| YouTube Channel

वासन्ती (vAsantI)

 
Monier Williams Cologne
English
वासन्ती a (ई),
f.
, see below.
वासन्ती b
f.
(See वासन्त above)
N.
of various plants (Gaertnera Racemosa, a kind of jasmine, Bignonia Suaveolens
&c.
),
L.
=
नव-मालिका,
Bhpr.
a spring festival (held in the month Caitra in honour of Kāma-deva or in some places of Durgā),
L.
a kind of metre,
Col.
(in music) a partic. Rāgiṇī,
Saṃgīt.
N.
of a sylvan goddess,
Uttarar.
of a daughter of king Bhūmi-śukla,
Buddh.
Chandas
Sanskrit
सम-वृत्तम्,
अक्षराणि-
56,
पादेऽक्षराणि-
14
मात्राः - 24
सङ्ख्याजातिः - शक्वरी
मात्रा-विन्यासः
दा दा दा दा दा दा दा दा दा दा
लक्षण-मूलम् - आनन्दमिश्र-जालक्षेत्रम्
Apte Hindi
Hindi
वासन्ती
स्त्री*
- -
एक प्रकार की चमेली (सुगंधित फूलों से लदी हुई)
वासन्ती
स्त्री*
- -
बड़ी पीपल
वासन्ती
स्त्री*
- -
जूही का फूल
वासन्ती
स्त्री*
- -
कामदेव के सम्मान में मनाया जाने वाला उत्सव
L R Vaidya
English
vAsaMtI {% f. %} 1. A kind of jasmine, वासंतीकुसुमसुकुमारौरवयवैः Git.G.i.
2. the trumpet-flower
3. long pepper
4. a festival in honour of the god of love.
Edgerton Buddhist Hybrid
English
Vāsantī, n. of a ‘goddess of Night’: Gv 〔223.1 ff.〕
Schmidt Nachtrage zum Sanskrit Worterbuch
German
वासन्ती *Gaertnera racemosa, S I, 106, 12 (Ko.)
वासन्ती N. °einer adligen Frau, Śṛṅgt. 7, 8.
Wordnet
Sanskrit
Synonyms:
वासन्ती, माधविका, माधवीलता, माधवी, चन्द्रवल्ली, पुण्ड्रकः, अतिमुक्तः, अतिमुक्तकः, सुगन्धा, भ्रमरोत्सवः, भृङ्गप्रिया, भद्रलता, वसन्तीदूती, लतामाधवी, भूमीमण्डपभूषणा।
noun
सुगन्धितपुष्पैः युक्ता एका लता।
"तस्य पुष्पवाटिकायां वासन्तीम् वर्धते।"
Synonyms:
वासन्ती
noun
राज्ञः भूमिशुक्लस्य कन्या
"वासन्त्याः उल्लेखः बौद्धसाहित्ये अस्ति"
Synonyms:
वासन्ती
noun
एकं छन्दः
"वासन्त्याः उल्लेखः कोषे अस्ति"
Synonyms:
वासन्ती
noun
एकः उत्सवः यः चैत्रमासे आचर्यते
"वासन्त्याः उल्लेखः कोषे अस्ति"
Synonyms:
वासन्ती
noun
क्षुपनामविशेषः
"वासन्ती इति नामकानां नैकेषां क्षुपाणाम् उल्लेखः कोषे अस्ति"
Synonyms:
वासन्ती
noun
एका रागिणी
"वासन्त्याः उल्लेखः सङ्गीत-सारसङ्ग्रहे अस्ति"
Synonyms:
वासन्ती
noun
भूमिशुक्लस्य कन्या
"वासन्त्याः उल्लेखः बौद्धसाहित्ये वर्तते"
Synonyms:
वासन्ती
noun
एका देवता
"वासन्ती वनदेवता अस्ति"
Synonyms:
वासन्ती
noun
वनदेवताविशेषः
"वासन्त्याः वर्णनम् उत्तर-रामचरिते प्राप्यते"
अभिधानचिन्तामणिः
Sanskrit
--source--
निर्गुण्डी सिन्दुवारेऽतिमुक्तके माधवीलता
वासन्ती चौड्रपुष्पं तु जपा जातिस्तु मालती ११४७
-wordlist-
निर्गुण्डी (स्त्री), सिन्दुवार (पुं), अतिमुक्तक (पुं), माधवी (स्त्री), लता (स्त्री), वासन्ती (स्त्री), औड्रपुष्प (क्ली), जपा (स्त्री), जाति (स्त्री), मालती (स्त्री)
अभिधानरत्नमाला
Sanskrit
अतिमुक्त
अतिमुक्त, वासन्ती, माधवी, लता
अतिमुक्तकमिच्छन्ति वासन्तीं माधवीं लताम् २०८
verse 2.1.1.208
page 0026
वैजयन्तीकोषः
Sanskrit
Word: वासन्ती
Root: वासन्ती
Gender: स्त्री
Number: all
अर्थः पीतयूथिका
Meaning(s):
Jasmine with yellow flowers
Tamil Paśumullai
Shloka(s):
