतां वादेवस्ततः प्रभुः ॥
”इति तत्रैव । ६ । ५ । ८० -- ८२ ॥
* ॥
(तथा च महाभारते । ५ । ७० । ३ ।“वसनात् सर्व्वभूतानां वसुत्वात् देवयोनितः ।वासुदेवस्ततो वेद्यो बृहत्वात् विष्णुरुच्यते ॥
”)अस्य अङ्गप्रत्यङ्गमन्त्रा यथा, --“बीजस्तु वासुदेवस्य पुरैव प्रतिपादितम् ।तदङ्गमन्त्रं राजेन्द्र द्वादशाक्षरमुच्यते ॥
ओँ नमो भगवते वामुदेवाय वै पदम् ।अङ्गमन्त्रं तथैतस्य वासुदेवस्य कीर्त्तितम् ॥
अस्य प्रत्यङ्गरूपन्तु दधिवामनसंज्ञकम् ।तस्य मन्त्रं नरश्रेष्ठ शम्भुना भाषितं शृणु ॥
ओँ नमो विष्णवे पूर्व्वं पदं तस्य प्रकोर्त्तितम् ।पदन्तु सुरपतये चतुर्थ्यन्तं महाबलम् ॥
स्वाहान्तं हृदयासन्नं प्रत्यङ्गं वैष्णवं मतस् ।मन्त्रद्वयन्तु यो वेद बीजं प्रत्यङ्गमन्त्रकम् ॥
स पूषा देवकायस्तु न स भूयोऽभिजायते ।सर्व्वस्तूत्तरतन्त्रोक्तः क्रमो ग्राह्यः प्रपूजने ॥
त्रिषु मन्त्रेषु च बुधो विशेषं शृणु भूपते ।रूपन्तु बीजमन्त्रस्य प्रथमं शृणु भूपते ॥
पूर्णचन्द्रोपमः शुक्लः पक्षिराजोपरिस्थितः ।चतुर्भुजः पीतवस्त्रैस्त्रिभिः संवीतदेहभृत ॥
दक्षिणोर्द्ध्वे गदां धत्ते तदधो विकचाम्बुजम् ।वामोर्द्ध्वे चक्रमत्युग्रं धत्तेऽधः शङ्खमेव च ॥
श्रीवत्सवक्षाः सततं कौस्तुभं हृदि चाद्भुतम् ।धत्ते कक्षे ह्यधो वामे तूणीरं वाणपूरितम् ॥
दक्षिणे कोषगं खड्गं नन्दकं सशराशनम् ।शीर्षे किरीटं सद्योतं कर्णयोः कुण्डलद्वयम् ॥
आजानुलम्बिनीं चित्रां स्वर्णमालां गलस्थि-ताम् ।दधानं दक्षिणे देवीं श्रियं पार्श्वे तु विभ्रतम् ॥
सरस्वर्ती वामपार्श्वे चिन्तयेद्वरदं हरिम् ।मन्त्रस्य बीजरूपन्तु कथितं तव पार्थिव ॥
द्बादशाक्षरमन्त्रस्य रूपमन्यत् शृणुष्व मे ।नीलोत्पलदलश्यामं तथैव च चतुर्भुजम् ॥
दक्षिणोर्द्ध्वे स्थितं पद्मं गदाञ्चाधः प्रचोदयेत् ॥
वामेऽधश्चक्रमतुलमूर्द्ध्वे शङ्खञ्च विभ्रतम् ।चिन्तयेद्वरदं देवं सर्व्वमन्यच्च पूर्व्ववत् ॥
अष्टादशाक्षरस्यास्य प्रत्यङ्गस्य च विस्तरम् ।शृणु राजन्नवहितो दारिद्र्यभयभञ्जनम् ॥
पूर्णेन्दुसदृशं कामं शुक्लवस्त्रं विचिन्तयेत् ।करे विचिन्तयेद्वामे पीयूषापूरितं घटम् ॥
दध्यन्नखण्डसंयुक्तं दक्षिणे स्वर्णभाजनम् ।पद्मासनगतं देवं चन्द्रमण्डलमध्यगम् ॥
शुक्लवस्त्रधरं देवं प्रमाणाद्वामनं सदा ।ईषद्धाससमायुक्तं त्रिलोकेशं त्रिविक्रमम् ।चिन्तयेद्वरदं देवं सर्व्वकामफलप्रदम् ॥
”इति कालिकापुराणे ८२ अध्यायः ॥
* ॥
तस्योत्पत्तिर्यथा, --“ततस्तु दशमे मासि विधौ ब्रह्मर्क्षसङ्गते ।अष्टम्यामर्द्धरात्रौ च तस्यां जातो जनार्द्दनः ॥
इन्दीवरदलश्यामः पद्मपत्रायतेक्षणः ।चतुर्भुजः सुन्दराङ्गो दिव्याभरणभूषितः ॥
श्रीवत्सकौस्तुभोरस्को वनमालाविभूषितः ।वमुदेवस्य जातोऽसौ वासुदेवः सनातनः ॥
इति पाद्मोत्तरखण्डे ६० अध्यायः ॥
* ॥
तस्य चतुर्धा मूर्त्तिर्यथा, --“एकांशेन जगत् कृत्स्नं व्याप्य नारायणः स्यितः ।चतुर्द्धावस्थितो व्यापी सगुणो निर्गुणोऽपि वा ॥
एका भगवतो मूर्त्तिर्ज्ञानरूपा शिवामला ।वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥
द्बितीया कालसंज्ञान्या तामसी शेषसंज्ञिता ।निहन्ति सकलांश्चान्ते वैष्णवी परमा तनुः ॥
सत्त्वोद्रिक्ता तृतीयान्या प्रद्युम्नेति च संज्ञिता ।जगत् स्थापयते सर्व्वं सा विष्णुप्रकृतिर्ध्रुवा ॥
चतुर्थी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता ।राजसी चानिरुद्धाख्या प्राद्युम्नी सृष्टि-कारिका ॥
यः स्वपित्यखिलं हत्वा प्रद्युम्नेन सह प्रभुः ।नारायणाख्यो ब्रह्मासौ प्रजासर्मकरो हि सः ॥
या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्बराः ।तया संमोहयेद्विश्वं सदेवासुरमानुषम् ॥
सैव सर्व्वजगत्सूतिः प्रकृतिः परिकीर्त्तिता ।वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः ॥
प्रधानं पुरुषः कालस्तद्वत् त्रयमनुत्तमम् ।वासुदेवात्मकं नित्यमेतत् विज्ञानमुच्यते ॥
एकवेदं चतुष्पादं चतुर्द्धा पुनरच्युतः ।विभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः ॥
”इति कूर्म्मपुराणे ४८ अध्यायः ॥
वाचस्पत्यम्
Sanskritवासुदेव वसुदेवस्यापन्यम् अण । १ विष्णौ अमरः ।अन्यापि तन्न मनिरुक्तिः विष्णुपु० दर्शिता यथा “सर्व-त्रामो समस्त च वसत्यत्रेति वै यतः । ततः स वासु-देवेति विद्वद्भिः परिण्ठ्यते” । विष्णुस० भाष्ये तु द्विधापठितयोः वासदेवशब्दयोर्द्विधा व्युत्पत्तिर्दर्शिता तत्र प्र-थम वसुदेवापत्यरूपार्थिका द्वितीया यथा “वसति वासंगच्छति वा वासुः दीव्यति क्रीडति जिगीषते व्यव-हरति द्योतते स्तूयते मुमुक्षुभिर्वा गच्छतीति वा देवः ।वासुश्चास्रौ देवश्च वामदेवः । छादयामि जगद्विश्वं भूत्या(मायया) सूर्य्य इवांशुभिः । सर्वभूताधिवासश्च वासु-देवस्ततः स्मृतः” “वसनात् सर्वभूतानां वासुत्वाद् दवयो-नितः । वासुदेवस्ततो ज्ञेयो योगिभिस्तत्त्ववादिभिः” भा०उ० । स च चतुर्व्यूहस्य नारायणाख्यस्य परमात्मनःअशभेदः इति वैष्णवामन्यन्ते“एकांशेन जगत् कृतस्नं व्याप्य नारायणः स्थितः ।चतुर्द्धावस्थितो व्यापो सगुणो निर्गुणोऽपि वा । एका-भगवतोमूर्त्तिर्ज्ञानरूपा शिवाऽमला । वासुदेवाभिधाना सागुणातीता सुनिष्कला । द्वितीया कालसंज्ञान्या तामसीशेषसंज्ञिता (सङ्कर्षणाख्य) । निहन्ति सकलांश्चान्तोवैष्ण-वी परमा तनः । सत्त्वाद्रका तृतीयाऽन्या पद्युम्नेनि चसंज्ञिता । जगत् स्थापयते सर्वं सा विष्णुप्रकृतिर्ध्रवा ।चतुर्यी वासुदेवस्य मूर्त्तिर्ब्राह्मी सुसंज्ञिता । राजसी चा-निरुद्धाख्या प्राद्युम्नी सृष्टिकारिका । यः स्वपित्यखिलंहृत्वा प्रद्युन्मेन सह प्रभुः । नारायणाख्यो ब्रह्मासौप्रजासर्गकरो हि सः । या सा नारायणतनुः प्रद्यु-म्लाख्या मुनीश्वराः! । तया संमोहयेद्विश्वं सदेवासुर-मानुषम् । सैव सर्वजगत् सूते प्रकृतिः परिकीर्त्तिता ।वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः । प्रधानंपुरुषः कालस्तद्वद् त्रयमनुत्तमम् । वासुदेवात्मकं नित्य-मेतत विज्ञानमुच्यते” कूर्मपु० ४८ अ० ।
Capeller
GermanNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