3|3|182|2 मानवी चात्र पीतायां वासन्ती हेमपुष्पिका॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|182|2 वासन्ती (वासन्ती) (स्त्री) Jasmine with yellow flowers
Tamil Paśumullai पीतयूथिका
3|3|182|2 हेमपुष्पिका (हेमपुष्पिका) (स्त्री) Yellow jasmine
jasminium
Tamil Paśumullai पीतयूथिका
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
वासन्ती,
स्त्री,
(वसुन्तस्येयमिति वसन्त + अण् ।ङीष् ।) माधवी यूथी इति मेदिनी ते, १५२
(यथा, रामायणे ७७ ।“मालतीमल्लिकापद्मकरवीराश्च पुष्पिताः ।केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः
”)पाटला इति विश्वः
कामोत्सवः तत्पर्य्यायः ।चैत्रावली मधूत्सवः सुवसन्तः काम-महः कर्द्दनी इति त्रिकाण्डशेषः
गणिकारी पुष्पलताविशेषः तत्पर्य्यायः ।प्रहसन्ती वसन्तजा माधवी महा-जातिः शीतसहा मधुबहुला वसन्त-दूती अस्या गुणाः शिशिरत्वम् हृद्यत्वम् ।सुरभित्वम् श्रमहारित्वम् धम्मिल्लामोदित्वम् ।मन्दमदोन्मादनदायित्वञ्च इति राजनिर्घण्टः
नवमल्लिका नेवारि इति हिन्दी भाषा
यथा, --“नेपाली कथिता तज्ज्ञैः सप्तला नवमालिका ।वासन्ती शीतला लध्वी तिक्ता दोषत्रयास्र-जित्
”इति भावप्रकाशः
*
अथ वासन्तीदुर्गापूजाप्रमाणम् तत्र भविष्य-पुराणम् ।“मीनराशिस्थिते सूर्य्ये शुक्लपक्षे नराधिप ।सप्तमीं दशमीं यावत् पूजयेदम्बिकां सदा
”भविष्योत्तरे ।“चैत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये ।पूजयेद्बिधिवद्दुर्गां दशम्याञ्च विसर्ज्जयेत्
”कालकौमुद्यां जावालिः ।“चैत्रे मासि सिते पक्षे सप्तम्यादिदिनत्रये ।पूजयेद्विविधैर्द्रव्यैर्लवङ्गकुसुमैस्तथा
नानाविधैश्च वलिभिर्म्मेघाभैर्दोषवर्ज्जितैः ।विचित्राभरणैः पार्थ पट्टवस्त्रादिभिस्तथा
एवं यः कुरुते पूजां वर्षे वर्षे विधानतः ।ईप्सितान् लभते कामान् पुत्त्रपौत्त्रादिकान्नृप
”अत्र भविष्योत्तरे निरुपपदमासशब्दसङ्केतात्भषिष्यपुराणवचने मीनराशिस्थित इतिमीनस्थरव्यारब्धचान्द्रमासीयतिथिपरम् सौर-रव्यारब्धत्वे कदाचित् सप्तम्यादितिथित्रयाला-भात् तद्वर्षे तत्कृत्यलोपः स्यात् चेष्टापत्तिःभषिष्यपुराणे सदापदोपादानात् जावालिवचनेवर्षे वर्षे इत्युपादानाच्च नित्यत्वम् एतद्विवृतंकालविवेके एवं जावाली शेषवचनपरार्द्धेपुत्त्रादिरूपफलश्रवणात् काम्यत्वञ्च ततश्चकाम्यतया पूजने कृते प्रसङ्गात् नित्यत्वसिद्धिः ।“सिताष्टम्यान्तु चैत्रस्य पुष्पैस्तत्कालसम्भवैः
अशोकैरपि यः कुर्य्यात् मन्त्रेणानेन पूजनम् ।न तस्य जायते शोको रोगो वाप्यथ दुर्गतिः
”इति कालिकापुराणवचनात् केवलाष्टमीकल्पउक्तः चैत्रमासमधिकृत्य ।“नमम्यां पूजयेद्देवीं महिषासुरमर्द्दिनीम् ।कुङ्कुमागुरुकस्तूरीधूपान्नध्वजतर्पणैः ।दमनैर्मुरपत्रैश्च विजयाख्यपदं लभेत्
”इत्यनेन केवलनवमीकल्प उक्तः व्यवस्था तुशारदीयपूजाप्रकरणोक्ता ग्राह्या विशेषस्त्वत्रबोधनप्रक्रिया नास्ति बोधिताया बोधनासम्भ-वात् इति प्राक् विवृतम् होमादिकञ्च पूर्व्व-वज्ज्ञेयमिति दिक् इति दुर्गोत्सवविवेकः
*
अपि ।श्रीनारायण उवाच ।“पुरा स्तुता सा गोलोके कृष्णेन परमात्मना ।संपूज्य मधुमासे प्रीतेन रासमण्डले
मधुकैटभयोर्युद्धे द्वितीये विष्णुना पुरा ।तत्रैव काले सा दुर्गा ब्रह्मणा प्राणसङ्कटे
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६३ अध्यायः
(चतुर्द्दशाक्षरवृत्तिविशेषः इति छन्दो-मञ्जरी अस्या लक्षणादिकं छन्दःशब्दे द्रष्ट-व्यम्
)